अथ दधिवामनस्तोत्रम्
हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥ १ ॥
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तटित्कोटिसमप्रभम् ॥ २ ॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥ ३ ॥
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ॥ ४ ॥
सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीपरिवृतं अप्सरोगणसेवितम् ॥ ५ ॥
ऋग्यजुःसामाथर्वाद्यैर्गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैर्देवेशैः स्तोत्राराधनतत्परैः ॥ ६ ॥
सनकाद्यैर्मुनिगणैः स्तूयमानमहर्निशम् ।
त्रिx यम्बको महादेवो नृत्यते यस्य सन्निधौ ॥ ७ ॥
दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥ ८ ॥
साधकानां प्रयच्छन्त मन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्ते चोत्थाय ध्यायेद्देवमधोक्षजम् ॥ ९ ॥
अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं सु ।
ललितदधिखण्डं पा णिना दक्षिणेन ॥ १० ॥
कलशममृतपूर्णं वामहस्ते दधानं त ।
रति सकलदुःखं वा मनं भावयेद्यः क्षीरमन्नमन्नदाता ॥ ११ ॥
लभेदन्नाद एव च । पुरस्तादन्नमामोति ।
पुनरावर्तिवृत्तिव र्जितम् ॥ १२ ॥
आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदः ।
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥ १३ ॥
अक्लेशादन्नसिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ।
अभ्रश्यामः शुभ्रयज्ञो पवीती सत्कौपीनः ॥ १४ ॥
पीतकृष्णाजिनश्रीः । छ त्री दण्डी पुण्डरीकाय ।
ताक्षः पायाद्देवो वाम नो ब्रह्मचारी ॥ १५ ॥
अजिनदण्डकमण्ड लुमेखलारुचिरपा ।
वनवामनमूर्तये । मितजगत्रितयाय ॥ १६ ॥
जितारये निगमवा क्पटवे बटवे नमः ।
श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ॥ १७ ॥
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रद ।
म् वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ॥ १८ ॥
वामनस्तारकोभाभ्यां ।
वामनाय नमो नमः ॥ १९ ॥
॥ इति श्रीदधिवामनस्तोत्रम् ॥