अथ श्रीवेदनिधितीर्थस्तोत्रम्
विद्याधीशकराब्जोत्थं सत्यव्रतमहागुरुम् ।
जितकामादिषड्वर्गं नौमि वेदनिधिं विदे ॥ १ ॥
पदव्याख्याननिष्णातं सर्वविद्याविशारदम् ।
वादिमत्तेभपारीन्द्रं नौमि वेदनिधिं विदे ॥ २ ॥
रङ्गनाथयतीन्द्रेण सेवितं कामितार्थदम् ।
सत्यानन्दगुरुं शान्तं नौमि वेदनिधिं विदे ॥ ३ ॥
राघवेन्द्रयतेर्मित्रं सत्यधर्मप्रपालकम् ।
धर्माभासस्य शास्तारं नौमि वेदनिधिं विदे ॥ ४ ॥
मूलरामपदासक्तं पञ्चव्यासप्रपूजकम् ।
पूज्यदिग्जयरामेतं नौमि वेदनिधिं विदे ॥ ५ ॥
पाण्डुरङ्गपुरावासं पाण्डुरङ्गपदार्चकम् ।
पाण्डुरङ्गप्रसादाढ्यं नौमि वेदनिधिं विदे ॥ ६ ॥
भीमानदीतटागारं भीमशास्त्रोपदेशकम् ।
भीमसंसारसन्तारं नौमि वेदनिधिं विदे ॥ ७ ॥
सत्यध्यानयतीशेड्यं सत्यध्यानपरायणम् ।
सत्यध्यानप्रदातारं नौमि वेदनिधिं विदे ॥ ८ ॥
सत्यात्मरचितं स्तोत्रं श्रीवेदनिधिगोचरम् ।
यः पठेच्छृणुयाद्वापि स सर्वाभीष्टभाग्भवेत् ॥ ९ ॥
॥ इति श्रीवेदनिधितीर्थस्तोत्रम् ॥