अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ।
श्रीशेष उवाचॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासि गदाशङ्खाद्युदायुधः ॥ २ ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥
पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दः सच्चिदानन्दविग्रहः ॥ ४ ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥
षोडशस्त्रीसहस्रेश स्त्रिभङ्गी मधुराकृतिः ।
शुकवागमृताब्धीन्दु र्गोविन्दो योगिनां पतिः ॥ ६ ॥
वत्सपादहरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥
इळापतिः परञ्ज्योति र्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः काम जनकः कञ्जलोचनः ॥ १० ॥
मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तःसञ्चारी तुलसीदामभूषणः ॥ ११ ॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जागन्धानुलिप्ताङ्गो मायी परमपूरुषः ॥ १२ ॥
मुष्टिकासुरचाणूर मल्लयुद्धविशारदः ।
संसारवैरी कंसारि र्मुरारिर्नरकान्तकः ॥ १३ ॥
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥
सुभद्रापूर्वजो विष्णु र्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥
वृषभासुरविध्वंसी बाणासुरकरान्तकः ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणमाणिक्य रञ्जित श्रीपदाम्बुजः ॥ १८ ॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ।
नारायणः परं ब्रह्म पन्नगाशनवाहनः ॥ १९ ॥
जलक्रीडासमासक्त गोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥
सर्वतीर्थात्मकः सर्व ग्रहरूपी परात्परः ।
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥
कृष्णेन कृष्णभक्तानां गीतं गीतामृतं पुरा ।
स्तोत्रं कृष्णप्रियतमं श्रुतं तस्मान्मया परम् ॥ २२ ॥
कृष्णनामामृतं नाम परमानन्दकारणम् ।
ईतिबाधादिदुःखघ्नं परमायुष्यवर्धनम् ॥ २३ ॥
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ।
जपतां शृण्वतामेत त् कोटिकोटिगुणं भवेत् ॥ २४ ॥
पुत्रप्रदमपुत्राणा मगतीनां गतिप्रदम् ।
धनावहं दरिद्राणां जयेच्छूनां जयावहम् ॥ २५ ॥
शिशूनां गोकुलानां च पुष्टिदं पूर्णपुण्यदम् ।
बालरोगग्रहादीनां शमनं शान्तिमुक्तिदम् ॥ २६ ॥
समस्तकामदं सद्यः कोटिजन्माघनाशनम् ।
अन्ते कृष्णस्मरणदं भवतापभयापहम् ॥ २७ ॥
कृष्णाय यादवेन्द्राय ।
ज्ञानमुद्राय योगिने ॥ २८ ॥
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने
इमं मन्त्रं जपन् देवि व्रजंस्तिष्ठन् दिवानिशि ।
सर्वग्रहानुग्रहभा क् सर्वप्रियतमो नरः ॥ २९ ॥
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।
निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ३० ॥
॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥