📚 सत्यध्यानतीर्थाष्टकम्
📚 सत्यध्यानतीर्थाष्टकम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्यध्यानतीर्थाष्टकम् सत्यज्ञानकराब्जोत्था न् सत्यप्रज्ञोपदेशकान् । सत्यध्यानमुनीन् वन्दे शास्त्रार्थज्ञानसिद्धये ॥ १ ॥ शास्त्रप्रवचनासक्ता न् सदा विद्यार्थिवत्सलान् । सत्यध्यानमुनीन् वन्दे शास्त्रव्याख्यानसिद्धये ॥ २ ॥ प्रतिवादीभपञ्चास्या न् मध्वसिद्धान्तदीपकान् । सत्यध्यानमुनीन् वन्दे वाद कौशलसिद्धये ॥ ३ ॥ सूत्रभेदपरत्वस्य साधकान् ग्रन्थतो भुवि । सत्यध्यानमुनीन् वन्दे सूत्र जार्थवित्तये ॥ ४ ॥ जीवेशभेदपरतां श्रुतेः साधयतो मुहुः । सत्यध्यानमुनीन् वन्दे श्रततात्पर्यवित्तये ॥ ५ ॥ गीताप्रतिपदार्थानां संग्रहं तन्वतो मुदा । सत्यध्यानमुनीन् वन्दे गीतार्थज्ञानसिद्धये ॥ ६ ॥ चन्द्रिकामण्डनद्वारा व्यासराजोक्तसाधकान् । सत्यध्यानमुनीन् वन्दे चन्द्रिकाज्ञानसिद्धये ॥ ७ ॥ हेमतारान्नवित्तादि दानशौण्डांश्च निस्स्पृहान् । सत्यध्यानमुनीन् वन्दे त्वौदार्यगुणसिद्धये ॥ ८ ॥ सत्यात्मयतिना प्रोक्तं सत्यध्यानाष्टकं त्विदम् । यः पठेत् शृणुयाद्वापि सिद्धिः सर्वापि तस्य हि ॥ ९ ॥ ॥ इति श्रीसत्यध्यानतीर्थाष्टकम् ॥