अथ लक्ष्म्यष्टकम्
यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः ।
सुराः स्वीयपदान्यापुः सा लक्ष्मीमें प्रसीदतु ॥ १ ॥
याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता ।
अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मीमें प्रसीदतु ॥ २ ॥
देशतः कालतश्चैव समव्याप्ता च तेन या ।
तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीमें प्रसीदतु ॥ ३ ॥
ब्रह्मादिभ्योऽधिकं पात्रं केशवानुग्रहस्य या ।
जननी सर्वलोकानां सा लक्ष्मीमें प्रसीदतु ॥ ४ ॥
विश्वोत्पत्तिस्थितिलया यस्या मन्दकटाक्षतः ।
भवन्ति वल्लभा विष्णोः सा लक्ष्मीर्मे प्रसीदतु ॥ ५ ॥
यदुपासनया नित्यं भक्तिज्ञानादिकान् गुणान् ।
समाप्नुवन्ति मुनयः सा लक्ष्मी प्रसीदतु ॥ ६ ॥
अनालोच्यापि यज्ज्ञानमीशादन्यत्र सर्वदा ।
समस्तवस्तुविषयं सा लक्ष्मी प्रसीदतु ॥ ७ ॥
अभीष्टदाने भक्तानां कल्पवृक्षायिता तु या ।
सा लक्ष्मीर्मे ददात्विष्टं ऋजुसङ्घसमर्चिता ॥ ८ ॥
एतल्लक्ष्म्यष्टकं पुण्यं यः पठेद्भक्तिमान् नरः ।
भक्तिज्ञानादि लभते सर्वान् कामानवाप्नुयात् ॥ ९ ॥
वैष्णवेभ्यः प्रदातव्यमेतत् स्तोत्रं प्रयत्नतः ।
अवैष्णवाय यो दद्या त् मोहात् स ब्रह्महा भवेत् ॥ १० ॥
॥ इति श्रीयदुपत्याचार्यकृतं लक्ष्म्यष्टकम् ॥