अथ यन्त्रोद्धारकहनूमत्स्तोत्रम्
नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणम् ॥ १ ॥
नानारत्नसमायुक्तकुण्डलादिविराजितम् ।
सर्वदाऽभीष्टदातारं सतां वै दृढमाहवे ॥ २ ॥
वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।
तुङ्गाम्भोधितरङ्गस्य वातेन परिशोभिते ॥ ३ ॥
नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादिनैवेद्यैः पञ्चखाद्यैः स्वशक्तितः ॥ ४ ॥
व्रजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।
व्यासतीर्थयतीन्द्रेण पूजितं च विधानतः ॥ ५ ॥
त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ।
वाञ्छितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥ ६ ॥
पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ७ ॥
सर्वथा माऽस्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् ॥ ८ ॥
॥ इति श्रीव्यासराजविरचितं यन्त्रोद्धारकहनूमत्स्तोत्रम् ॥