अथ गुरुस्तोत्रम्
समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकम् ।
निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपङ्कजे ॥ १ ॥
गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
गुरुरेव परो बन्धु र्गुरुरेव परः स्मृतः ॥ २ ॥
गुरुरेव महापापं ।
क्षपयत्यात्मभावतः । ' श्रीगुरुभ्यो नम' ॥ ३ ॥
इति गुरुमन्त्रं जपेत यः
गुरुभक्त्या विनाशः स्या द्दोषस्यापि गरीयसः ।
भविष्यति नवेत्येवं सन्दिग्धोग्धे निरयं ॥ ४ ॥
ब्रजेत् गुरुपादाम्बुजं ध्यायेद् गुरोर्नाम सदा ।
जपेत् । गुरोर्वा तु कथ येद् गुरोरन्यं न भावयेत् ॥ ५ ॥
गुरुपादौ च शिरसा मनसा वचसा तथा ।
यः स्मरेत्सततं भक्त्या सन्तुष्टस्तस्य केशवः ॥ ६ ॥
हरौ रुष्टे गुरुत्राता गुरौ रुष्टे न कश्चन ।
गुरुप्रसादात् सर्वेष्ट सिद्धिर्भवति नान्यथा ॥ ७ ॥
गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः ।
उत्थाने भोजने स्नाने ग्रन्थारम्भे विशेषतः ॥ ८ ॥
गुरुप्रसादो बलवा न् न तस्माद् बलवत्तरम् ।
यद्गुरुः सुप्रसन्नः स न् दद्यात् तन्नान्यथा भवेत् ॥ ९ ॥
शुभान् ध्यायन्ति ये कामा न् गुरुदेवप्रसादजान् ।
इतरानात्मपापोत्था न् तेषां विद्या फलिष्यति ॥ १० ॥
स्मृत्वा गुरुं पूर्वगुरु मादिमूलगुरूंस्तथा ।
देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥ ११ ॥
ज्ञानादृते नैव मुक्ति र्ज्ञानं नैव गुरोर्विना ।
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ॥ १२ ॥
तत्र भागवतान् धर्मा न् शिक्षेद् गुर्वात्मदैवतः ।
अमाययानुवृत्या च तुष्येदात्मात्मदो हरिः ॥ १३ ॥
अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनाम् ।
ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥ १४ ॥
अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ ।
ऐहिकं हसते सौख्यं दुःखं नारकमेधते ॥ १५ ॥
यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् ।
तेन तत् सफलं प्रोक्त मन्यथा निष्फलं भवेत् ॥ १६ ॥
गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकम् ।
तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ॥ १७ ॥
गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मृतम् ।
दोषदृष्टिरनर्थाये त्युमामाह सदाशिवः ॥ १८ ॥
अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनाम् ।
दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥ १९ ॥
सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर ।
न गुरोरधिकं किञ्चि त् पुरुषार्थचतुष्टये ॥ २० ॥
साधनं विद्यते देवि गुरोराज्ञां न लङ्घयेत् ।
देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥ २१ ॥
पिता माता तथा भ्राता सर्वे संसारहेतवः ।
गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥ २२ ॥
गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने ।
मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियम् ॥ २३ ॥
सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च ।
यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥ २४ ॥
शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।
गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥ २५ ॥
आचार्यस्य प्रियं कुर्या द् प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा स याति परमां गतिम् ॥ २६ ॥
न स्नानसन्ध्ये न च पा दसेवनं हरेर्न चा ।
र्चा विधिना मया कृता । निष्कारणं मे ॥ २७ ॥
गतमायुरल्पकं त स्माद् गुरो मां कृपया स ।
मुद्धर कर्मणा मन सा वाचा या चेष्टा मम नित्यशः ॥ २८ ॥
केशवाराधने सा स्या ज्जन्मजन्मान्तरेष्वपि ।
मादृशो न परः पापी त्वादृशो न दयापरः ॥ २९ ॥
इति मत्वा जगन्नाथ रक्ष मां शरणागतम्
कायेन वाचा मनसेन्द्रियैर्वा
बुध्यात्मना वानुसृतः स्वभावम् ।
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत् ॥ ३० ॥
॥ इति श्रीगुरुस्तोत्रम् ॥