📚 टीकाकृत्पादाष्टकम्
📚 टीकाकृत्पादाष्टकम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीटीकाकृत्पादाष्टकम् योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो- भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः । टी । काऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति छि न्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ १ ॥ ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः । भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् किं ॥ २ ॥ ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो क्षो भ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे । भूताना । गतवेदिनेति चतुरैः कैश्चिन्निजैश्चोदितः छिन्द्याच्छ्री जयनाकिराण्मम दयावज्रेण पापाचलम् इत्येवं ॥ ३ ॥ बहुधा वशीकृतमना गत्वा समीपं गुरो- र्नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव । श्रीरामं । सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः छिन्द्याच्छ्री जयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ४ ॥ इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः । व्याजहे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् भोस्त्वं ॥ ५ ॥ श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात् तस्यै वेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा । आदि । ष्टो गुरुणा जयेति गदितख्यष्टादशग्रन्थकृत् छिन्द्या च्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ६ ॥ तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराङ्केकिनो यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च । नानादुर्म । तखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे छिन्द्याच्छ्रीजयना किराण्मम दयावज्रेण पापाचलम् विद्यारण्यजयं ॥ ७ ॥ शृगालमठगः स्तम्भो यदीयः स्फुटं वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः । वृष्टि । ग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहा त् छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ८ ॥ इत्येतद्गुरुजालबालरचितं भक्त्या पठन्नष्टकं कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम् । नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यरा ट्- नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन् अश्वत्थं ॥ ९ ॥ च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन् सद्यः पा पविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः । यो वा दी । नमना अनन्यशरणो भक्त्याऽलसो मादृशः सिद्धिं या ति ततोऽधिकां बुधजनः साक्षात् सुधा साक्षिणी ॥ १० ॥ ॥ इति गुर्जाला बाळाचार्यकृत श्रीटीकाकृत्पादाष्टकम् ॥