📚 रघुवर्यतीर्थस्तुतिः
📚 रघुवर्यतीर्थस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीरघुवर्यतीर्थस्तुतिः रघुनाथकराब्जोत्थं मूलरामपदार्चकम् । रघुवर्यमहं वंदे देवार्चाभाग्यसिद्धये ॥ १ ॥ पेन्गोंडनामके ग्रामे हनूमत्स्थापकं मुनिम् । रघुवर्यमहं वंदे प्राणार्चाभाग्यसिद्धये ॥ २ ॥ भीमानदी ददौ मार्गं यस्मै रामयुताय तम् । रघुवर्यमहं वंदे भवोत्तारणसिद्धये ॥ ३ ॥ रघूत्तमगुरोस्तारस्योपदेशविधायकम् । रघुवर्यमहं वंदे सन्मंत्रजपसिद्धये ॥ ४ ॥ सच्छास्त्रं पाठयंतं श्री रघूत्तममुनिं प्रति । रघुवर्यमहं वंदे सच्छास्त्रज्ञानसिद्धये ॥ ५ ॥ मंत्राक्षतप्रदानेन सत्पुत्रप्रापकं गुरुम् । रघुवर्यमहं वंदे सत्पुत्रप्राप्तिसिद्धये ॥ ६ ॥ रघूत्तममुनेः स्वम उपदेशप्रदायकम् । रघुवर्यमहं वंदे ह्यश्रुतज्ञानसिद्धये ॥ ७ ॥ रघूत्तममुनिद्वारा मठवैभववर्धकम् । रघुवर्यमहं वंदे सद्वैभवसुसिद्धये ॥ ८ ॥ रघुवर्यमहं वंदे नदीस्नानसुसिद्धये । गजगह्वरगं तुंग भद्रातीरनिवासिनम् ॥ ९ ॥ पद्मनाभकवींद्रादि पूर्वे संस्थितमादरात् । रघुवर्यमहं वंदे गुर्वनुग्रहसिद्धये ॥ १० ॥ सत्यात्मरचितं पद्य दशकं यः पठेत् सुधीः । तस्यैताः सिद्धयः सर्वा हस्तगा नात्र संशयः ॥ ११ ॥ ॥ इति श्रीरघुवर्यतीर्थस्तुतिः ॥