अथ संक्षिप्त लक्ष्मीहृदयस्तोत्रम्
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रलोचना ॥ १ ॥
पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा ।
सप्तमं च वरारोहा ह्यष्टमं हरिवल्लभा ॥ २ ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३ ॥
श्रीः पद्मा कमला मुकु न्दमहिषी लक्ष्मीस्त्रिलो ।
केश्वरी मा क्षीराब्धिसु ता विरिञ्चजननी ॥ ४ ॥
विद्या सरोजानना । सर्वाभीष्टफलप्रदेति ।
सततं नामानि ये द्वा दश प्रातः शुद्धतरा ॥ ५ ॥
पठन्त्यभिमतान् सर्वान् लभन्ते
गुणान् श्रीलक्ष्मीहृदयं चैतन्ना ।
मद्वादशयुग्मकम् । त्रिवारं प
ठते यस्तु सर्वैश्वर्यमवामुयात् ॥ ६ ॥
॥ इति संक्षिप्त लक्ष्मीहृदयस्तोत्रम् ॥