अथ श्रीव्यासराजस्तोत्रम्
वन्दे मुकुन्दमरवि न्दभवादिवन्द्यं इन्दि ।
न्दिराव्रततिमेचक माकटाक्षैः ॥ १ ॥
बन्दीकृताननममन्दमतिं
विदध्यात् आनन्दतीर्थहृदया ।
म्बुजमत्तभृङ्गः श्रीव्यासयोगी
हरिपादरागी ॥ २ ॥
भक्तातिपूगी हितद क्षसद्गीः । त्यागी विरागी ।
विषयेषु भोगी मुक्तौ सदा गीतसुरेन्द्रसङ्गी ॥ ३ ॥
लक्ष्मीशपादाम्बुजम त्तभृङ्गः सदा दशप्र ।
ज्ञनयप्रसङ्गः । अद्वै तवादे कृतमूलभङ्गः ॥ ४ ॥
महाव्रतीशो विषये ष्वसङ्गः सदा सदाय ।
त्तमहानुभावः भक्ता घतूलोच्चयतीव्रदावः ॥ ५ ॥
। दौर्जन्यविध्वंसनदक्षरावः शिष्येषु
यो यच्छति दिव्यगावः अद्वैतदावान ।
लकालमेघो रमारमस्नेहविदारि
ताघः। वाग्वैखरीनिर्जितसंशयौघो ॥ ६ ॥
मायामतत्रातहिमे निदाघः मध्वसिद्धान्त ।
दुग्धाब्धिवृद्धिपूर्णक लाधरः ॥ ७ ॥
व्यासराजयतीन्द्रो मे भूयादीप्सितसिद्धये ।
यन्नामग्रहणादेव पापराशिः पलायते । सोऽयं ॥ ८ ॥
श्रीव्यासयोगीन्द्रो निह न्तु दुरितानि नः यन्मृ ।
त्तिकादर्शनमात्रभी तः क्वचित् पिशाचस्तदनुव्रतेभ्यः ॥ ९ ॥
। दत्वा धनं वाञ्छितमाप तस्य तैर्वर्जि
तायामचिरेण मुक्तिम् यत्कौशिकानासि ।
काक्तजलान्निश्शंकिते नरे । व्याघ्रो महा
नपि स्प्रष्टुं नाशकत् तमिहाश्रये ॥ १० ॥
द्वात्रिंशत्सप्तशतक मूर्तीर्हनूमतः प्रभोः ।
प्रतिष्ठाता स्मृतिख्यात स्तं भजे व्यासयोगिनम् ॥ ११ ॥
सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामतिः ।
व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ १२ ॥
मध्वदेशिकसिद्धान्त प्रवर्तकशिरोमणिः ।
सोऽयं श्रीव्यासयोगीन्द्रो भूयादीप्सितसिद्धये ॥ १३ ॥
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ।
पलायन्ते श्रीनृसिंह स्थानं तमहमाश्रये ॥ १४ ॥
वातज्वरादिरोगाश्च भक्त्या यमुपसेवतः ।
दृढव्रतस्य नश्यन्ति पिशाचाश्च तमाश्रये ॥ १५ ॥
तारपूर्वं बिन्दुयुक्तं प्रथमाक्षरपूर्वकम् ।
चतुर्थ्यन्तं च तन्नाम नमः शब्दविभूषितम् ॥ १६ ॥
पाठयन्तं माध्वनयं मेघगम्भीरया गिरा ।
ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विन्दति ॥ १७ ॥
रत्नसिंहासनारूढं चामरैरभिवीजतम् ।
ध्यायन्नावर्तयेद्यस्तु महतीं श्रियमामुयात् ॥ १८ ॥
प्रह्लादस्यावतारोऽसा वहीशानुप्रवेशवान् ।
तेन तत्सेविनां नृणां सर्वमेतद् भवेद् ध्रुवम् ॥ १९ ॥
नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने ।
मतां कल्पतरवे भ जतां कामधेनवे ॥ २० ॥
व्यासराजगुरो मह्यं त्वत्पदाम्बुजसेवनात् ।
दुरितानि विनश्यन्तु यच्छ शीघ्रं मनोरथान् यो ॥ २१ ॥
व्यासत्रयसंज्ञकान् दृ ढतरान् मध्वार्यशास्त्रा ।
र्थकान् रक्षद्वज्रशिला कृतान् बहुमतान्कृत्वा ॥ २२ ॥
परैर्दुस्तरान् । प्रायच्छ न्निजपादयुग्मसर ।
सीजासक्तनृणां मुदा सोऽयं व्यासमुनीश्वरो ॥ २३ ॥
मम भवेत् तापत्रय क्षान्तये मध्वभक्तो व्या ।
सशिष्यपूर्णप्रज्ञम तानुगः । व्यासराजमुनिश्रेष्ठः ॥ २४ ॥
पातु नः कृपया गुरुः ।
व्यासराज व्यासराज ॥ २५ ॥
इति भक्त्या सदा जपन् । मुच्यते सर्वदुःखेभ्यस्तदन्तर्यामिणो बलात्
स्तुवन्ननेन मन्त्रेण व्यासराजाय धीमते ।
अभिषेकार्चनादीन् यः कुरुते स हि मुक्तिभाक् ॥ २६ ॥
गुरुभक्त्या भवेद्विष्णु भक्तिरव्यभिचारिणी ।
तया सर्वं लभेद्धीमां स्तस्मादेतत् सदा पठेत् ॥ २७ ॥
॥ इति श्रीविजयीन्द्रतीर्थविरचितं व्यासराजस्तोत्रम् ॥