अथ श्रीरघूत्तममङ्गलाष्टकम्
श्रीमद्व्याससुतीर्थपूज्यचरणश्रीपादराट्संस्तुत
श्रीमच्छ्रीरघुनाथतीर्थयमिसद्धस्तोदयात् सद्गुरोः ।
धीरश्रीरघुवर्यतीर्थमुनितः सम्प्राप्ततुर्याश्रमः
योगीशत्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ १ ॥
श्रीमद्रामपदाब्जभक्तिभरितः श्रीव्याससेवारतः
सन्मान्योरुसमीरवंशविलसत्सत्कीर्तिविस्फारकः ।
प्रीत्यर्थं पुरुषोत्तमस्य सततं शास्त्रार्थचर्चाचणः
योगीशन्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ २ ॥
वाचं वाचमनन्तबुद्धिसुकृतं शास्त्रं सदा शुद्धिमा
न् जापं जापममोघमन्त्रनिवहं संप्राप्तसिध्यष्टकः ।
ध्यायं ध्यायममेयमूर्तिममलां जातापरोक्षः सुधीः
योगीशव्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ३ ॥
यद्वृन्दावनसेवया सुविपुला विद्यानवद्या भवे
त् यन्नामग्रहणेन पापनिचयो दह्येत निश्चप्रचम् ।
यन्नामस्मरणेन खेदनिवहात् सङ्कष्यते सज्जनः
योगीशन्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ४ ॥
तारेशाच्छपिनाकिनीसुतटिनीतीरे पिनाकिस्तुते
द्वारे मोक्षनिकेतनस्य वसुधासारे सुखासारकृत् ।
योगीड्यो महिमा हि यस्य परमः पारे गिरां मादृशां
योगीशत्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ५ ॥
बाल्येऽध्यापकतोऽवमानसुमहाशल्यानुविद्धान्तरः
कल्ये स्वमगुरूदितेन हि सुधातुल्येन सूर्यग्रणीः ।
कुल्येन द्विजमण्डलेन महितः स्वल्पेतरेषां सुधा-
कुल्यानन्दकरो रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ६ ॥
सूर्याश्चर्यकरोपलब्धविभवः सूर्यातुलोरुप्रभः
भूर्याचारसुसेवकेष्टफलदस्तुर्याश्रितानुग्रहः ।
स्वर्याताच्छयशास्तपोऽधिमहिमैश्वर्यालयोंऽहोलयः
वर्याचार्यगुरू रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ७ ॥
वैराग्यादिगुणाकरोऽवनकरो दाने सदोद्यत्करो
भास्वद्भक्तिविदुत्करो जयकरः श्रीशाङ्घ्रिसत्किङ्करः ।
दोषाङ्करमरुः श्रितामरतरुर्दुर्वादवृक्षत्सरुः
मर्त्यातीतगुरू रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ८ ॥
सर्वज्ञप्रियसज्जयार्यविवृतेः भावावबोधामृती
भावाढ्याः सुकृतीर्विधाय विशयाभावाय सुज्ञानिनाम् ।
सेवानम्रजनेष्टदानमहसा देवावनीक्ष्मारुहो
व्रीडापादयिता रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ९ ॥
रामारामयमीन्द्रवन्द्यचरणः सामादिमानोरुमः
आम्नायादिसुगेयमेयमहिम श्रीमूलरामार्चकः ।
सीता सत्करुणारसस्य चरमा सोमायमानो मुनि-
स्तोमानां व्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ १० ॥
वेदव्यासोरुयोगी यदुपतिसुगुरुर्वन्द्यवेदेश
भिक्षुः विद्यावद्वर्यधुर्यप्रथितविवरणग्रन्थनि ।
र्माणवित्तः । विद्याधीशोऽपि तद्वद् बुधजनमणयो य
स्य शिष्याप्रशिष्याः सोऽयं श्रीयोगिराजो रघुवरतनयो ॥ ११ ॥
मङ्गलान्यातनोतु काशीकाञ्चीसुमायाहिमगिरिम
धुराद्वारकावेङ्कटाद्रि- श्रीरङ्गक्षेत्रपूर्वत्रिभुव ।
नविलसत्पुण्यवृन्दावनस्थः । गुल्मादिव्याधिर्ता ग्रह
जनितमहाभीतिविध्वंसकर्ता भूतप्रेतादिभेदी ॥ १२ ॥
रघुवरतनयो मङ्गलान्यातनोतु
मूढाग्रणीः वेङ्कटभट्टसूदः सूर्यग्र ।
गण्योऽभवदात्मवेदी । यस्य प्रसादात् स
गुरुप्रबर्हो विद्यामबाधां विपुलां प्रदद्यात् ॥ १३ ॥
न्यायामृतं न्यायवचोविशेषैः
सुसारभूतं सुघनत्वमाप्तम् ।
प्रवाहयामास तरङ्गिणीमि
षात् स व्यासरामोऽपि तदीयशिष्यः ॥ १४ ॥
॥ इति श्रीरघूत्तममङ्गलाष्टकम् ॥