अथ मङ्गलाष्टकम्
लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः
पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।
ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः
स त्रैलोक्यकुटुम्बपालनपरः कुर्याद्धरिर्मङ्गलम् ॥ १ ॥
ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुः ।
चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।
नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः
सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥ २ ॥
विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः
श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।
माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः
श्रीविष्णोः पदपद्मचिंतनरताः कुर्वन्तु नो मङ्गलम् ॥ ३ ॥
मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हेहयः
श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।
इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादो ध्रुवश्चेत्याद्या भुवि भूभुजश्च सततं कुर्वन्तु नो मङ्गलम् ॥ ४ ॥
श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा
माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।
सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तकौ
इत्याद्या भुवि भूधराः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥ ५ ॥
गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा
कृष्णा भीमरथी च फल्गुसरयू श्रीगण्डकी गोमती ।
कावेरी कपिला वराहतनया नेत्रावतीत्यादयो
नद्यः श्रीहरिपादपङ्कजभवाः कुर्वन्तु नो मङ्गलम् ॥ ६ ॥
वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गाः पुराणान्विता
वेदान्ता अपि मन्त्रतन्त्रसहितास्तर्काः स्मृतीनां गणाः ।
काव्यालङ्कृतिनीतिनाटकयुताः शब्दाश्च नानाविधाः
श्रीविष्णोर्गुणराशिकीर्तनपराः कुर्वन्तु नो मङ्गलम् ॥ ७ ॥
आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो
नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणाः ।
मासाब्दा ऋतवस्तथैव दिवसाः संध्यास्तथा रात्रयः
सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥ ८ ॥
इत्येतद्वरमङ्गलाष्टकमिदं श्रीराजराजेश्वरैः
आख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठे
त् धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः ॥ ९ ॥
॥ इति श्रीराजराजेश्वरतीर्थविरचितं मङ्गलाष्टकम् ॥
श्रीकृष्णार्पणमस्तु ॥ १० ॥