अथ नरसिंहनखस्तुति:
पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- कुम्भो
च्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठी ।
रवास्य प्रततसुनखरा दारितारातिदूरप्रध्वस्तध्वा
न्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः लक्ष्मीकान्त ॥ १ ॥
समन्ततो विकलयन्नैवेशितुस्ते समं पश्या
म्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्नि
स्फुरत्- खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता श्रीनरसिंहनखस्तुतिः ॥