📚 महाभारततात्पर्यनिर्णयभावसङ्ग्रहः
📚 महाभारततात्पर्यनिर्णयभावसङ्ग्रहः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ महाभारततात्पर्यनिर्णयभावसङ्ग्रहः योऽग्रेऽभूद्विश्वगर्भः सुखनिधिरमितैर्वासुदेवादिरूपैः क्रीडन् देवैरजाद्यैरगणितसुगुणो नित्यनीचोच्चभावैः । वेदैर्वेद्योऽस्तदोषोऽप्यसुरजनमनो मोहयन्मर्त्यवृत्त्या भक्तानां मुक्तिदाता द्विषदसुखकरः पातु सोऽस्मान् रमेशः ॥ १ ॥ सद्ग्रन्थानां समूहे जगति विलुलिते येन तद्भाव मुच्चैर्वक्तुं मध्वो नियुक्तो व्यधित सुवचसामुद्धृतिं । भारतस्य । देवोत्कृष्टस्य विष्णोः परमपुरुषतां ता रतम्यं सुराणां वायोर्जीवोत्तमत्वादिकमपि ॥ २ ॥ वदतां व्यासमीडे तमीशम् आदौ रूपचतुष्टयीं सृ जति यो देवान् पुराऽनुक्रमाद् ब्रह्माण्डं पुरमब्जजादि । विबुधान् सृष्ट्वा हरत्यन्ततः । स्रष्टा पूर्ववदस्य सर्व जगतो मत्स्यादिरूपोऽभवत् रामोऽभूदनुजान्वितो ॥ ३ ॥ दशरथात् पायात् स नः श्रीपतिः यद्वृद्धिर्जनमोहिनी मुद मिता यद्दर्शनात् सज्जना येनर्षिप्रियकारिणा निशिचरी । हन्त्रा ऋतू रक्षितः । योऽहल्यां सपतिं व्यधाद्धरधनुर्भङ्खाऽ वहज्जानकीं जेता वर्त्मनि भार्गवस्य नगरीं रामो गतोऽव्यात् स माम् ॥ ४ ॥ त्यक्त्वा राज्यमितो वनं वचनतो मातुः स काकाक्षिगः म् दैत्यं व्यस्य विकर्णघोणखचरीबन्धून् खरादीन् खलान् । मारीचं च निहत्य रावणहृतां सीतां विचिन्वन्निव प्राप्तो वायुसुतेन सूर्यजयुजा रामोऽवताद्वन्दितः ॥ ५ ॥ सुग्रीवेण सखित्वमाप्य शपथं कृत्वा वधे वालिनः तालान् सप्त विभिद्य वालिनिधनं कृत्वा स्वराज्ये स्थितम् । मार्ताण्डं च विधाय मारुतियुजा याम्यां दिशं गच्छता सीतान्वेषणमिच्छताऽब्धितरणे रामोऽवतात् संस्तुतः ॥ ६ ॥ यस्य श्रीहनुमाननुग्रहबलात् तीर्णाम्बुधिर्लीलया लङ्कां प्राप्य निशाम्य रामदयितां भङ्खा वनं राक्षसान् । अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः तीर्णाब्धिः कपिभिर्युतो यमनमत्तं रामचन्द्रं भजे ॥ ७ ॥ सिन्धुं दक्षिणमागतो दशमुखभ्रात्रिष्टदोऽभ्यर्चितो बद्धा सेतुमवाप्य राक्षसपुरीं सैन्यैः कपीनां युतः । हत्वेन्द्रारिकरीरकर्णदशकादीन् राक्षसान् जानकीं आदायाप्य पुरीं स्वराज्यपदवीं प्राप्तोऽवताद्राघवः ॥ ८ ॥ प्राप्तः साम्राज्यलक्ष्मी प्रियतमभरतं यौवराज्येऽभि षिच्य स्वीयान्रक्षन्सुतौ द्वौ जनकदुहितरि प्राप्य य । ज्ञैर्यजन् स्वं । सीताहेतोर्विमोह्य क्षितिजदितिसुतान र्थितो देवसङ्घैः सद्भिर्युक्तो हनूमद्वरद उपगतः ॥ ९ ॥ स्वं पदं पातु रामः क्षीराब्ध्युन्मथनादिकात्मचरितं देवैर्गृणद्भिः स्तुतः सज्ज्ञानाय पराशराख्यमुनिना । यः सत्यवत्यामभूत् । व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि ज्ञानं सत्सु विधाय तद्गतकलिं ॥ १० ॥ निघ्नन् स नोऽव्याद्धरिः भूपा यत्र पुरूरवः प्रभृ तयो जाता विधोरन्वये यद्वाद्या भरतादयः । कुरुमुखा भीष्माम्बिकेयादयः । भूभारक्षयका ङ्क्षिभिः सुरवरैरभ्यर्थितः श्रीपतिः तत्राविर्भवितुं ॥ ११ ॥ सहामरवरैरिच्छन् हरिः पातु माम् देवक्यां वसुदेवतोऽ ग्रजयुतो जातो व्रजं यो गतो बालघ्नीशकटाक्षहा स्वज । ननीमान्यस्तृणावर्तहा । यत्पूर्वं परतश्च पाण्डुतनया यत्सेवनं जज्ञिरे कर्तुं धर्ममरुद्वृषाश्विभिरजं ॥ १२ ॥ नन्दात्मजं नौमि तम् संस्कारान् प्राप्य गर्गाद् बहुशिशुच रितैः प्रीणयन् गोपगोपी- र्वत्सान् धेनूश्च रक्षन्नहिप । तिदमनो यः पपौ काननाग्निम् । विप्रस्त्रीप्रीतिकारी धृ तधरणिधरो गोऽपिकाभिर्निशासु क्रीडन्मल्लांश्च कंसं न्यहनदुपगतोऽव्यात्स कृष्णः पुरीं स्वाम् ॥ १३ ॥ पित्रोर्बन्धं निरस्य क्षितिपतिमकरोदुग्रसेनं गुरोर्यः पुत्रं प्रादात् परेतं युधि विजितजरासन्धपूर्वारिवर्गः । पार्थान् पित्रा विहीनानुपगतनगरान् यस्त्वजोऽपाद्विपद्भ्यो नन्दादीनुद्धवोक्त्या गतविरहशुचः कारयन् सोऽवतान्माम् ॥ १४ ॥ यस्माद्व्यासस्वरूपादपि विदितसुविद्या अवापुः प्रमोदं पार्था द्रोणः सुतार्थं प्रतिगतभृगुपो यन्नियत्याऽर्थकामः । तस्मादाप्तोरुविद्यो द्रुपदमुपगतोऽनाप्तकामोऽस्त्रविद्यां शिष्येभ्यः कौरवेभ्यो रविजनिरसनोऽदात्स नोऽव्यान्मुरारिः ॥ १५ ॥ भूयस्त्वागतमाहवे सह जरासन्धं नृपैर्नीतये ज्ञात्वाऽगात् सहजान्वितोऽतिगहनं गोमन्तमत्रागतात्न् । तार्क्ष्याल्लब्धकिरीट उन्नतगिरेराप्लुत्य जित्वा रिपू न् हत्वा स्वीयसृगालमात्मनगरीं प्राप्तः स नोऽव्याद्धरिः ॥ १६ ॥ भग्नाशान् नृपतीनरीन्व्यधित यः स्वर्गाधिपाग्र्यासने लग्नो भीष्मकसत्कृतोऽथ यवनं जघ्ने सतीमात्मनः । निघ्नां योऽकृत रुक्मिणीं समजयद्दुर्गर्विरुक्म्यादिका न् विघ्नं सत्रजितात्मजापतिरसौ मे घ्नन् भवेत् सर्वदा ॥ १७ ॥ अस्त्रज्ञेष्वधिकोऽर्जुनोऽथ यदनुक्रोशेन भीमं विना सद्धर्मे निरतं ददौ स्वगुरवे बद्धा नृपं पार्षतम् । पुत्रौ स द्रुपदोऽपि वह्निविबुधस्त्रीरूपकौ प्राप्तवा न् इष्टां धर्मज आप राज्यपदवीं स प्रीयतां नो हरिः ॥ १८ ॥ यत्कारुण्यबलेन पाण्डुतनया निस्तीर्य नानापदो भिक्षान्नाशिन आगमाभ्यसनिनो हत्वा बकं द्रौपदीम् । उद्वाह्याखिलभूपतीनपि ततो जित्वा गताः स्वां पुरीं इन्द्रप्रस्थपुरेऽवसन् कृतधरारक्षाः स नोऽव्याद्धरिः ॥ १९ ॥ यः पार्थान् परिपालयन् हरिपुरे स्त्रीपुत्रसम्पद्युता न् संहर्ता शतधन्वनोऽष्टमहिषीभर्ता सुरर्षिस्तुतः । हत्वा भौममपाहरत् सुरतरुं बह्वीरुवाहाङ्गनाः प्रायच्छद्धरिसूनवे स्वसहजां पायात् स नः केशवः ॥ २० ॥ पार्थान् लब्धसभान् विधाय मयतः प्राप्तः पुरं स्वं गतः क्षेत्रं कौरवमर्कपर्वणि पुरीं सम्प्राप्य कर्ता क्रतोः । पाण्डून् प्राप्य जरासुते विनिहते तैः कारयित्वाऽध्वरं प्राप्तः स्वं पुरमच्युतो विजयते द्यूते जितैश्च स्मृतः ॥ २१ ॥ पार्था याता अरण्यं निहतनिशिचराः प्रीणयन्तो द्वि जौघान् वार्तां श्रुत्वा स्वकीयामुपगतहरिणा मानिताः । सिन्धुराजम् । जित्वा दुर्योधनादीन् हरिहयपुरुषव्रा तबद्धान् विमोच्य प्राप्ता धर्मात्प्रसादं यमथ मुररिपुं ॥ २२ ॥ तुष्टुवुस्तं प्रपद्ये अन्यं वेषमुपागतापृथगितो गत्वा विराटालयं तद्देहस्थहरेर्निषेवणपरा । मल्लं तथा कीचकान् । हत्वा गोग्रहणोद्यतानपि कुरू न् जित्वा विराटार्चिताः पार्थाः स्वान्तिकमागतं यमजितं ॥ २३ ॥ भेजुस्तमीडेऽच्युतम् यत्संमत्या पृषततनुजप्रेषि तब्राह्मणोक्त्या राज्यं नादादनुजजनितस्याम्बिकेयोऽ । र्जुनस्य । यस्साहाय्यं व्यधित नगरीं कौरवाणामवा प्तः स्वोक्त्यै कृष्णस्तदनभिमतेराप्तपार्थः स नोऽव्यात् ॥ २४ ॥ सेने वीक्ष्य रणोन्मुखे करुणया शस्त्रोज्झितं फल्गुनं सद्गीतामुपदिश्य कार्मुकधरं चक्रेऽस्य यः सारथिः । अन्योन्यं कुरुपाण्डवैश्च पृतनां योऽजीघनत् स्यन्दना त् यो भीष्मं निरपातयत्सुतशरैः पाण्डोस्तमीडेऽच्युतम् ॥ २५ ॥ द्रोणे युध्यति पाण्डवैर्विनिहतं प्राग्ज्योतिषं पार्थतः कृत्वा तस्य सुते हते निशि शिवं नीत्वाऽर्जुनं सैन्धवम् । तद्दत्तास्त्रबलादजीघनदतो द्रोणे हते द्रौपदेः यो भीमं च निजास्त्रनम्रमकरोत्तं नौमि नारायणम् ॥ २६ ॥ यत्सामर्थ्यबलेन सूर्यतनुजे पार्थेन युद्धे जिते पश्चाच्छल्यमवाप्य सारथिवरं धर्मात्मजं सायकैः । शीर्णाङ्गं कृतवत्यमुं शिबिरगं पार्थं च मृत्योरपा त् यः पार्थेन हतेऽर्कजे नृपनुतः पायात् स नः केशवः ॥ २७ ॥ शल्ये धर्मसुताद्धते कुरुबले पार्थैः समस्ते हते भीमेनानुजसंयुते विनिहते दुर्योधने द्रौणिना । सुप्तानां निधने कृते निशि ततो मुक्तान् विधेरस्त्रतः पार्थान्राज्यमितांश्च तत्सुतसुतं योऽपात्सनोऽव्याद्धरिः ॥ २८ ॥ कृष्णाभ्यामपि भूसुरैर्नृपसुतो राज्येऽभिषिक्तो द्विजैः दग्धे निन्दति भिक्षुके खलतरे स्वं विप्रतीसारतः । राज्यं त्यक्तुमथोद्यतो वचनतो यस्याप्तभीष्मस्ततः शुश्रावाखिलधर्मनिर्णयमदः कृष्णद्वयं धीमहि ॥ २९ ॥ स्मृत्वा यं द्युसरित्सुतो वसुरभूद्राज्यं यदाशासितो निर्दुःखोऽथ जुगोपधर्मनिरतो जित्वा स्वराज्ये कलिम् । यः पार्थं समबोधयन्मृतशिशुं योऽजीवयत्पाण्डवैः यो यज्ञं समकारयद्बहुधनैर्ध्यायामि तं केशवम् ॥ ३० ॥ यद्युक्ताः पाण्डुपुत्राः क्षितिमथ जुगुपुर्धर्मराजस्त्वरावा न्- धर्मे यत्प्रीतयेऽभूत् पवनजवचनैराम्बिकेयं विरक्तम् । व्यासात्मा यो वनस्थं त्वकृत निजमनोऽभीष्टवन्तं गतं स्वं नाथं पार्थाः स्मरन्तो मुमुदुरपि पदं यस्य कृष्णं तमीडे ॥ ३१ ॥ यो यष्टा विप्रशापाद्यदुकुलमवधीदर्थितोऽगात्स्वलोकं देवैर्भेष्म्याद्युपेतो यदनु निजपदं पाण्डवा अप्यवापुः । दैत्या यद्वेषतोऽन्धे तमसि निपतिता बुद्धरूपोऽभवद्यः कल्क्यात्माऽन्ते कलेर्यः कुजननिधनकृत् पातु सोऽस्मान्मुकुन्दः ॥ ३२ ॥ ॥ इति श्रीराघवेन्द्रश्रीपादविरचितः महाभारततात्पर्यनिर्णयभावसङ्ग्रहः ॥