📚 विष्णुस्तुतिः
📚 विष्णुस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ विष्णुस्तुतिः मुराराते विष्णो हरमुखसुराराध्य भवतो धरायां नास्त्यन्यो भवजलधिपारं गमयितुम् । दुराचारान् वाऽस्मानव गुरुवरानुग्रहबला त् जरादूराधारामयहर निरालम्बनदय ॥ १ ॥ अहं सक्तः पोते भवजलधिपोते त्वयि न वै रतः पाके लक्ष्मीरमण तव पाके न हि रतः । तथाऽप्याचार्याणां सुखपदजुषां सन्मतरतस्वृतज्ञानार्यस्याविनयमपिनेयं त्वमव माम् ॥ २ ॥ रमा कामारातिः कमलभवनः श्यामलतनो यदाऽशक्ताः स्तोतुं जडमतिरहं क्व व्रजपते । तथाऽप्ययं सिन्धोरिव तव भवत्वीश करुणा- समुद्रैषा वाणी तव हृदयतोषाय सततम् ॥ ३ ॥ न जाने श्रीजाने किमपि सवने नापि नमने रतः स्नाने दाने रघुकुलजने हृन्नियमने । धने याने गानेऽवनिपसभमाने च भवने रतो हीने स्थानेऽवसि तदपि मानेककरुण ॥ ४ ॥ जना दीना नानावृजिनशमनाम्नायमनना- द्विना वीनासीनाधिगतिरिह नासौख्यमथन । धनाधीना हीना भुवनभवनात्रेयवदना घनानूना ज्ञानापहतमधुनायातमधुना ॥ ५ ॥ नरान् स्तुत्वा नीचानुदरभरणासक्तहृदयो दयोदाराधाराऽमरवरनुत त्वत्पदयुगम् । न चावन्दे विष्णो तदपि भववारीश पतितं पते माया मायावरणहरणाद्रक्ष नृहरे ॥ ६ ॥ हरे नानायोनिप्रभवननिदानान्यनुदिनं घनाभैनांसि श्रीवनजनयनानेकगुणक । क्षमस्व क्षेमं मे सश दिश दशस्यन्दनजने शशाङ्कास्य त्वं मे भवजनिततापं परिहर हरे राजानोऽमी स्वभटतनयान् दोषनिलयान् गुणैर्हीनान् सौवा ॥ ७ ॥ इति मतियुताः पान्ति सदयाः । मदार्या आबाल्यं तव भजनसंसक्तहृदया जहुर्निद्रां तेषां रघुवर विनेयोऽस्म्यवतु माम् वयं प्रातः स्नानं रघुपनमनं सुप्रवचनं गुरुध्यानं पद्मारमणभजनं नापि मननम् । अकार्ष्णालं श्रीलं दशवदनकालं गततुलं रमालोलं यामः शरणममलं वीतशमलम् ॥ ८ ॥ गुरुस्वान्तस्थान्यागणितगुणमाणिक्यनिकरच्छवित्रातोपेतामितसुख मखान्नडित हरे । नमः श्रीमन् व्यास स्वजनदुरिताहार्यविधुर त्वदीये वायौ मे भवति भवताद्भक्तिरतुला ॥ ९ ॥ रमाराम श्रीमन्नमलकमलासोमनत भो नाम हेमाभामितमहिम हे माधव न ते । स । मो भूमा भूमौ शमदमविमानादिनियमश्र मस्तोमप्रेमन्नव मलहिमानीमिहिर भोः ॥ १० ॥ विरागासक्तिस्ते वयमज पुरागाररमणी धरागानासक्ता न च पदपरागादरयुताः । पुरागरात्यादिप्रणुत वितरागाधमहिम न् सुरागावा भूतीः सुमतिमुखरा गाधिजसख ॥ ११ ॥ घनोपमतनो मम त्वयि मनो न सक्तं जनो विनिन्दति धनोन्मदो यदि तनोषि न त्वं दयाम् । स्वनोगतमनोहरागम वनोद्भवाभं पदं विनोत्तम गतिश्च का जगदनोद्धरैनोगणात् ॥ १२ ॥ मनागपि विना हरे तव दयां न शं कस्यचि त् धनाधिपजनार्जने रतिमतां कथं सा भवेत् । घनान् सुपवना इव त्वमज कल्मषं दूरतो विनाश्य वसनाशनादरमवेश नारायण ॥ १३ ॥ हरे तव पदस्मृतिं सकलजन्मदोषापहां वदन्ति निगमा रमारमण मामकाघं कुतः । न हन्ति न हि सन्ति किं मयि गुरुप्रसादादयो दयोदधिवयोधिपासन भियोऽरितोऽपाकुरु ॥ १४ ॥ हरे भरतसोदरे दयितसागरे श्रीधरे मनश्चरतु भासुरे सकलदोषदूरेऽजरे । वरे दनुजभीकरे बहुगुणाकरे मध्वरे मयीश परमादरे तनु दयां भवेनातुरे ॥ १५ ॥ जगज्जनकजानकीकमनभीमसोमाऽदिमाऽमरव्रजसुपूजित वृजिननाशन श्रीश नः । अव प्रवणवर्गवत्तव निसर्गभक्तानलं सुभार्गवतनो तपोहरण भर्गजप्याभिध ॥ १६ ॥ द्विपाधिपमपाः पुराऽजित विपासनोऽतित्वरः कृपापरवशस्तथा द्रुपदजामुपासद् व्रजम् । क्षपाचरविपाटने पटुमपास्तदोषं वयं ह्यपावृतमुपास्महे विषयलोलुपानप्यव ॥ १७ ॥ मया किमपि साधनं न कृतमीश वित्तार्जने सदारतिमता रमारमण सत्यधीसन्नत । दयालुरिति वैदिकी प्रथितिरस्ति या तां हरे न नाशय घनाशय प्रशमयामयं भौतिकम् तिं ॥ १८ ॥ हि करवाम नो दिशतु दीदिविं वामनो रघू त्तम न वा मनो भवतु चञ्चलं वा मनो। हरे । दितिजवाम नो लवनकौशलावामनो न वा मनि भवामनो हर शरीरिका वामनो अये ॥ १९ ॥ पुरुदयेऽव्यये सुखमये श्रिये संश्रये धिये भुवनजालये शुभजयेभ्यताप्राप्तये । वयेऽ । रणमनामये रचितभक्तलोकाभये मये प्सितमदश्शये तव न किं मुरारिप्रिये ॥ २० ॥ विरुद्धगतिरीशिता महदणुत्वयोराश्रयः कथं त्विति ममाभवत् प्रतिदिनं महाद्वापरः । हिरण्यकशिपोःसुते नरकनन्दने यद्दयां विधाय ऋतधीसुते मयि तनोषि नो तद्गतः ॥ २१ ॥ अजामिलगजाधिपद्रुपदजास्त्वया पालिता- स्त्वहं तव भटो न किं किमवने गतं पाटवम् । गुणा मयि नहीति वा रघुपते दयां नाचरः शिलाकलुषनाशनेऽकृत किलाबलासादनम् ॥ २२ ॥ महाभिषगभूत् पुरा जलनिधिर्विधेराज्ञया निजापकणपातनादपघने तथा शन्तनुः । कुतोऽलसमतिर्वृथा भव भवामये त्वं महा- भिषग्वपुषि मे क्षिपंस्तव हि शाम्बरं शं तनुः ॥ २३ ॥ निन्दावन्दारुलोकानवनमुरुदय तद्विधानामुदारा मन्दा नन्दा च भर्गप्रभृतिसुरवराराध्यपादारविन्द । मन्दावृन्दावनक्ष्माविहरण करुणालेशतः पाहि जातं नन्दा वन्दामहे त्वां गुरुवरहृदय क्षीरजस्थं मुकुन्दम् ॥ २४ ॥ सीते मातेव पोते गुणलवरहिते मय्यविद्याविभूते पोते देवैः परीते कुरु गुणभरिते काऽनुकम्पा समाते । ख्याते वातेन गीते परिहृतदुरिते सन्नते भूमिजाते भक्तिं लक्ष्मीनिकेते गुरुहृदयगते देहि मे त्वत्समेते ॥ २५ ॥ वायो श्रेयोऽपि रायो हरिरिति सुधियो दे हि भूयो नमस्ते प्रेयो हेयो हि कायो न च । बलनिचयो भूरयो नारयो वै । प्रेयो ज्या योऽनपायोर्जितसुजनदयोदार योगिप्रियोमा ॥ २६ ॥ ध्येयोपेयोतदेयोनृपसभविजयो नामदो हेऽब्ज योने सेवे देवेश भावे मम वस गुरवे ते नमः । श्रीशभावे सृत्यब्धेर्भूर्यमीवे द्युतिविजितरवे स्या द्दयाऽतीवजीवे । सौवे हे वेदरावेडितचरण ॥ २७ ॥ भवे मग्नमुद्धृत्य दासं शैवे दैवे त्वयीने रतिम तिविभवे मामवेष्टप्रदातः अधुना स धुनातु भू । तबन्धं मधुनाशी मधुना धिया च पूर्णः । मधुना वि धुना समानवको विधिनाथो विधिना समर्चितो मे ॥ २८ ॥ स्मृतिस्त्वनुगता हरेर्मतित एव नष्टा भवे - नुतिर्न रचिता मया न च नतिर्न वापि स्मृतिः । मतिर्मम न विद्यते यतिपते भवन्तं विना श्रुतिप्रभृतिसाधनैः श्रुतिततीडितं दर्शय ॥ २९ ॥ हरे सुरेश रेखया नतं नुतं च तं ततम् । भ जे निजे गजे शिवक्रिया दया मया दरे हरे । स्मृतिर्न चास्ति चेत् कथं ममागसां स्मृतिः । कृतं स्म रेति च त्रयी यदाह तन्न वेत्सि किम् हरे तव ॥ ३० ॥ प्रियात्मजस्नुषानपात्तदात्मजाः । मया दयार्थमादृता वदन्ति किं न तेऽन्तिक । म् तात श्रीराममूर्तीरमलकमलतोऽ भ्यर्च्य मातुर्न शिष्टं क कञ्जालयाया ॥ ३१ ॥ इति यदमनिषि प्राददाः कञ्जमेकम् । तत्किं जायादयातः किमु मयि दयया नैव जा नेऽहमज्ञः स्वामिन् श्रीसत्यबोधव्रतिवरहृद । याम्भोजवासिन् वद त्वम् पुरा पुरारिपालने त्व रा मुरारिणा कृता । धरामरावने न किं पटुः परापराजितः इन्दिरा सत्यबोधार्यहृदयाम्भोजमन्दिरा । इन्दिदिरान् स्वपादाब्जेऽव्यान्नो भाजितचन्दिरा प्रिया यस्य ॥ ३२ ॥ माया क्रियाऽऽम्नायमेया भिया यस्य माया विनष्टाऽ न्यदीया । नयात्तं जयार्थं दयालुं हयास्यं नेता । यः कमलालयादिजगतो माता यथा सर्वतः भयार्ताश्च यामः श्रियायद्य विष्णुम् पाता ॥ ३३ ॥ सत्यमतिव्रतीशहृदयाब्जातालयो यश्च तम् भूताधीशशचीपतिप्रभृतिभिः पीतामृतैरा । दृतं धूताशेषभयं नमाम सततं सीताप तिं राघवम् घर्मसूक्तव्याकरणधर्मप्रीतो रघूत्तमः ॥ ३४ ॥ कर्म पौर्वं पराकृत्य शर्म मौक्तं प्रयच्छतु स मुद्रसूत्रव्याख्यानसमुद्- रघुपतिर्हि नः समु । द्रजस्कान्सुक्षीरसमुद्रवसतीन् क्रियात् कमला महिला सुतोऽब्जजातो ननु पौत्रः पुरशात्रवोऽन्यलेखाः। तव यस्य भटा नमत्किरीटाः पुरुटाभाम्बर संस्तुवीत कस्त्वाम् ॥ ३५ ॥ न मे वपुषि पाटवं न नयने न शब्दग्रहे सिता मम तनूरुहाः प्रशिथिला द्विजानां ततिः । तथापि विषयेऽशुभे चरति मे मनः श्रीहरे त्वदीयहृदयं विना नहि निदानमस्त्यत्र वै ॥ ३६ ॥ आम्नायोद्धार भूभृद्धर धरणिधर श्रीहिरण्यासुरारे खर्वाङ्ग क्षत्रगोत्रापह दशरथभूः कंसशत्रो विनेत्र । अर्विन् शर्वेशपूर्वामरगणविनुतानन्तरूपक्रियाव न् व्यास श्रीसत्यबोधाह्वयगुरुहृदयावास विष्णो नमस्ते ॥ ३७ ॥ मध्वार्यमीडे यो मुक्तेरध्वानं मामदर्श यत् । विध्वाननमुपन्याससुध्वानजितवा । दिनम् भागिरथि गुणान्वक्तुं भोगीशो बहु लाननः । वागीशोऽपि क्षमो नैव हे गीर्वाणतरङ्गिणि ॥ ३८ ॥ अङ्गीकृतानङ्गरिपूत्तमाङ्गां सङ्गीतचर्याम घराशिभङ्गाम् । भङ्गाग्र्यदूरीकृतसत्तुरङ्गां ग । ङ्गामहं नौमि लसत्तरङ्गाम् भेरी गौरीशराम स्य नारीकृतशिलस्य या । वैरी न सहते तां तं दूरीकुरु ॥ ३९ ॥ तव स्थलात् विष्णुप्रीत्यै चरको नै व किं तु व्यर्थं नीचान्करकस्सन्नु । पासे । आगःपूगान्मामकाद्दुःखहे तोः हेयात्पायाच्छ्रीनिवासाख्यदैवम् ॥ ४० ॥ ॥ इति श्रीसत्यसन्धतीर्थविरचिता विष्णुस्तुतिः ॥