📚 गुरुस्तोत्रम्
📚 गुरुस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ गुरुस्तोत्रम् समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकम् । निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपङ्कजे ॥ १ ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः । गुरुरेव परो बन्धु र्गुरुरेव परः स्मृतः ॥ २ ॥ गुरुरेव महापापं । क्षपयत्यात्मभावतः । ' श्रीगुरुभ्यो नम' ॥ ३ ॥ इति गुरुमन्त्रं जपेत यः गुरुभक्त्या विनाशः स्या द्दोषस्यापि गरीयसः । भविष्यति नवेत्येवं सन्दिग्धोग्धे निरयं ॥ ४ ॥ ब्रजेत् गुरुपादाम्बुजं ध्यायेद् गुरोर्नाम सदा । जपेत् । गुरोर्वा तु कथ येद् गुरोरन्यं न भावयेत् ॥ ५ ॥ गुरुपादौ च शिरसा मनसा वचसा तथा । यः स्मरेत्सततं भक्त्या सन्तुष्टस्तस्य केशवः ॥ ६ ॥ हरौ रुष्टे गुरुत्राता गुरौ रुष्टे न कश्चन । गुरुप्रसादात् सर्वेष्ट सिद्धिर्भवति नान्यथा ॥ ७ ॥ गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः । उत्थाने भोजने स्नाने ग्रन्थारम्भे विशेषतः ॥ ८ ॥ गुरुप्रसादो बलवा न् न तस्माद् बलवत्तरम् । यद्गुरुः सुप्रसन्नः स न् दद्यात् तन्नान्यथा भवेत् ॥ ९ ॥ शुभान् ध्यायन्ति ये कामा न् गुरुदेवप्रसादजान् । इतरानात्मपापोत्था न् तेषां विद्या फलिष्यति ॥ १० ॥ स्मृत्वा गुरुं पूर्वगुरु मादिमूलगुरूंस्तथा । देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥ ११ ॥ ज्ञानादृते नैव मुक्ति र्ज्ञानं नैव गुरोर्विना । तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ॥ १२ ॥ तत्र भागवतान् धर्मा न् शिक्षेद् गुर्वात्मदैवतः । अमाययानुवृत्या च तुष्येदात्मात्मदो हरिः ॥ १३ ॥ अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनाम् । ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥ १४ ॥ अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ । ऐहिकं हसते सौख्यं दुःखं नारकमेधते ॥ १५ ॥ यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् । तेन तत् सफलं प्रोक्त मन्यथा निष्फलं भवेत् ॥ १६ ॥ गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकम् । तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ॥ १७ ॥ गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मृतम् । दोषदृष्टिरनर्थाये त्युमामाह सदाशिवः ॥ १८ ॥ अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनाम् । दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥ १९ ॥ सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर । न गुरोरधिकं किञ्चि त् पुरुषार्थचतुष्टये ॥ २० ॥ साधनं विद्यते देवि गुरोराज्ञां न लङ्घयेत् । देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥ २१ ॥ पिता माता तथा भ्राता सर्वे संसारहेतवः । गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥ २२ ॥ गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने । मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियम् ॥ २३ ॥ सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च । यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥ २४ ॥ शरीरं वसु विज्ञानं वासः कर्म गुणानसून् । गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥ २५ ॥ आचार्यस्य प्रियं कुर्या द् प्राणैरपि धनैरपि । कर्मणा मनसा वाचा स याति परमां गतिम् ॥ २६ ॥ न स्नानसन्ध्ये न च पा दसेवनं हरेर्न चा । र्चा विधिना मया कृता । निष्कारणं मे ॥ २७ ॥ गतमायुरल्पकं त स्माद् गुरो मां कृपया स । मुद्धर कर्मणा मन सा वाचा या चेष्टा मम नित्यशः ॥ २८ ॥ केशवाराधने सा स्या ज्जन्मजन्मान्तरेष्वपि । मादृशो न परः पापी त्वादृशो न दयापरः ॥ २९ ॥ इति मत्वा जगन्नाथ रक्ष मां शरणागतम् कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वानुसृतः स्वभावम् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ३० ॥ ॥ इति श्रीगुरुस्तोत्रम् ॥