अथ महाभारततात्पर्यनिर्णयभावसङ्ग्रहः
योऽग्रेऽभूद्विश्वगर्भः सुखनिधिरमितैर्वासुदेवादिरूपैः
क्रीडन् देवैरजाद्यैरगणितसुगुणो नित्यनीचोच्चभावैः ।
वेदैर्वेद्योऽस्तदोषोऽप्यसुरजनमनो मोहयन्मर्त्यवृत्त्या
भक्तानां मुक्तिदाता द्विषदसुखकरः पातु सोऽस्मान् रमेशः ॥ १ ॥
सद्ग्रन्थानां समूहे जगति विलुलिते येन तद्भाव
मुच्चैर्वक्तुं मध्वो नियुक्तो व्यधित सुवचसामुद्धृतिं ।
भारतस्य । देवोत्कृष्टस्य विष्णोः परमपुरुषतां ता
रतम्यं सुराणां वायोर्जीवोत्तमत्वादिकमपि ॥ २ ॥
वदतां व्यासमीडे तमीशम् आदौ रूपचतुष्टयीं सृ
जति यो देवान् पुराऽनुक्रमाद् ब्रह्माण्डं पुरमब्जजादि ।
विबुधान् सृष्ट्वा हरत्यन्ततः । स्रष्टा पूर्ववदस्य सर्व
जगतो मत्स्यादिरूपोऽभवत् रामोऽभूदनुजान्वितो ॥ ३ ॥
दशरथात् पायात् स नः श्रीपतिः यद्वृद्धिर्जनमोहिनी मुद
मिता यद्दर्शनात् सज्जना येनर्षिप्रियकारिणा निशिचरी ।
हन्त्रा ऋतू रक्षितः । योऽहल्यां सपतिं व्यधाद्धरधनुर्भङ्खाऽ
वहज्जानकीं जेता वर्त्मनि भार्गवस्य नगरीं रामो गतोऽव्यात् स माम् ॥ ४ ॥
त्यक्त्वा राज्यमितो वनं वचनतो मातुः स काकाक्षिगः
म् दैत्यं व्यस्य विकर्णघोणखचरीबन्धून् खरादीन् खलान् ।
मारीचं च निहत्य रावणहृतां सीतां विचिन्वन्निव
प्राप्तो वायुसुतेन सूर्यजयुजा रामोऽवताद्वन्दितः ॥ ५ ॥
सुग्रीवेण सखित्वमाप्य शपथं कृत्वा वधे वालिनः
तालान् सप्त विभिद्य वालिनिधनं कृत्वा स्वराज्ये स्थितम् ।
मार्ताण्डं च विधाय मारुतियुजा याम्यां दिशं गच्छता
सीतान्वेषणमिच्छताऽब्धितरणे रामोऽवतात् संस्तुतः ॥ ६ ॥
यस्य श्रीहनुमाननुग्रहबलात् तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्खा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत्तं रामचन्द्रं भजे ॥ ७ ॥
सिन्धुं दक्षिणमागतो दशमुखभ्रात्रिष्टदोऽभ्यर्चितो
बद्धा सेतुमवाप्य राक्षसपुरीं सैन्यैः कपीनां युतः ।
हत्वेन्द्रारिकरीरकर्णदशकादीन् राक्षसान् जानकीं
आदायाप्य पुरीं स्वराज्यपदवीं प्राप्तोऽवताद्राघवः ॥ ८ ॥
प्राप्तः साम्राज्यलक्ष्मी प्रियतमभरतं यौवराज्येऽभि
षिच्य स्वीयान्रक्षन्सुतौ द्वौ जनकदुहितरि प्राप्य य ।
ज्ञैर्यजन् स्वं । सीताहेतोर्विमोह्य क्षितिजदितिसुतान
र्थितो देवसङ्घैः सद्भिर्युक्तो हनूमद्वरद उपगतः ॥ ९ ॥
स्वं पदं पातु रामः क्षीराब्ध्युन्मथनादिकात्मचरितं
देवैर्गृणद्भिः स्तुतः सज्ज्ञानाय पराशराख्यमुनिना ।
यः सत्यवत्यामभूत् । व्यासत्वेन विधाय वेदविवृतिं
शास्त्राणि सर्वाण्यपि ज्ञानं सत्सु विधाय तद्गतकलिं ॥ १० ॥
निघ्नन् स नोऽव्याद्धरिः भूपा यत्र पुरूरवः प्रभृ
तयो जाता विधोरन्वये यद्वाद्या भरतादयः ।
कुरुमुखा भीष्माम्बिकेयादयः । भूभारक्षयका
ङ्क्षिभिः सुरवरैरभ्यर्थितः श्रीपतिः तत्राविर्भवितुं ॥ ११ ॥
सहामरवरैरिच्छन् हरिः पातु माम् देवक्यां वसुदेवतोऽ
ग्रजयुतो जातो व्रजं यो गतो बालघ्नीशकटाक्षहा स्वज ।
ननीमान्यस्तृणावर्तहा । यत्पूर्वं परतश्च पाण्डुतनया
यत्सेवनं जज्ञिरे कर्तुं धर्ममरुद्वृषाश्विभिरजं ॥ १२ ॥
नन्दात्मजं नौमि तम् संस्कारान् प्राप्य गर्गाद् बहुशिशुच
रितैः प्रीणयन् गोपगोपी- र्वत्सान् धेनूश्च रक्षन्नहिप ।
तिदमनो यः पपौ काननाग्निम् । विप्रस्त्रीप्रीतिकारी धृ
तधरणिधरो गोऽपिकाभिर्निशासु क्रीडन्मल्लांश्च कंसं न्यहनदुपगतोऽव्यात्स कृष्णः पुरीं स्वाम् ॥ १३ ॥
पित्रोर्बन्धं निरस्य क्षितिपतिमकरोदुग्रसेनं गुरोर्यः
पुत्रं प्रादात् परेतं युधि विजितजरासन्धपूर्वारिवर्गः ।
पार्थान् पित्रा विहीनानुपगतनगरान् यस्त्वजोऽपाद्विपद्भ्यो
नन्दादीनुद्धवोक्त्या गतविरहशुचः कारयन् सोऽवतान्माम् ॥ १४ ॥
यस्माद्व्यासस्वरूपादपि विदितसुविद्या अवापुः प्रमोदं
पार्था द्रोणः सुतार्थं प्रतिगतभृगुपो यन्नियत्याऽर्थकामः ।
तस्मादाप्तोरुविद्यो द्रुपदमुपगतोऽनाप्तकामोऽस्त्रविद्यां
शिष्येभ्यः कौरवेभ्यो रविजनिरसनोऽदात्स नोऽव्यान्मुरारिः ॥ १५ ॥
भूयस्त्वागतमाहवे सह जरासन्धं नृपैर्नीतये
ज्ञात्वाऽगात् सहजान्वितोऽतिगहनं गोमन्तमत्रागतात्न् ।
तार्क्ष्याल्लब्धकिरीट उन्नतगिरेराप्लुत्य जित्वा रिपू
न् हत्वा स्वीयसृगालमात्मनगरीं प्राप्तः स नोऽव्याद्धरिः ॥ १६ ॥
भग्नाशान् नृपतीनरीन्व्यधित यः स्वर्गाधिपाग्र्यासने
लग्नो भीष्मकसत्कृतोऽथ यवनं जघ्ने सतीमात्मनः ।
निघ्नां योऽकृत रुक्मिणीं समजयद्दुर्गर्विरुक्म्यादिका
न् विघ्नं सत्रजितात्मजापतिरसौ मे घ्नन् भवेत् सर्वदा ॥ १७ ॥
अस्त्रज्ञेष्वधिकोऽर्जुनोऽथ यदनुक्रोशेन भीमं विना
सद्धर्मे निरतं ददौ स्वगुरवे बद्धा नृपं पार्षतम् ।
पुत्रौ स द्रुपदोऽपि वह्निविबुधस्त्रीरूपकौ प्राप्तवा
न् इष्टां धर्मज आप राज्यपदवीं स प्रीयतां नो हरिः ॥ १८ ॥
यत्कारुण्यबलेन पाण्डुतनया निस्तीर्य नानापदो
भिक्षान्नाशिन आगमाभ्यसनिनो हत्वा बकं द्रौपदीम् ।
उद्वाह्याखिलभूपतीनपि ततो जित्वा गताः स्वां पुरीं
इन्द्रप्रस्थपुरेऽवसन् कृतधरारक्षाः स नोऽव्याद्धरिः ॥ १९ ॥
यः पार्थान् परिपालयन् हरिपुरे स्त्रीपुत्रसम्पद्युता
न् संहर्ता शतधन्वनोऽष्टमहिषीभर्ता सुरर्षिस्तुतः ।
हत्वा भौममपाहरत् सुरतरुं बह्वीरुवाहाङ्गनाः
प्रायच्छद्धरिसूनवे स्वसहजां पायात् स नः केशवः ॥ २० ॥
पार्थान् लब्धसभान् विधाय मयतः प्राप्तः पुरं स्वं गतः
क्षेत्रं कौरवमर्कपर्वणि पुरीं सम्प्राप्य कर्ता क्रतोः ।
पाण्डून् प्राप्य जरासुते विनिहते तैः कारयित्वाऽध्वरं
प्राप्तः स्वं पुरमच्युतो विजयते द्यूते जितैश्च स्मृतः ॥ २१ ॥
पार्था याता अरण्यं निहतनिशिचराः प्रीणयन्तो द्वि
जौघान् वार्तां श्रुत्वा स्वकीयामुपगतहरिणा मानिताः ।
सिन्धुराजम् । जित्वा दुर्योधनादीन् हरिहयपुरुषव्रा
तबद्धान् विमोच्य प्राप्ता धर्मात्प्रसादं यमथ मुररिपुं ॥ २२ ॥
तुष्टुवुस्तं प्रपद्ये अन्यं वेषमुपागतापृथगितो
गत्वा विराटालयं तद्देहस्थहरेर्निषेवणपरा ।
मल्लं तथा कीचकान् । हत्वा गोग्रहणोद्यतानपि कुरू
न् जित्वा विराटार्चिताः पार्थाः स्वान्तिकमागतं यमजितं ॥ २३ ॥
भेजुस्तमीडेऽच्युतम् यत्संमत्या पृषततनुजप्रेषि
तब्राह्मणोक्त्या राज्यं नादादनुजजनितस्याम्बिकेयोऽ ।
र्जुनस्य । यस्साहाय्यं व्यधित नगरीं कौरवाणामवा
प्तः स्वोक्त्यै कृष्णस्तदनभिमतेराप्तपार्थः स नोऽव्यात् ॥ २४ ॥
सेने वीक्ष्य रणोन्मुखे करुणया शस्त्रोज्झितं फल्गुनं
सद्गीतामुपदिश्य कार्मुकधरं चक्रेऽस्य यः सारथिः ।
अन्योन्यं कुरुपाण्डवैश्च पृतनां योऽजीघनत् स्यन्दना
त् यो भीष्मं निरपातयत्सुतशरैः पाण्डोस्तमीडेऽच्युतम् ॥ २५ ॥
द्रोणे युध्यति पाण्डवैर्विनिहतं प्राग्ज्योतिषं पार्थतः
कृत्वा तस्य सुते हते निशि शिवं नीत्वाऽर्जुनं सैन्धवम् ।
तद्दत्तास्त्रबलादजीघनदतो द्रोणे हते द्रौपदेः
यो भीमं च निजास्त्रनम्रमकरोत्तं नौमि नारायणम् ॥ २६ ॥
यत्सामर्थ्यबलेन सूर्यतनुजे पार्थेन युद्धे जिते
पश्चाच्छल्यमवाप्य सारथिवरं धर्मात्मजं सायकैः ।
शीर्णाङ्गं कृतवत्यमुं शिबिरगं पार्थं च मृत्योरपा
त् यः पार्थेन हतेऽर्कजे नृपनुतः पायात् स नः केशवः ॥ २७ ॥
शल्ये धर्मसुताद्धते कुरुबले पार्थैः समस्ते हते
भीमेनानुजसंयुते विनिहते दुर्योधने द्रौणिना ।
सुप्तानां निधने कृते निशि ततो मुक्तान् विधेरस्त्रतः
पार्थान्राज्यमितांश्च तत्सुतसुतं योऽपात्सनोऽव्याद्धरिः ॥ २८ ॥
कृष्णाभ्यामपि भूसुरैर्नृपसुतो राज्येऽभिषिक्तो द्विजैः
दग्धे निन्दति भिक्षुके खलतरे स्वं विप्रतीसारतः ।
राज्यं त्यक्तुमथोद्यतो वचनतो यस्याप्तभीष्मस्ततः
शुश्रावाखिलधर्मनिर्णयमदः कृष्णद्वयं धीमहि ॥ २९ ॥
स्मृत्वा यं द्युसरित्सुतो वसुरभूद्राज्यं यदाशासितो
निर्दुःखोऽथ जुगोपधर्मनिरतो जित्वा स्वराज्ये कलिम् ।
यः पार्थं समबोधयन्मृतशिशुं योऽजीवयत्पाण्डवैः
यो यज्ञं समकारयद्बहुधनैर्ध्यायामि तं केशवम् ॥ ३० ॥
यद्युक्ताः पाण्डुपुत्राः क्षितिमथ जुगुपुर्धर्मराजस्त्वरावा
न्- धर्मे यत्प्रीतयेऽभूत् पवनजवचनैराम्बिकेयं विरक्तम् ।
व्यासात्मा यो वनस्थं त्वकृत निजमनोऽभीष्टवन्तं गतं स्वं
नाथं पार्थाः स्मरन्तो मुमुदुरपि पदं यस्य कृष्णं तमीडे ॥ ३१ ॥
यो यष्टा विप्रशापाद्यदुकुलमवधीदर्थितोऽगात्स्वलोकं
देवैर्भेष्म्याद्युपेतो यदनु निजपदं पाण्डवा अप्यवापुः ।
दैत्या यद्वेषतोऽन्धे तमसि निपतिता बुद्धरूपोऽभवद्यः
कल्क्यात्माऽन्ते कलेर्यः कुजननिधनकृत् पातु सोऽस्मान्मुकुन्दः ॥ ३२ ॥
॥ इति श्रीराघवेन्द्रश्रीपादविरचितः महाभारततात्पर्यनिर्णयभावसङ्ग्रहः ॥