अथ विष्णुस्तुतिः
मुराराते विष्णो हरमुखसुराराध्य भवतो
धरायां नास्त्यन्यो भवजलधिपारं गमयितुम् ।
दुराचारान् वाऽस्मानव गुरुवरानुग्रहबला
त् जरादूराधारामयहर निरालम्बनदय ॥ १ ॥
अहं सक्तः पोते भवजलधिपोते त्वयि न वै
रतः पाके लक्ष्मीरमण तव पाके न हि रतः ।
तथाऽप्याचार्याणां सुखपदजुषां सन्मतरतस्वृतज्ञानार्यस्याविनयमपिनेयं त्वमव माम् ॥ २ ॥
रमा कामारातिः कमलभवनः श्यामलतनो
यदाऽशक्ताः स्तोतुं जडमतिरहं क्व व्रजपते ।
तथाऽप्ययं सिन्धोरिव तव भवत्वीश करुणा-
समुद्रैषा वाणी तव हृदयतोषाय सततम् ॥ ३ ॥
न जाने श्रीजाने किमपि सवने नापि नमने
रतः स्नाने दाने रघुकुलजने हृन्नियमने ।
धने याने गानेऽवनिपसभमाने च भवने
रतो हीने स्थानेऽवसि तदपि मानेककरुण ॥ ४ ॥
जना दीना नानावृजिनशमनाम्नायमनना-
द्विना वीनासीनाधिगतिरिह नासौख्यमथन ।
धनाधीना हीना भुवनभवनात्रेयवदना
घनानूना ज्ञानापहतमधुनायातमधुना ॥ ५ ॥
नरान् स्तुत्वा नीचानुदरभरणासक्तहृदयो
दयोदाराधाराऽमरवरनुत त्वत्पदयुगम् ।
न चावन्दे विष्णो तदपि भववारीश पतितं
पते माया मायावरणहरणाद्रक्ष नृहरे ॥ ६ ॥
हरे नानायोनिप्रभवननिदानान्यनुदिनं
घनाभैनांसि श्रीवनजनयनानेकगुणक ।
क्षमस्व क्षेमं मे सश दिश दशस्यन्दनजने
शशाङ्कास्य त्वं मे भवजनिततापं परिहर हरे राजानोऽमी स्वभटतनयान् दोषनिलयान् गुणैर्हीनान् सौवा ॥ ७ ॥
इति मतियुताः पान्ति सदयाः । मदार्या आबाल्यं तव भजनसंसक्तहृदया जहुर्निद्रां तेषां रघुवर विनेयोऽस्म्यवतु माम्
वयं प्रातः स्नानं रघुपनमनं सुप्रवचनं
गुरुध्यानं पद्मारमणभजनं नापि मननम् ।
अकार्ष्णालं श्रीलं दशवदनकालं गततुलं
रमालोलं यामः शरणममलं वीतशमलम् ॥ ८ ॥
गुरुस्वान्तस्थान्यागणितगुणमाणिक्यनिकरच्छवित्रातोपेतामितसुख मखान्नडित हरे ।
नमः श्रीमन् व्यास स्वजनदुरिताहार्यविधुर
त्वदीये वायौ मे भवति भवताद्भक्तिरतुला ॥ ९ ॥
रमाराम श्रीमन्नमलकमलासोमनत भो
नाम हेमाभामितमहिम हे माधव न ते । स ।
मो भूमा भूमौ शमदमविमानादिनियमश्र
मस्तोमप्रेमन्नव मलहिमानीमिहिर भोः ॥ १० ॥
विरागासक्तिस्ते वयमज पुरागाररमणी
धरागानासक्ता न च पदपरागादरयुताः ।
पुरागरात्यादिप्रणुत वितरागाधमहिम
न् सुरागावा भूतीः सुमतिमुखरा गाधिजसख ॥ ११ ॥
घनोपमतनो मम त्वयि मनो न सक्तं जनो
विनिन्दति धनोन्मदो यदि तनोषि न त्वं दयाम् ।
स्वनोगतमनोहरागम वनोद्भवाभं पदं
विनोत्तम गतिश्च का जगदनोद्धरैनोगणात् ॥ १२ ॥
मनागपि विना हरे तव दयां न शं कस्यचि
त् धनाधिपजनार्जने रतिमतां कथं सा भवेत् ।
घनान् सुपवना इव त्वमज कल्मषं दूरतो
विनाश्य वसनाशनादरमवेश नारायण ॥ १३ ॥
हरे तव पदस्मृतिं सकलजन्मदोषापहां
वदन्ति निगमा रमारमण मामकाघं कुतः ।
न हन्ति न हि सन्ति किं मयि गुरुप्रसादादयो
दयोदधिवयोधिपासन भियोऽरितोऽपाकुरु ॥ १४ ॥
हरे भरतसोदरे दयितसागरे श्रीधरे
मनश्चरतु भासुरे सकलदोषदूरेऽजरे ।
वरे दनुजभीकरे बहुगुणाकरे मध्वरे
मयीश परमादरे तनु दयां भवेनातुरे ॥ १५ ॥
जगज्जनकजानकीकमनभीमसोमाऽदिमाऽमरव्रजसुपूजित वृजिननाशन श्रीश नः ।
अव प्रवणवर्गवत्तव निसर्गभक्तानलं
सुभार्गवतनो तपोहरण भर्गजप्याभिध ॥ १६ ॥
द्विपाधिपमपाः पुराऽजित विपासनोऽतित्वरः
कृपापरवशस्तथा द्रुपदजामुपासद् व्रजम् ।
क्षपाचरविपाटने पटुमपास्तदोषं वयं
ह्यपावृतमुपास्महे विषयलोलुपानप्यव ॥ १७ ॥
मया किमपि साधनं न कृतमीश वित्तार्जने
सदारतिमता रमारमण सत्यधीसन्नत ।
दयालुरिति वैदिकी प्रथितिरस्ति या तां हरे
न नाशय घनाशय प्रशमयामयं भौतिकम् तिं ॥ १८ ॥
हि करवाम नो दिशतु दीदिविं वामनो रघू
त्तम न वा मनो भवतु चञ्चलं वा मनो। हरे ।
दितिजवाम नो लवनकौशलावामनो न वा
मनि भवामनो हर शरीरिका वामनो अये ॥ १९ ॥
पुरुदयेऽव्यये सुखमये श्रिये संश्रये धिये
भुवनजालये शुभजयेभ्यताप्राप्तये । वयेऽ ।
रणमनामये रचितभक्तलोकाभये मये
प्सितमदश्शये तव न किं मुरारिप्रिये ॥ २० ॥
विरुद्धगतिरीशिता महदणुत्वयोराश्रयः
कथं त्विति ममाभवत् प्रतिदिनं महाद्वापरः ।
हिरण्यकशिपोःसुते नरकनन्दने यद्दयां
विधाय ऋतधीसुते मयि तनोषि नो तद्गतः ॥ २१ ॥
अजामिलगजाधिपद्रुपदजास्त्वया पालिता-
स्त्वहं तव भटो न किं किमवने गतं पाटवम् ।
गुणा मयि नहीति वा रघुपते दयां नाचरः
शिलाकलुषनाशनेऽकृत किलाबलासादनम् ॥ २२ ॥
महाभिषगभूत् पुरा जलनिधिर्विधेराज्ञया
निजापकणपातनादपघने तथा शन्तनुः ।
कुतोऽलसमतिर्वृथा भव भवामये त्वं महा-
भिषग्वपुषि मे क्षिपंस्तव हि शाम्बरं शं तनुः ॥ २३ ॥
निन्दावन्दारुलोकानवनमुरुदय तद्विधानामुदारा
मन्दा नन्दा च भर्गप्रभृतिसुरवराराध्यपादारविन्द ।
मन्दावृन्दावनक्ष्माविहरण करुणालेशतः पाहि जातं
नन्दा वन्दामहे त्वां गुरुवरहृदय क्षीरजस्थं मुकुन्दम् ॥ २४ ॥
सीते मातेव पोते गुणलवरहिते मय्यविद्याविभूते
पोते देवैः परीते कुरु गुणभरिते काऽनुकम्पा समाते ।
ख्याते वातेन गीते परिहृतदुरिते सन्नते भूमिजाते
भक्तिं लक्ष्मीनिकेते गुरुहृदयगते देहि मे त्वत्समेते ॥ २५ ॥
वायो श्रेयोऽपि रायो हरिरिति सुधियो दे
हि भूयो नमस्ते प्रेयो हेयो हि कायो न च ।
बलनिचयो भूरयो नारयो वै । प्रेयो ज्या
योऽनपायोर्जितसुजनदयोदार योगिप्रियोमा ॥ २६ ॥
ध्येयोपेयोतदेयोनृपसभविजयो नामदो हेऽब्ज
योने सेवे देवेश भावे मम वस गुरवे ते नमः ।
श्रीशभावे सृत्यब्धेर्भूर्यमीवे द्युतिविजितरवे स्या
द्दयाऽतीवजीवे । सौवे हे वेदरावेडितचरण ॥ २७ ॥
भवे मग्नमुद्धृत्य दासं शैवे दैवे त्वयीने रतिम
तिविभवे मामवेष्टप्रदातः अधुना स धुनातु भू ।
तबन्धं मधुनाशी मधुना धिया च पूर्णः । मधुना वि
धुना समानवको विधिनाथो विधिना समर्चितो मे ॥ २८ ॥
स्मृतिस्त्वनुगता हरेर्मतित एव नष्टा भवे -
नुतिर्न रचिता मया न च नतिर्न वापि स्मृतिः ।
मतिर्मम न विद्यते यतिपते भवन्तं विना
श्रुतिप्रभृतिसाधनैः श्रुतिततीडितं दर्शय ॥ २९ ॥
हरे सुरेश रेखया नतं नुतं च तं ततम् । भ
जे निजे गजे शिवक्रिया दया मया दरे हरे ।
स्मृतिर्न चास्ति चेत् कथं ममागसां स्मृतिः । कृतं स्म
रेति च त्रयी यदाह तन्न वेत्सि किम् हरे तव ॥ ३० ॥
प्रियात्मजस्नुषानपात्तदात्मजाः । मया
दयार्थमादृता वदन्ति किं न तेऽन्तिक ।
म् तात श्रीराममूर्तीरमलकमलतोऽ
भ्यर्च्य मातुर्न शिष्टं क कञ्जालयाया ॥ ३१ ॥
इति यदमनिषि प्राददाः कञ्जमेकम् ।
तत्किं जायादयातः किमु मयि दयया नैव जा
नेऽहमज्ञः स्वामिन् श्रीसत्यबोधव्रतिवरहृद ।
याम्भोजवासिन् वद त्वम् पुरा पुरारिपालने त्व
रा मुरारिणा कृता । धरामरावने न किं पटुः परापराजितः इन्दिरा सत्यबोधार्यहृदयाम्भोजमन्दिरा । इन्दिदिरान् स्वपादाब्जेऽव्यान्नो भाजितचन्दिरा प्रिया यस्य ॥ ३२ ॥
माया क्रियाऽऽम्नायमेया भिया यस्य माया विनष्टाऽ
न्यदीया । नयात्तं जयार्थं दयालुं हयास्यं नेता ।
यः कमलालयादिजगतो माता यथा सर्वतः
भयार्ताश्च यामः श्रियायद्य विष्णुम् पाता ॥ ३३ ॥
सत्यमतिव्रतीशहृदयाब्जातालयो यश्च तम्
भूताधीशशचीपतिप्रभृतिभिः पीतामृतैरा ।
दृतं धूताशेषभयं नमाम सततं सीताप
तिं राघवम् घर्मसूक्तव्याकरणधर्मप्रीतो रघूत्तमः ॥ ३४ ॥
कर्म पौर्वं पराकृत्य शर्म मौक्तं प्रयच्छतु स
मुद्रसूत्रव्याख्यानसमुद्- रघुपतिर्हि नः समु ।
द्रजस्कान्सुक्षीरसमुद्रवसतीन् क्रियात् कमला
महिला सुतोऽब्जजातो ननु पौत्रः पुरशात्रवोऽन्यलेखाः। तव यस्य भटा नमत्किरीटाः पुरुटाभाम्बर संस्तुवीत कस्त्वाम् ॥ ३५ ॥
न मे वपुषि पाटवं न नयने न शब्दग्रहे
सिता मम तनूरुहाः प्रशिथिला द्विजानां ततिः ।
तथापि विषयेऽशुभे चरति मे मनः श्रीहरे
त्वदीयहृदयं विना नहि निदानमस्त्यत्र वै ॥ ३६ ॥
आम्नायोद्धार भूभृद्धर धरणिधर श्रीहिरण्यासुरारे
खर्वाङ्ग क्षत्रगोत्रापह दशरथभूः कंसशत्रो विनेत्र ।
अर्विन् शर्वेशपूर्वामरगणविनुतानन्तरूपक्रियाव
न् व्यास श्रीसत्यबोधाह्वयगुरुहृदयावास विष्णो नमस्ते ॥ ३७ ॥
मध्वार्यमीडे यो मुक्तेरध्वानं मामदर्श
यत् । विध्वाननमुपन्याससुध्वानजितवा ।
दिनम् भागिरथि गुणान्वक्तुं भोगीशो बहु
लाननः । वागीशोऽपि क्षमो नैव हे गीर्वाणतरङ्गिणि ॥ ३८ ॥
अङ्गीकृतानङ्गरिपूत्तमाङ्गां सङ्गीतचर्याम
घराशिभङ्गाम् । भङ्गाग्र्यदूरीकृतसत्तुरङ्गां ग ।
ङ्गामहं नौमि लसत्तरङ्गाम् भेरी गौरीशराम
स्य नारीकृतशिलस्य या । वैरी न सहते तां तं दूरीकुरु ॥ ३९ ॥
तव स्थलात् विष्णुप्रीत्यै चरको नै
व किं तु व्यर्थं नीचान्करकस्सन्नु ।
पासे । आगःपूगान्मामकाद्दुःखहे
तोः हेयात्पायाच्छ्रीनिवासाख्यदैवम् ॥ ४० ॥
॥ इति श्रीसत्यसन्धतीर्थविरचिता विष्णुस्तुतिः ॥