अथ माध्वगुरुस्तुतिः
उत्तरादिमठद गु रुपीळिगेयल्लि बरु ।
व पीठाधिपतिगळ चरमश्लोकगळन्नु ॥ १ ॥
कंस चिह्नेय होरगडे नीडलागिदे ब्रह्मा ।
न्ता गुरवः साक्षादिष्टं दैवं श्रियः पतिः ॥ २ ॥
आचार्याः श्रीमदाचार्याः सन्तु मे जन्मजन्मनि ।
श्रीहंसं परमात्मानं विरिञ्चिं सनकादिकान् । दुर्वाससो ॥ ३ ॥
ज्ञाननिधीन् वीन्द्रवाह नतीर्थकान् कैवल्यती ।
र्थान् ज्ञानेशान् परतीर्थान्नमाम्यहम् ॥ ४ ॥
सत्यप्रज्ञान् प्राज्ञतीर्था नन्यान् तद्वंशजानपि ।
पुरैव कृष्णासिद्धान्न भुक्त्या शोधितमानसम् ॥ ५ ॥
अच्युतप्रेक्षतीर्थञ्च मध्वार्याणां गुरुं भजे ।
लसतु श्रीमदानन्द तीर्थेन्दुर्नो हृदम्बरे ॥ ६ ॥
यद्वचश्चन्द्रिकास्वान्त सन्तापं विनिकृन्तति ।
पूर्णप्रज्ञकृतं भाष्यं आदौ तद्भावपूर्वकम् । यो ॥ ७ ॥
व्याकरोन्नमस्तस्मै पद्मनाभाख्ययोगिने । स ।
सीतामूलरामार्चा को शे गजपतेः स्थिता । येनानीता ॥ ८ ॥
नमस्तस्मै श्रीमन्नृह रिभिक्षवे साधिताखि ।
लसत्तत्त्वं बाधिताखि लदुर्मतम् ॥ ९ ॥
बोधिताखिलसन्मार्गं माधवाख्ययतिं भजे ।
यो विद्यारण्यविपिनं तत्त्वमस्यसिनाऽच्छिनत् ॥ १० ॥
श्रीमदक्षोभ्यतीर्थार्य हंसेनं तं नमाम्यह ।
म् यस्य वाकू कामधेनु र्नः कामितार्थान् प्रयच्छति । सेवे ॥ ११ ॥
तं जययोगीन्द्रं काम बाणच्छिदं सदा विद्या ।
धिराजं सुगुरुं ध्याया मि करुणाकरम् ॥ १२ ॥
माद्यदद्वैत्यन्धकार प्रद्योतनमहर्निशम् ।
येन वेदान्तभाष्याणि विवृतानि महात्मना । तं ॥ १३ ॥
वन्दे व्यासतीर्थाख्यं वे दान्तार्थप्रसिद्धये अ ।
ञ्जनासूनुसान्निध्यात् वि जयेन विराजितम् ॥ १४ ॥
अजितप्रीतिजनकं भजेऽहं विजयध्वज ।
म् वीन्द्रारूढपदासक्तं राजेन्द्रमुनिसेवितम् ॥ १५ ॥
श्रीकवीन्द्रमुनिं वन्दे भजतां चन्द्रसन्निभ ।
म् वासुदेवपदद्वन्द्व वारिजासक्तमानसम् ॥ १६ ॥
पदव्याख्यानकुशलं वागीशयतिमाश्रये ।
द्युमण्यभिजनाब्जेन्दू रामव्यासपदार्चकः ॥ १७ ॥
रामचन्द्रगुरुर्भूया त् कामितार्थप्रदायकः ।
यद्भक्त्या मूलरामस्य पेटिका त्यक्तभूमिका ॥ १८ ॥
विद्यानिधिर्धियं दद्या त् अष्टषष्ट्यब्दपूजकः ।
रघुनाथगुरुं नौमि विद्यानिधिकरोद्भवम् ॥ १९ ॥
कूर्मो वरुणगङ्गे च यस्य प्रत्यक्षतां गताः ।
महाप्रवाहिनी भीमा यस्य मार्गमदान्मुदा ॥ २० ॥
रघुवर्यो मुदं दद्या त् कामितार्थप्रदायकः ।
पदवाक्यप्रमाणाब्धि विक्रीडनविशारदान् ॥ २१ ॥
लक्ष्मीनारायणमुनी न् वन्दे विद्यागुरून् मम ।
अर्थिकल्पितकल्पोऽयं प्रत्यर्थिगजकेसरी ॥ २२ ॥
व्यासतीर्थगुरुर्भूया दस्मदिष्टार्थसिद्धये ।
तपोविद्याविरक्त्यादि सद्गुणौघाकरानहम् ॥ २३ ॥
वादिराजगुरून् वन्दे हयग्रीवदया श्रया ।
न् भक्तानां मानसाम्भोज भानवे कामधेनवे ॥ २४ ॥
नमतां कल्पतरवे जयीन्द्रगुरवे नमः ।
भावबोधकृतं सेवे रघूत्तममहागुरुम् ॥ २५ ॥
यच्छिष्यशिष्यशिष्याद्याः टिप्पण्याचार्यसंज्ञिताः ।
न दग्धं यस्य कौपीन मग्नौ दत्तमपि स्फुटम् ॥ २६ ॥
वेदव्यासगुरुं नौमि श्रीवेदेशनमस्कृत ।
म् वेदव्यासकराब्जोत्थः विद्याधीशोपदेशकः ॥ २७ ॥
विद्यापतिर्दिशतु मे विद्यामाद्यां सदा जयी ।
वेदेशयोगिनं वन्दे यादवार्यगुरोर्गुरुम् ॥ २८ ॥
छान्दोग्यभाष्यसट्टीका कर्तारमहमादरा ।
त् वेदव्यासाम्बुधेर्जातः वेदेशज्ञानचन्द्रिकः ॥ २९ ॥
कृष्णद्वैपायनेन्दुर्मे सन्तापान् हन्तु सन्तत ।
म् श्रीमत्सुधाद्भुताम्बोधि विक्रीडनविचक्षणान् ॥ ३० ॥
वाक्यार्थचन्द्रिकाकारा न् विद्याधीशगुरून् भजे ।
विद्याधीशाब्धिसम्भूतो विद्वत्कुमुदबान्धवः ॥ ३१ ॥
वेदनिध्याख्यचन्द्रोऽय म् कामितार्थान् प्रयच्छतु ।
वेदनिध्यालवालोत्थः विदुषां चिन्तितप्रदः ॥ ३२ ॥
सत्यव्रताख्यकल्पद्रुः भूयादिष्टार्थसिद्धये ।
श्रीवेदनिधिसञ्जात श्चन्द्रिकार्थसुबोधकः ॥ ३३ ॥
सत्यानन्दो दिशतु मे सत्यजानन्दसन्तति ।
म् पूज्याय राघवेन्द्राय सत्यधर्मरताय च ॥ ३४ ॥
भजतां कल्पवृक्षाय नमतां कामधेनवे ।
अनधीत्य महाभाष्यं व्याख्यातं यदनुग्रहात् ॥ ३५ ॥
वन्दे तं विधिना सत्य निधिं सज्ज्ञानसिद्धये ।
सत्यनाथगुरुः पातु यो धीरो नवचन्द्रिकाम् ॥ ३६ ॥
नवामृतगदातीर्थ ताण्डवानि व्यचीक्लप ।
त् सत्यनाथाब्धिसम्भूतः सद्गोगणविजृम्भितः ॥ ३७ ॥
सत्याभिनवतीर्थेन्दुः सन्तापान् हन्तु सन्तत ।
म् सत्याभिनवजो वेद वेत्ता गुर्वर्पिताखिलः ॥ ३८ ॥
सत्याधीशोऽवतु स मां निर्जिताशेषमायिभु ।
त् सत्याभिनवसञ्जातः राज्यपुत्रफलादिदः ॥ ३९ ॥
सत्याधिराजोऽवतु मां विद्यासन्ततिवर्धकः ।
सत्याभिनवदुग्धाब्धेः सञ्जातः सकलेष्टदः ॥ ४० ॥
श्रीसत्यपूर्णतीर्थेन्दुः सन्तापान् हन्तु सन्तत ।
म् सत्यपूर्णाम्बुधेर्जातो विद्वज्जनविजृम्भितः ॥ ४१ ॥
दनीध्वंसीतु नस्तापं श्रीसत्यविजयोडुपः ।
श्रीसत्यविजयाम्बोधेः जातं सत्यप्रियामृतम् ॥ ४२ ॥
जरामृती जङ्घनीतु विबुधानां मुदे सदा ।
नैवेद्यगविषं रामे वीक्ष्य तद्भुक्तिभाग्गुरुः ॥ ४३ ॥
योऽदर्शयद्रविं रात्रौ सत्यबोधोऽस्तु मे मुदे ।
विष्णोः पदश्रित् गोव्रातैः स्वान्तध्वान्तनिवारकः ॥ ४४ ॥
श्रीसत्यसन्धसूर्योऽयं भासतां नो हृदम्बरे ।
श्रीसत्यसन्धसिन्धूत्थः श्रीसत्यवरचन्द्रमाः ॥ ४५ ॥
प्रार्थितार्थप्रदो नित्यं भूयः स्यादिष्टसिद्धये ।
श्रीसत्यवरदुग्धाब्धे रुत्थिता जगतीतले । सुधा ॥ ४६ ॥
श्रीसत्यधर्माख्या पाव येत् स्मरतस्सतः यस्य ।
प्रचण्डतपसा श्रुति गीतवृत्तः तुष्टो ॥ ४७ ॥
हरिः किल वशंवद तामवाप । श्रीमध्वस ।
न्मतपयोनिधिपूर्ण चन्द्रः श्रीविष्णुतीर्थमुनिराट् ॥ ४८ ॥
मुदमातनोतु सत्य धर्माब्धिसम्भूतः चिन्ता ।
मणिविजृम्भितः। सत्य सङ्कल्पकल्पद्रुः ॥ ४९ ॥
कल्पयेत् कामधुक् मम सत्यसङ्कल्पवार्व्युत्थः ।
सत्यसन्तुष्टचन्द्रमाः । प्रार्थिताशेषदाता च ॥ ५० ॥
भक्तवृन्दस्य नित्यदा सत्यसन्तुष्टवाराशेः ।
जातः सत्यपरायणः । चिन्तामणिः सदा भूयात् ॥ ५१ ॥
सतां चिन्तितसिद्धये सत्परायणदुग्धाब्धेः ।
सञ्जाता कीर्तिकामदा । कामधेनुः सत्यकामनाम्नी ॥ ५२ ॥
भूयात् सतां मुदे सत्य कामार्णवोद्भूतः श्रीम ।
त्सत्येष्टसद्गुरुः। सतां चिन्तामणिरिव ॥ ५३ ॥
चिन्तितार्थप्रदो भुवि सत्येष्टार्यसरिन्नाथा ।
दुद्भूतोऽद्भुतदर्शनः । नाशयेत् हृदयध्वान्तं ॥ ५४ ॥
सत्पराक्रमकौस्तुभः सत्पराक्रमदुग्धाब्धेः ।
सञ्जातः कीर्तिचन्द्रकः। सन्तापं हरतु श्रीमान् ॥ ५५ ॥
सत्यवीरेन्दुरञ्जसा सत्यवीरालवालोत्थः ।
विदुषां चिन्तितप्रदः । सत्यधीराख्यकल्पद्रुः ॥ ५६ ॥
भूयादिष्टार्थसिद्धये सत्यधीरकराब्जोत्थः ।
ज्ञानवैराग्यसागरः । सत्यज्ञानाख्यतरणिः ॥ ५७ ॥
स्वान्तध्वान्तं निकृन्ततु आसेतोरातुषाराद्रेः ।
यो दिशो जितवान् मुहुः । सत्यध्यानगुरुः पातु ॥ ५८ ॥
यतीन्द्रैरपि पूजितः प्रावोचद्योऽधिकं न्याय ।
सुधावाक्यार्थचन्द्रिकाम् । सत्यप्रज्ञगुरुर्दद्यात् ॥ ५९ ॥
प्रज्ञां वैदान्तिकीम् सदा वेङ्कटेशाद्रिमारभ्य ।
सेतुं तोताद्रिपूर्वकान् । गत्वा दिग्विजयी पातु ॥ ६० ॥
सत्याभिज्ञगुरूत्तमः सत्याभिज्ञकराब्जोत्था ।
न् पञ्चाशद्वर्षपूजकान् । सत्यप्रमोदतीर्थार्यान् नौमि ॥ ६१ ॥
न्यायसुधारतान् तमो नुदानन्दमवाप लो ।
कस्तत्वप्रदीपाकृति गोगणेन ॥ ६२ ॥
यदास्यशीतांशुभुवा गुरूंस्तान् त्रिविक्र
मार्यान् प्रणमामि वर्यान् त्रिविक्रामाचार्य ।
तनूजनुः कृता- वनीचकाव्यस्य पितुः
समो मतिम् । महीयसीं तत्र स ॥ ६३ ॥
मेऽमलीमसां ददातु नारायणपण्डिताग्र ।
णीः वेदेशमुनिसत्पा दसेवासम्प्राप्तवैभवान् ॥ ६४ ॥
यादवार्यान् वरसुधा टीकाकारान् वयं नुमः ।
श्रीमदाचार्यवाक्पङ्के रुहनित्यप्रबोधदः ॥ ६५ ॥
श्रीनिवासार्यतरणि र्भासतां मदहृदम्ब ।
रे मन्मनोऽभीष्टवर दं सर्वाभीष्टफलप्रदम् ॥ ६६ ॥
। पुरंदरगुरुं वन्दे दास श्रेष्ठं दयानिधि ।
म् अज्ञानतिमिरच्छेदं बुद्धिसम्पत्प्रदायकम् ॥ ६७ ॥
। विज्ञानविमलं शान्तं विजयाख्यगुरुं भजे ।
भूपालनतपादाब्जं तापादिपरिहारकम् ॥ ६८ ॥
। गोपालदासमीडेऽहं गोपालहरिदर्शन ।
म् जलजेष्टनिभाकारं जगदीशपदाश्रयम् ॥ ६९ ॥
। जगतीतलविख्यातं ।
जगन्नाथगुरुं भजे ॥ ७० ॥
॥ इति माध्वगुरुस्तुतिः ॥