अथ श्रीमाधवतीर्थस्तोत्रम्
मध्वाचार्याप्तसन्यासं मध्वाचार्यसुसेवकम् ।
मध्वाचार्याप्तसद्विद्यं माधवार्यमहं भजे ॥ १ ॥
नृहर्यार्याप्तसंस्थानं मूलरामसुपूजकम् ।
आशाजिद्रामपूजेतं माधवार्यमहं भजे ॥ २ ॥
पञ्चव्यासशिलापूजां कुर्वाणं भक्तिपूर्वकम् ।
वामनाद्यर्चकं भक्त्या माधवार्यमहं भजे ॥ ३ ॥
द्युनामकतिरोवंशश्रीश्रितो
योऽन्तरिक्षगः । श्रीमध्वमध्वपू ।
पस्तु तद्गो यो मधुनामकः । श्री
हरी रामरूपस्तु वंशराम ॥ ४ ॥
इति स्मृतः । तत्पूजानुगुणाख्येतं माधवार्यमहं भजे वंशवृद्धिकरो यस्तु मोक्षानन्दप्रदस्तथा । वंशरामस्तदर्चेतं माधवार्यमहं भजे
मानां सर्वप्रमाणानां मुख्यबो
ध्यतया धवः । हरिरित्यादिश ।
न्तं ज्ञं माधवार्यमहं भजे “मा”
न चास्ति “धवः " स्वामी हरेरन्य ॥ ५ ॥
इति स्फुटम् ।
युक्त्यागमैः साधयन्तं माधवार्यमहं भजे ।
सधवां बोधयन्तं ज्ञं माधवार्यमहं भजे ॥ ६ ॥
वैराग्यदृढभक्त्युत्थ सदुपासनजां हि माम् ।
मणिपुरवरसंस्थे मूलवृन्दावने यो ॥ ७ ॥
सकलबुधमणीड्यो राजते ज्ञानिवर्यः । श्रु ।
तिवरमुनिमान्यो मा धवार्यो महात्मा भगवति ॥ ८ ॥
निजभक्तिं मे प्रदद्यात् सदात्मा
माधवार्यं स्मरन् भक्त्या यः पठे ।
त् स्तोत्रमुत्तमम् । सत्यात्मभिक्षुर
चितं स सर्वाभीष्टभाग्भवेत् ॥ ९ ॥
॥ इति श्रीमाधवतीर्थस्तोत्रम् ॥