अथ द्वादशस्तोत्रम् • प्रथमोऽध्यायः •
वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।
इन्दिरापतिमाद्यादि वरदेशवरप्रदम् ॥ १ ॥
नमामि निखिलाधीश किरीटाघृष्ठपीठवत् ।
हृत्तमःशमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ २ ॥
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।
स्वर्णमञ्जीरसंवीत मारूढं जगदम्बया ॥ ३ ॥
उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम् ।
वलित्रयाङ्कितं नित्य मुपगूढं श्रियैकया ॥ ४ ॥
स्मरणीयमुरो विष्णो रिन्दिरावासमीशितुः ।
अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥ ५ ॥
शङ्खचक्रगदापद्म धराश्चिन्त्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ ६ ॥
सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् ।
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ ७ ॥
स्मरेत यामिनीनाथ सहस्रामितकान्तिमत् ।
भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥ ८ ॥
पूर्णानन्यसुखोद्भासि मन्दस्मितमधीशितुः ।
गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ ९ ॥
स्मरामि भवसन्ताप हानिदामृतसागरम् ।
पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ १० ॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ ११ ॥
सन्ततं चिन्तयेऽनन्त मन्तकाले विशेषतः ।
नैवोदापुर्गृणन्तोऽन्तं यद्गुणानामजादयः ॥ १२ ॥
॥ इति द्वादशस्तोत्रे प्रथमोऽध्यायः ॥
• द्वितीयोऽध्यायः • सुजनो दधिसंवृद्धिपूर्णच ।
न्द्रो गुणार्णवः । अमन्दा नन्दसान्द्रो नः ॥ १३ ॥
प्रीयतामिन्दिरापतिः रमाचकोरीविधवे ।
दुष्टदर्पोदवह्नये । सत्पान्थजनगेहाय नमो ॥ १४ ॥
नारायणाय ते चिद ।
चिद्भेदमखिलं विधा याधाय भुञ्जते ॥ १५ ॥
अव्याकृतगृहस्थाय रमाप्रणयिने नमः
अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः ।
नित्यमिन्दिरयाऽऽनन्द सान्द्रो यो नौमि तं हरिम् ॥ १६ ॥
वशी वशे न कस्यापि योऽजितो वि
जिताखिलः । सर्वकर्ता न क्रियते ।
तं नमामि रमापतिम् अगुणाय
गुणोद्रेकस्वरूपायादिकारिणे ॥ १७ ॥
विदारितारिसङ्घाय वासुदेवाय ते नमः
आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमो वरवराय ते ॥ १८ ॥
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥ १९ ॥
इन्दिरामन्दसान्द्राग्र्य कटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥ २० ॥
॥ इति द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥
तृतीयोऽध्यायः • कुरु भु ङ्क्ष्व च कर्म निजं निय ।
तं हरिपादविनम्र धिया सततम् । हरिरेव ॥ २१ ॥
परो हरिरेव गुरु र्हरिरेव जगत्पितृ ।
मातृगतिः न ततोऽस्त्य परं जगतीड्यतमं ॥ २२ ॥
परमात्परतः पुरु षोत्तमतः । तदलं ब ।
हुलोकविचिन्तनया प्रवणं कुरु ॥ २३ ॥
मानसमीशपदे य ततोऽपि हरेः पदसं ।
स्मरणे सकलं ह्यघ माशु लयं व्रजति । स्मरतस्तु ॥ २४ ॥
विमुक्तिपदं परमं स्पुटमेष्य
ति तत्किमपाक्रियते शृणुताम ।
लसत्यवचः परमं शपथेरि
तमुच्छ्रितबाहुयुगम् । न हरेः परमो न ॥ २५ ॥
हरेः सदृशः परमः स तु सर्व
चिदात्मगणात् यदि नाम परो न ।
भवेत् स हरिः कथमस्य वशे ज
गदेतदभूत् । यदि नाम न तस्य ॥ २६ ॥
वशे सकलं कथमेव तु नित्य
सुखं न भवेत् न च कर्मविमाम ।
लकालगुणप्रभृतीशमचित्त
नु तद्धि यतः । चिदचित्तनु सर्वमसौ ॥ २७ ॥
तु हरिर्यमयेदिति वैदिक
मस्ति वचः व्यवहारभिदाऽपि ।
गुरोर्जगतां न तु चित्तगता
स हि चोद्यपरम् । बहवः पुरुषाः ॥ २८ ॥
पुरुषप्रवरो हरि रित्यवदत् स्वयमेव ।
हरिः चतुराननपू र्वविमुक्तगणा हरिमेत्य ॥ २९ ॥
तु पूर्ववदेव सदा । नियतोच्चविनीचत ।
यैव निजां स्थितिमापु रिति स्म परं वचनम् ॥ ३० ॥
आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।
कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ ३१ ॥
॥ इति द्वादशस्तोत्रे तृतीयोऽध्यायः ॥
• चतुर्थोऽध्यायः • निजपू र्णसुखामितबोधत ।
नुः परशक्तिरनन्त गुणः परमः । अजरामरणः ॥ ३२ ॥
सकलार्तिहरः कमलापतिरी
ड्यतमोऽवतु नः यदसुप्तिगतोऽ ।
पि हरिः सुखवान् सुखरूपिणमा
हुरतो निगमाः । स्वमतिप्रभवं ॥ ३३ ॥
जगदस्य यतः परबोधतनुं
च ततः खपतिम् बहुचित्रजग ।
द्बहुधा करणात् परशक्तिरन
न्तगुणः परमः । सुखरूपममुष्य ॥ ३४ ॥
पदं परमं स्मरतस्तु भविष्य
ति तत्सततम् स्मरणे हि परेशि ।
तुरस्य विभोर्मलिनानि मनांसि
कुतः करणम् । विमलं हि पदं परमं ॥ ३५ ॥
स्वरतं तरुणार्कसवर्णम
जस्य हरेः विमलैः श्रुतिशाण ।
निशाततमैः सुमनोऽसिभिरा
शु निहत्य दृढम् । बलिनं ॥ ३६ ॥
निजवैरिणमात्मतमोऽभिधमीशम
नन्तमुपास्व हरिम् स हि विश्वसृजो वि ।
भुशम्भुपुरन्दरसूर्यमुखानपरा
नमरान् । सृजतीड्यतमोऽवति ॥ ३७ ॥
हन्ति निजं पदमापयति प्रण
तान् सुधिया परमोऽपि रमेशितु ।
रस्य समो न हि कश्चिदभून्न भ
विष्यति च । क्वचिदद्यतनोऽपि न ॥ ३८ ॥
पूर्णसदागणितेड्य ।
गुणानुभवैकतनोः ॥ ३९ ॥
॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ इति द्वादशस्तोत्रे चतुर्थोऽध्यायः ॥
• पञ्चमोऽध्यायः • वासुदे वापरिमेयसुधाम ।
न् शुद्धसदोदित सुन्द रीकान्त ॥ ४० ॥
धराधरधारणवे धुरधर्तः सौधृतिदी ।
धितिवेधृविधातः अ धिकबन्धं रन्धय बोधाच्छिन्धि पिधानं ॥ ४१ ॥
बन्धुरमद्धा । केशव केशव शासक वन्दे ।
पाशधरार्चित शूर वरेश नारायणामलकारण ॥ ४२ ॥
वन्दे कारणकारण पूर्णवरेण्य । माधव ।
माधव साधक वन्दे बाधक ॥ ४३ ॥
बोधक शुद्धसमाधे गोविन्द गोविन्द पुर ।
न्दर वन्दे स्कन्दसुन न्दनवन्दितपाद ॥ ४४ ॥
विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण स
दुष्णवधिष्णो सुधृष्णो मधुसूदन दा ।
नवसादन वन्दे दैवतमोदित वे
दितपाद । त्रिविक्रम निष्क्रम ॥ ४५ ॥
विक्रम वन्दे सुक्रम सङ्क्रमहुङ्कृतवक्र ।
वामन वामन भाम न वन्दे सामन सीमन ॥ ४६ ॥
शामन सानो । श्रीधर श्रीधर शन्धर वन्दे ।
भूधर वार्धर कन्ध रधारिन् हृषीकेश ॥ ४७ ॥
सुकेश परेश विव न्दे शरणेश कलेश ।
बलेश सुखेश । पद्म नाभ शुभोद्भव वन्दे ॥ ४८ ॥
सम्भृतलोकभराभ र भूरे दामोदर दू ।
रतरान्तर वन्दे दा रितपारगपार ॥ ४९ ॥
परस्मात् आनन्दतीर्थमुनीन्द्रकृ
ता हरिगीतिरियं परमादर ।
तः । परलोकविलोकनसूर्यनि
भा हरिभक्तिविवर्धनशौण्डतमा ॥ ५० ॥
॥ इति द्वादशस्तोत्रे पञ्चमोऽध्यायः ॥
• षष्ठोऽध्यायः • मत्स्यकरू प लयोदविहारिन् वे ।
दविनेत्र चतुर्मुख वन्द्य । कूर्मस्वरूपक ॥ ५१ ॥
मन्दरधारिन् लोकवि धारक देववरेण्य ।
सूकररूपक दान वशत्रो भूमिविधारक ॥ ५२ ॥
यज्ञवराङ्ग । देव नृ सिंह हिरण्यकशत्रो ।
सर्वभयान्तक दैव तबन्धो वामन वामन ॥ ५३ ॥
माणववेष दैत्यव रान्तक कारणरूप ।
राम भृगूद्वह सूर्जि तदीप्ते क्षत्रकुलान्तक ॥ ५४ ॥
शम्भुवरेण्य राघव राघव राक्षसशत्रो ।
मारुतिवल्लभ जान कीकान्त ॥ ५५ ॥
देवकिनन्दन सुन्द ररूप रुक्मिणिवल्ल ।
भ पाण्डवबन्धो देव किनन्दन नन्दकुमार ॥ ५६ ॥
वृन्दावनाञ्चन गोकु लचन्द्र । कन्दफलाश ।
न सुन्दररूप नन्दि तगोकुलवन्दितपाद ॥ ५७ ॥
इन्द्रसुतावक नन्द कहस्त चन्दनचर्चि ।
त सुन्दरिनाथ । इन्दी वरोदरदलनयन ॥ ५८ ॥
मन्दरधारिन् गोविन्द वन्दे चन्द्रशतानन ।
कुन्दसुहास नन्दित दैवतानन्दसुपूर्ण ॥ ५९ ॥
। दैत्यविमोहक नित्य सुखादे देवसुबोध ।
क बुद्धस्वरूप दुष्ट कुलान्तक कल्किस्वरूप ॥ ६० ॥
धर्मविवर्धन मूल युगादे । नारायणाम ।
लकारणमूर्ते पूर्ण गुणार्णव नित्यसुबोध ॥ ६१ ॥
आनन्दतीर्थमुनीन्द्र कृता हरिगाथा पाप ।
हरा शुभा नित्यसुखा र्था ॥ ६२ ॥
॥ इति द्वादशस्तोत्रे षष्ठोऽध्यायः ॥
• सप्तमोऽध्यायः • विश्वस्थि तिप्रलयसर्गमहा ।
विभूति- वृत्तिप्रकाश नियमावृतिबन्धमोक्षाः ॥ ६३ ॥
। यस्या अपाङ्गलवमा त्रत ऊर्जिता सा श्रीर्य ।
त्कटाक्षबलवत्यजि तं नमामि ॥ ६४ ॥
ब्रह्मेशशक्ररविध र्मशशाङ्कपूर्वगीर्वा ।
णसन्ततिरियं यद पाङ्गलेशम् । आश्रित्य विश्वविजयं ॥ ६५ ॥
विसृजत्यचिन्त्या श्रीर्य त्कटाक्ष... धर्मार्थकाम ।
सुमतिप्रचयाद्यशे षसन्मङ्गलं विदधते ॥ ६६ ॥
यदपाङ्गलेशम् । आश्रि त्य तत्प्रणतसत्प्रण ।
ता अपीड्या श्रीर्यत्कटा क्ष... ॥ ६७ ॥
षड्वर्गनिग्रहनिर स्तसमस्तदोषा ध्याय ।
न्ति विष्णुमृषयो यद पाङ्गलेशम् । आश्रित्य यानपि समेत्य ॥ ६८ ॥
न याति दुःखं श्रीर्यत्क टाक्ष... शेषाहिवैरिशि ।
वशक्रमनुप्रधानचित्रोरुकर्मरचनं ॥ ६९ ॥
यदपाङ्गलेशम् । आश्रित्य विश्व
मखिलं विदधाति धाता श्रीर्य ।
त्कटाक्ष... शक्रोग्रदीधितिहिमा
करसूर्यसूनु- ॥ ७० ॥
पूर्वं निहत्य निखिलं यदपाङ्गलेशम्
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः ।
श्रीर्यत्कटाक्ष... तत्पादपङ्कजमहास
नतामवाप शर्वादिवन्द्यचरणो ॥ ७१ ॥
यदपाङ्गलेशम् । आश्रि त्य नागपतिरन्यसु ।
रैर्दुरापां श्रीर्यत्कटा क्ष.... नागारिरुग्रबलपौरुष ॥ ७२ ॥
आप विष्णो- र्वाहत्वमु त्तमजवो यदपाङ्ग ।
लेशम् । आश्रित्य शक्रमु खदेवगणैरचिन्त्यं ॥ ७३ ॥
श्रीर्यत्कटाक्ष... आनन्द तीर्थमुनिसन्मुखप ।
ङ्कजोत्थं साक्षाद्रमाह रिमनःप्रियमुत्तमार्थम् ॥ ७४ ॥
। भक्त्या पठत्यजितमा त्मनि सन्निधाय यः स्तो ।
त्रमेतदभियाति त योरभीष्टम् ॥ ७५ ॥
॥ इति द्वादशस्तोत्रे सप्तमोऽध्यायः ॥
• अष्टमोऽध्यायः • वन्दिता शेषवन्द्योरुवृन्दार ।
कं चन्दनाचर्चितोदा रपीनांसकम् ॥ ७६ ॥
इन्दिराचञ्चलापाङ्ग नीराजितं मन्दरोद्धा ।
रिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं ॥ ७७ ॥
देवतामण्डलाखण्ड मण्डनम् सृष्टिसंहार ।
लीलाविलासाततं पु ष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ॥ ७८ ॥