अथ दुर्गास्तोत्रम्
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १ ॥
यशोदागर्भसम्भूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां माङ्गल्यां कुलवर्धनीम् ॥ २ ॥
कंसविद्रावणकरीमसुराणां क्षयङ्करीम् ।
शिलातले विनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३ ॥
वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् ।
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ ४ ॥
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान् वै तारयते पापात् पङ्के गामिव दुर्बलाम् ॥ ५ ॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६ ॥
राजोवाचनमोऽस्तु व रदे कृष्णे कुमारि ब्र ।
ह्मचारिणि । बालार्कस दृशाकारे पूर्णचन्द्रनिभानने ॥ ७ ॥
चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूराङ्गदभूषणे ॥ ८ ॥
भासि देवि यथा पद्मा नारायणपरिग्रहा ।
स्वरूपं ब्रह्मचर्यं च विशदं तव ॥ ९ ॥
खेचरि कृष्णच्छविस मा कृष्णा सङ्कर्षणस ।
मानना । बिभ्रती विपु लौ बाहू ॥ १० ॥
शक्रध्वजसमुच्छ्रयौ पात्रं च
पङ्कजं घण्टां विशुद्धां चैव या ।
भुवि । पाशं धनुर्महाचक्रं वि
विधान्यायुधानि ॥ ११ ॥
च कुण्डलाभ्यां सुपूर्णा भ्यां कर्णाभ्यां च विभूषि ।
ता । चन्द्रविस्पर्धिना दे वि मुखेन त्वं ॥ १२ ॥
विराजसे मुकुटेन विचित्रेण केशबन्धे ।
न शोभिना । भुजङ्गभो गवासेन श्रोणिसूत्रेण ॥ १३ ॥
राजता विभ्राजसे चाऽऽ बद्धेन भोगेनेवेह ।
मन्दरः । ध्वजेन शिखि पिच्छानामुच्छ्रितेन ॥ १४ ॥
विराजसे कौमारं व्र तमास्थाय त्रिदिवं पा ।
वितं त्वया । तेन त्वं स्तू यसे देवि त्रिदशैः ॥ १५ ॥
पूज्यसेऽपि च त्रैलोक्य रक्षणार्थाय महिषा ।
सुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु ॥ १६ ॥
शिवा भव जया त्वं वि जया चैव सङ्ग्रामे च ।
जयप्रदा । ममापि वि जयं देहि वरदा त्वं ॥ १७ ॥
च साम्प्रतम् विन्ध्ये चैव नगश्रेष्ठे तव स्थानं ।
च शाश्वतम् । कालि कालि महाकालि सीधुमांसपशु ॥ १८ ॥
प्रिये कृतानुयात्रा भू तैस्त्वं वरदा कामरू ।
पिणी । भारावतारे च ये त्वां संस्मरिष्यन्ति ॥ १९ ॥
मानवाः प्रणमन्ति च ये त्वां हि प्रभाते तु न ।
रा भुवि । न तेषां दुर्ल भं किञ्चित्पुत्रतो ॥ २० ॥
धनतोऽपि वा दुर्गात्ता रयसे दुर्गे तत्त्वं दु ।
र्गा स्मृता बुधैः । कान्तारे ष्ववसन्नानां मग्नानां च ॥ २१ ॥
महार्णवे दस्युभिर्वा निरुद्धानां त्वं गतिः प ।
रमा नृणाम् । जलप्रत रणे चैव कान्तारेष्वटवीषु ॥ २२ ॥
च ये स्मरन्ति महादे वीं न च सीदन्ति ते न ।
राः । त्वं कीर्तिः श्रीर्धृतिः सि द्धिर्विद्या ॥ २३ ॥
सन्ततिर्मतिः सन्ध्या रा त्रिः प्रभा निद्रा ज्योत्स्ना का ।
न्तिः क्षमा दया । नृणां च बन्धनं मोहं पुत्रनाशं ॥ २४ ॥
धनक्षयम् व्याधिं मृत्यु भयं चैव पूजिता ना ।
शयिष्यसि । सोऽहं राज्या त् परिभ्रष्टः शरणं त्वां ॥ २५ ॥
प्रपन्नवान् प्रणतश्च तथा मूर्ध्ना तव देवि ।
सुरेश्वरि । त्राहि मां प द्मपत्राक्षि सत्या सत्या ॥ २६ ॥
भवस्व नः शरणं भ व मे दुर्गे शरण्ये भ ।
क्तवत्सले । एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ॥ २७ ॥
देव्युवाचश्रुणु राजन्महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ २८ ॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९ ॥
भ्रातृभिः सहितो राज न् प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्य मारोग्यं च भविष्यति ॥ ३० ॥
ये नराः कीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ३१ ॥
प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२ ॥
ये स्मरिष्यन्ति मां राज न्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किञ्चि दस्मिंल्लोके भविष्यति ॥ ३३ ॥
इदं स्तोत्रवरं भक्त्या श्रुणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव ॥ ३४ ॥
मत्प्रभावाच्च वः सर्वा न् विराटनगरे स्थितान् ।
न प्राज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ ३५ ॥
इत्युक्ता वरदा देवी युधिष्ठिरमरिन्दमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६ ॥
॥ इति श्रीमन्महाभारते विराटपर्वणि धर्मराजप्रोक्तं दुर्गास्तोत्रम् ॥