📚 जयतीर्थस्तुतिः
📚 जयतीर्थस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीजयतीर्थस्तुतिः घाटी श्रीजयतीर्थवर्यवचसां चेटीभवत्स्वर्धुनी- पाटीरानिलपुल्लमल्लिसुमनोवाटीलसद्वासना । पेटी युक्तिमणिश्रियां सुमतिभिः कोटीरकैः श्लाघिता सा टीका निचयात्मिका मम चिरादाटीकतां मानसे ॥ १ ॥ टीकाकृज्जयवर्य संसदि भवत्येकान्ततो राजति प्राकाम्यं दधते पलायनविधौ स्तोकान्यशङ्का द्विषः । लोकान्धीकरणक्षमस्य तमसः सा कालसीमा यदा पाकारातिदिशि प्ररोहति न चेद्राकानिशाकामुकः ॥ २ ॥ छायासंश्रयणेन यच्चरणयोरायामिसांसारिका- पायानल्पतमातपव्यतिकरव्यायामविक्षोभिताः । आयान्ति प्रकटां मुदं बुधजना हेयानि धिक्कृत्य नः पायाच्छ्रीजयराट् दृशा सरसनिर्मायानुकम्पार्द्रया ॥ ३ ॥ श्रीवाय्वंशसुवंशमौक्तिकमणेः सेवाविनम्रक्षमा- देवाज्ञानतमोविमोचनकलाजैवातृकश्रीनिधेः । शैवाद्वैतमताटवीकवलनादावाग्निलीलाजुषः को वादी पुरतो जयीश्वर भवेत् ते वादिकोलाहले ॥ ४ ॥ नीहारच्छविबिम्बनिर्गतकरव्यूहाप्लुतेन्दूपला- नाहार्यस्रुतनूतनामृतपरीवाहालिवाणीमुचः । ऊहागोचरगर्वपण्डितपयोवाहानिलश्रीजुषो माहात्म्यं जयतीर्थवर्य भवतो व्याहारमत्येति नः ॥ ५ ॥ वन्दारुक्षितिपालमौलिविलसन्मन्दारपुष्पावली- मन्दान्यप्रसरन्मरन्दकणिकावृन्दार्द्रपादाम्बुजः । कुन्दाभामलकीर्तिरार्तजनतावृन्दारकानोकहः स्वं दासं जयतीर्थराट् स्वकरुणासन्धानितं मां क्रियात् ॥ ६ ॥ श्री दाराङ्घ्रिनतः प्रतीपसुमनोवादाहवाटोपनि- र्भेदातन्द्रमतिः समस्तविबुधामोदावलीदायकः । गोदावर्युदयत्तरङ्गनिकरहीदायिगम्भीरगीः पादाब्जप्रणते जयी कलयतु स्वे दासवर्गेऽपि माम् ॥ ७ ॥ विद्यावारिजषण्डचण्डकिरणो विद्यामदक्षोदयद्वाद्यालीकदलीभिदामरकरीहृद्यात्मकीर्तिक्रमः । पद्या बोधततेर्विनम्रसुरराडुद्यानभूमीरुहो दद्याच्छ्रीजयतीर्थराट् धियमुतावद्यानि भिन्द्यान्मम ॥ ८ ॥ आभासत्वमियाय तार्किकमतं प्राभाकरप्रक्रिया शोभां नैव बभार दूरनिहिता वैभाषिकाद्युक्तयः । ह्रीभारेण नताश्च सङ्करमुखाः क्षोभाकरो भास्करः श्रीभाष्यं जययोगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥ ९ ॥ बन्धानः सरसार्थशब्दविलसद्बन्धाकराणां गिरा- मिन्धानोऽर्कविभापरीभवझरीसन्धायिना तेजसा । रुन्धानो यशसा दिशः कविशिरः सन्धार्यमाणेन मे सन्धानं स जयी प्रसिद्ध हरिसम्बन्धागमस्य क्रियात् ॥ १० ॥ सङ्ख्यावद्गुणगीयमानचरितः साङ्ख्याक्षपादादिनिः- सङ्ख्याऽसत्समयिप्रभेदपटिमाप्रख्यातविख्यातिगः । मुख्यावासगृहं क्षमादमदयामुख्यामलश्रीधुरां व्याख्याने कलयेद्रतिं जयवराभिख्याधरो मद्गुरुः ॥ ११ ॥ आसीनो मरुदंशदाससुमनोनासीरदेशे क्षणा- द्दासीभूतविपक्षवादिविसरः शासी समस्तैनसाम् । वासी हृत्सु सतां कलानिवहविन्यासी ममानारतं श्रीसीतारमणार्चकः स जयराडासीदतां मानसे ॥ १२ ॥ पक्षीशासनपादपूजनरतः कक्षीकृतोद्यद्दयो लक्ष्यीकृत्य सभातले रटदसत्पक्षीश्वरानक्षिपत् । अक्षीणप्रतिभाभरो विधिसरोजाक्षीविहाराकरो लक्ष्मीं नः कलयेज्जयी सुचिरमध्यक्षीकृतक्षोभणाम् ॥ १३ ॥ येनाऽगाहि समस्तशास्त्रपृतनारत्नाकरो लीलया येनाऽखण्डि कुवादिसर्वसुभटस्तोमो वचः सायकैः । येनाऽस्थापि च मध्वशास्त्रविजयस्तम्भो धरामण्डले तं सेवे जयतीर्थवीरमनिशं मध्वाख्यराजादृतम् ॥ १४ ॥ यदीयवाक्तरङ्गाणां विप्लुषो विदुषां गि रः । जयति श्रीधरावासः जयतीर्थसुधा । करः सत्यप्रिययतिप्रोक्तं श्रीजयार्यस्त वं शुभम् । पठन् सभासु विजयी लोकेषूत्तमतां व्रजेत् ॥ १५ ॥ ॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुतिः ॥