📚 सत्यप्रमोदतीर्थस्तुतिः
📚 सत्यप्रमोदतीर्थस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्यप्रमोदतीर्थस्तुतिः सत्याभिज्ञकराब्जोत्था न् पञ्चाशद्वर्षपूजकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १ ॥ सुधापण्डितनिर्मातॄ न् सुधापण्डितपोषकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २ ॥ पञ्चाशद्वर्षपर्यन्तं मूलरामपदार्चकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ३ ॥ व्यासाशाजेतृरामादि महापचितिभूषितान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ४ ॥ भारतादिमहाशास्त्र पारायणपरायणान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ५ ॥ सुवर्णरजतागार महादानादितत्परान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ६ ॥ आसेतोरातुषाराद्रे स्तीर्थयात्राविधायकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ७ ॥ विशीर्णजीर्णबहुल भवनोद्धारकारकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ८ ॥ नूतनानेकभवन स्थापकान् भुवि सादरम् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ९ ॥ दुर्मिळप्राच्यसद्ग्रन्थ सङ्ग्राहकधुरन्धरान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १० ॥ अर्चारहितसारार्चा सारार्चनसुदीक्षितान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ११ ॥ विष्णुपञ्चकसत्काष्ठ मौनादिव्रतपावनान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १२ ॥ तन्त्रसारोक्तनिश्शेष मन्त्रावर्तनवर्तनान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १३ ॥ दुर्वादिमत्तकुम्भीन्द्र कुम्भभेदविशारदान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १४ ॥ महाभारतनिर्णीति शतावृत्तिसमुद्भवान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १५ ॥ आयुरारोग्यसद्विद्या सम्पत्सन्ततिभाग्यदान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १६ ॥ हीरहाटकतारादि भूषणादिसमर्पकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १७ ॥ वैराग्यभाग्यान् वैराग्य भाग्यान् वैराग्यतर्पितान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १८ ॥ तपसा निर्जिताशेष बाह्याभ्यन्तरशात्रवान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १९ ॥ गुणाचारैकसद्धाम करुणावरुणालयान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २० ॥ प्रत्येकपदपद्यादि प्रभूतार्थप्रकाशकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २१ ॥ वाचा प्रसन्नगाम्भीर्य युतया जनबोधकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २२ ॥ तपःपुण्यनिधीन् शान्ति दमादिगुणवारिधीन् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २३ ॥ श्रीनिवास श्रीनिवास तीर्थदर्शनतीर्थितान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २४ ॥ स्थापकान् जयतीर्थीय विद्यापीठस्य तापसान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २५ ॥ सत्यप्रमोदनिधिना सत्यामोदप्रदान् निधीन् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २६ ॥ स्वरूपोद्धारकृद्वर्या न् सत्स्वरूपोपदेशकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २७ ॥ तीर्थभक्तिसुसम्पूर्णा न् तीर्थभक्तिप्रदान् प्रदान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २८ ॥ मन्त्रमुद्रादिदानेन विष्णुदीक्षाप्रदायकान् । सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २९ ॥ सत्यात्मभिक्षुरचिता स्तुतिर्ज्ञानादिवृद्धिदा । पठतां शृण्वतां चैव श्रद्धया गुर्वनुग्रहात् ॥ ३० ॥ ॥ इति श्रीसत्यप्रमोदतीर्थस्तुतिः ॥