📚 भगवद्ध्यानम्
📚 भगवद्ध्यानम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ भगवद्ध्यानम् सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ १ ॥ यच्छौचनिस्सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्यधिघृतेन शिवः शिवोऽभूत् । ध्यातुर्मनश्शमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २ ॥ ऊरू सुपर्णभुजयोरधिशोभमाना- वोजोनिधी स्वतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमानकाञ्चीकलापपरिरम्भि नितम्बमम्ब ॥ ३ ॥ नाभिहदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिमुषस्तनयोरमुष्य ध्यायेद् द्वयं विततहारमयूखगौरम् ॥ ४ ॥ वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ ५ ॥ बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् । सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् ॥ ६ ॥ कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ ७ ॥ भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद् भगवतो वदनारविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारहासम् ॥ ८ ॥ यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयश्रियमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भु ॥ ९ ॥ तस्यावलोकमधिकं कृपयाऽतिघोरतापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विततभावनया गुहायाम् ॥ १० ॥ हासं हरेरवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमत्युदारम् । संमोहनाय रचितं निजमाययाऽस्य भ्रूमण्डलं मनुसुते मकरध्वजस्य ॥ ११ ॥ ध्यानायनं रहसि तद्बहुलाधरोष्ठभासाऽरुणायिततनुद्विजकुन्दपङ्क्ति । ध्यायेत्स्वहृत्कुहरकेऽवसितस्य विष्णोः भक्त्याऽर्द्रयाऽर्पितमना न पृथग् दिदृक्षेत् ॥ १२ ॥ ॥ इति भगवद्ध्यानम् ॥