📚 शिवस्तुतिः
📚 शिवस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ शिवस्तुतिः स्फुटं स्फटिकसप्रभं स्फुटितहाटक श्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम त् कदा तु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ॥ २ ॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवा न् अघोर रिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ॥ ३ ॥ रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्र । शान्तमुत भीषणं भुवनमोहनं चेत्यहो व पूंषि गुणपुंषि तेऽहमहमात्मनोऽहं भिदे ॥ ४ ॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥ कठोरितकुठारया ललितशूलया बाहया रणमरया स्फुरद्धरिणया सखट्वाङ्गया । च । लाभिरचलाभिरप्यगणिताभिरुन्नृत्यतः च तुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ पुरत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयो- ज्ज्वलज्वलन हेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुः बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमामगुः प्रार्थिनां भवान् सुरतरुर्दृशं दिश शिवां शिवावल्लभ तव ॥ ८ ॥ प्रियतमादतिप्रियतमं सदैवान्तरं पय स्युपहितं घृतं स्वयमिव श्रियो वल्लभम् । विभि । द्य लघुबुद्धयः स्वपरपक्षलक्षायितं पठ न्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९ ॥ विलासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथाऽपि भवतः पदं शिव शिवेत्यदो जल्पता- मकिञ्चन न किञ्चन वृजिनमस्त्यभस्मीभवत् त्वमेव ॥ १० ॥ किल कामधुक् सकलकाममापूरयन् अपि त्रि नयनः सदा वहसि चात्रिनेत्रोद्भवम् विषं वि । षधरान् दधत् पिबसि तेन चानन्दवान् विरुद्ध चरितोचिता जगदधीश ते भिक्षुता नमः ॥ ११ ॥ शिव शिवाशिवाशिव शिवार्ध कृन्ताशिवं नमो हर हराहराहरहरान्तरी मे दृशम् । नमो । भव भवाभव प्रभव भूतयो सम्पदां नमो मृड नमो नमो नम उमेश तुभ्यं नमः सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात् प्रतिकृतात् सदा सोदिता ॥ १२ ॥ । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचसूरिसूनुः सुधीः ॥ इति श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः ॥