📚 श्रीशगुणदर्पणम्
📚 श्रीशगुणदर्पणम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीशगुणदर्पणम् या सुगंधास्यनासादि नवद्वाराऽखिलेन या । दुराधर्षा सर्वसस्यो दयार्थं या करीषिणी ॥ १ ॥ या नित्यपुष्टा सर्वाङ्गैः सौन्दर्यादिगुणैरपि । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ २ ॥ मातर्लक्ष्मि नमस्तुभ्यं माधवप्रियभामिनि । युवां विश्वस्य पितरा वितरेतरयोगिनौ ॥ ३ ॥ समना किल मातस्त्वममुना ततयोगिनी । मम नाथेन नैव स्या विमनाश्चन स त्वयि ॥ ४ ॥ त्वं वेदमानिनी वेद वेद्यः किल स ते प्रियः । त्वं मूलप्रकृतिर्देवी स दिव्यपुरुषः किल ॥ ५ ॥ यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते । स त्वां नैवाच्युतः सर्व स्यात्यये सत्यपि त्यजेत् ॥ ६ ॥ देवि त्वं ललनारत्नं देवोऽसौ पुरुषोत्तमः । युवां युवानौ सततं युवयोर्न वयोऽधिकः ॥ ७ ॥ त्वं पद्मिनी पद्मवत्रा पद्माक्षी पद्मविष्टरा । पद्मद्वयकरा पद्म कोशाभस्तनशोभना ॥ ८ ॥ पद्महस्ता पद्मपादा पद्मनाभमनः प्रिया । पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥ ९ ॥ अम्बां पीताम्बर श्रोणीं लम्बालकलसन्मुखीम् । बिम्बाधरोष्ठीं कस्तूरी जम्बालतिलकां भजे ॥ १० ॥ रत्नोद्दीप्तसुमाङ्गल्य सूत्रावृतशिरोधराम् । कुण्डलप्रभयोद्दण्ड गण्डमण्डलमण्डिताम् ॥ ११ ॥ कुचकञ्चुकसञ्चारि हारानीकमनोहराम् । काञ्चीकिङ्किणिमञ्जीर कङ्कणाद्यैरलङ्कृताम् ॥ १२ ॥ सुवर्णमण्डपे रत्न चित्रसिंहासनोत्तमे । नमामि हरिणा साक मिन्दिरां कृतमन्दिराम् ॥ १३ ॥ ब्रह्माद्या विबुधश्रेष्ठा ब्रह्माण्याद्याः सुराङ्गनाः । यां पूजयन्ति सेवन्ते सा मां पातु रमा सदा ॥ १४ ॥ सर्वालङ्कारभरितौ सर्वसद्गुणमण्डितौ । शर्वादिसर्वभक्तौघ सर्वसम्पद्विधायकौ ॥ १५ ॥ सुमुखौ सुन्दरतरौ सुनासौ सुखचित्तनू । सुराराधितपादाब्जौ रमानारायणौ स्तुमः ॥ १६ ॥ चतुष्कपर्दा या देवी चतुरास्यादिभिः स्तुता । चतुर्वेदोदितगुणा चतुमूर्तेर्हरेः प्रिया ॥ १७ ॥ घृतप्रतीकां तां नित्यं घृतपूर्णा न्नदायिनीम् । यथेष्टवित्तदात्री च । नतोऽस्म्यभयदा श्रियम् इमं स्तवं पठन् मर्त्यः श्रीमान् स्यान्नात्र संशयः ॥ १८ ॥ ॥ इति वादिराजतीर्थ विरचितं श्री श्रीशगुणदर्पणम् ॥