📚 भागीरथीगद्यम्
📚 भागीरथीगद्यम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ भागीरथीगद्यम् तत्र भगवतः साक्षाद् यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेण अन्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहा उपस्पर्शनामला साक्षात् भगवत्पदीत्यनुपलक्षितवचोभि- रभिधीयमाना अतिमहता कालेन युगसहस्त्रोपलक्षणेन दिवो मूर्धानमवततार यत्तद्विष्णुपदमाहुः । यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतः अस्मत्कुलदेवताचरणारविन्दोदकम् इति याम् अनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तहृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुङ्खलविगलितामलबाष्पकलया अभिव्यज्यमानरोमपुलककुलक अधुनापि परमादरेण शिरसा बिभर्ति ॥ तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु इयं नु तपस आत्यन्तिकी सिद्धिरेतावतीति भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोगलाभेनैव उपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षवः सबहु- मानमेनामद्यापि जटाजूटैरुद्वहन्ति ॥ ततः अनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेन अवतरन्ती इन्दुमण्डलमाप्फ्लाव्य ब्रह्मसदने निपतति । तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दती नदनदीपतिमेवाभिनिविशते । "सीता अलकनन्दा चक्षुः भद्रा ” इति ॥ ॥ सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतन्ती गन्धमादनमूर्ध्नि पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति । एवं माल्यवच्छिखरान्निष्पतन्ती अनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति । भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादभिस्यन्दमाना उत्तरांस्तु कुरून् अतिक्रम्य उदीच्यां दिशि लवणार्णवं प्रविशति । तथैवालकनन्दा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य हेमकूटहिमकूटानि अतितररभसरंहसा लुठन्ती भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति ॥ ॥ ॥ इति भागवते पञ्चमस्कन्धे भागीरथीगद्यम् ॥