📚 पापमोचनस्तोत्रम्
📚 पापमोचनस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ पापविमोचनस्तोत्रम् सुकृतं तिलमात्र तुल्यमीश क्रियते नैव मयैकवत्सरेऽ । पि । अपि तु क्रियते सदाघपू गः प्रतियामं सकलेन्द्रियैर्मुकुंद ॥ १ ॥ न शिरश्चलतीश मे कदाऽपि श्रुतिजानंदभरेण सद्गुणा । नाम् । अपि तु प्रभुबंधुदुर्गुणा नां श्रवणार्थं चलितं ॥ २ ॥ भवत्यशंकम् पापविमोचनस्तो त्रम् श्रवणे श्रवणाय सत्कथाया । न यतेते तव पुण्यकीर्तनस्य अपि तु व्यभिचारलोकवार्ता ॥ ३ ॥ श्रवणायैव महाद रं प्रयातः न ममाक्षि । युगं प्रवर्तते श्रीभ गवच्छास्त्रकुलावलोकनाय । अपि तु ॥ ४ ॥ ध्रुवबालनर्तकीनां गणिकानां परिनर्तनादिदृष्ट्यै न हि नासि । कया कदापि विष्णोः पदपद्मार्पि तपुष्पगंधबुद्धिः । कमलेश ॥ ५ ॥ भवामि किंतु विष्णोश्चरणानर्पितपुष्पगंध बुद्धिः नृहरेऽच्युतमाधवेशकृष्णहरिगोविं । दमुकुंदनामजातम् । न हि कीर्तयतीह मे कु जिह्वाऽपि तु दुर्लिंगभगांकितान् कुशब्दान् ॥ ६ ॥ तव मंदिरमार्जनादिसेवां न करौ मे कुरुतः कदापि भ । क्त्या । अपि तूरुगुणार्य दुष्टव स्तुग्रहणायैव यतेत इंदिरेश ॥ ७ ॥ उदरं मम धिक् शठस्य विष्ण्व र्पितपूतान्नविवर्जितं नितां । तम् । यदपूततरासमर्पणी याधमवृन्ताकपलांडुपूर्वभाजः ॥ ८ ॥ खलजारवधूगृहाणि नित्यं चरणाभ्यामनुयाम्यहं त्वरा । भ्याम् । न तु माधव तावकालयां श्च प्रतियामीश महत्तमाग्रहोऽहम् ॥ ९ ॥ मन एव हरेऽखिलेंद्रियाणां वरमित्थं प्रमितं श्रुतिस्मृति । भ्याम् । सुमनोजयिनोऽखिलेंद्रिया णां जय एवेति जनानुभूतिरस्ति ॥ १० ॥ मनसाच्युत कृष्ण तादृशेना प्यनुचिंत्यैव भवंतमात्मभ । क्तान् । भववारिनिधेः सुतारयं तं भववार्धिं न हि तर्तुमस्ति यत्नः ॥ ११ ॥ मम पापचयस्य वासुदेवां तकलोकस्थितिरेव चेत् फलं । तु । न सुखी सदृशोऽस्ति मे त्रिलो क्यां फलभावेन महत्तमोऽस्ति ॥ १२ ॥ सिद्धम् न सुखानुभवाय पाप कर्माण्यहमीशानुदितं तनो । मि किं तु । अघनाशयशः परी क्षणार्थं तव नाम्ना मनुतापसिद्ध ॥ १३ ॥ एव निजवासरुषा प्रदातुमा र्तिं ह्यधिकां पापनियामकासुरे । भ्यः । अशुभान्यपि कारयन्मया त्वं रमसे सर्वनियामको विभासि ॥ १४ ॥ यदि कृष्ण कदाचनापि पुण्यं घटते पापमयस्य मेऽपि त । त्तु । प्रबलाघचयैर्निहन्यते वा दुरितध्वंसकृतार्थमीश वा स्यात् ॥ १५ ॥ तदिहोभयतश्च पुण्यमूर्ते सुकृतं नो घटते मनागपी । श । वद मे पुरतस्त्वतीव भी रोर्भगवन् कालभयापहर्क्युपायम् ॥ १६ ॥ अतुलं नृषुवैष्णवं सुजन्मा च्युतदत्तं कृपया त्वयाऽप्यवा । प्य । क्षणजीव्यपि कल्पगत्वबु द्ध्या पशुचंडालवदेव संचरामि ॥ १७ ॥ न तदस्ति शरीरिणां शताब्दा युषि शास्त्रप्रथितेऽपि किंचिदे । व । भगवन् खलु सर्वरात्रिका लो जलहोमोपमतामुपैति नालम् ॥ १८ ॥ द्विदशाब्दयुगं दिवाऽपि पूर्वो त्तरमीशार्भकभाववार्धका । भ्याम् । समयं प्रणयामि सर्वरो गैर्बहुलीलाभिरपि ॥ १९ ॥ प्रमूढबुद्ध्या परिशेषित ईश मध्यकालः सुकृते भारतभूत । ले वरिष्ठः । यदिहापि सदैव पा पचित्ते मयि पश्यंत्यजयोश्च कोऽपराधः ॥ २० ॥ इह भारतभूतलेऽतिपुण्ये द्रविणस्त्रीसुतपूर्वकेषु मा । याम् । अलमेकदिनं विमुच्य वा मे तव पादाब्जरतिं प्रदेहि देव ॥ २१ ॥ रमयाऽप्यगणय्यवस्तुजातं द्विविधं प्राहुरमंदबुद्धिभा । जः । तव सद्गुणजातमेकम न्यन्मम दुर्वारदुरंतपापजातम् ॥ २२ ॥ अतिसौख्यकराण्यलं परस्ता त् न हि किंचित् श्रमसाध्यसाधना । नि । श्रमभीरुरहं त्यजन् पर त्रामितशोकानुभवी कथं भवामि ॥ २३ ॥ भुवि यद्यपि पापिनो वसंति श्रमभाजः पुरुषास्तथाऽपि कोऽ । पि । मम पापसमानपापक र्ता पुरुषो नास्ति हि नास्ति नास्ति नास्ति ॥ २४ ॥ नतयो न कृताः प्रदक्षिणाश्च स्तुतयोऽपि ध्रुवमंतरेव दं । भः । न गुरुः परिसेवितः सुभ क्त्या शुभशास्त्रश्रवणं कथं ततः स्यात् ॥ २५ ॥ वचनैर्बहुभिर्मुकुंद किं ते शृणु मे बीजवचो वदामि तु । भ्यम् । भुवनत्रयसंस्थितानि या नीश्वर पापानि वसन्ति मय्ययोग्ये ॥ २६ ॥ प्रकृतैतदघव्रजात् प्रमुक्ति र्न भवेत्कैरपि ते दयां विना । द्य । करुणां कुरु मय्यतो दया लो नतयस्ते कमलेश संत्वनंताः ॥ २७ ॥ विजयींद्रयतीश्वरो व्यतानी त् स्तुतिमेनां दुरितापहां मुरा । रेः । परमादरतः सदा पठे द्यो निखिलैः पापचयैर्भवेत् स मुक्तः ॥ २८ ॥ ॥ इति श्रीविजयद्रयतिकृतं पापविमोचनस्तोत्रम् सम्पूर्णम् ॥