अथ आमन्त्रणोत्सवस्तोत्रम्
आमन्त्रणं ते निगमोक्तमन्त्रैः
तन्त्रप्रवेशाय मनोहराय ।
श्रीरामचन्द्राय सुखप्रदाय
करोम्यहं त्वं कृपया गृहाण ॥ १ ॥
सत्याधिराजार्चितपादपद्म
श्रीमध्वसम्पूजित सुन्दराङ्ग ।
श्रीभार्गवीसन्नुतमन्दहास
श्रीव्यासदेवाय नमो नमस्ते ॥ २ ॥
अनन्तरूपैरजितादिभिश्च
परादिभिः श्रीबृहतीसहस्रैः ।
विश्वादिभिश्चैव सहस्ररूपैः
नारायणाद्यष्टशतैरजाद्यैः ॥ ३ ॥
एकाधिपञ्चाशदितैश्च रूपैः
श्रीकेशवाद्यैश्च चतुर्विंशैः ।
मत्स्यादिभिः स्वच्छदशस्वरूपैः
विश्वादिभिश्चाष्टभिरग्ररूपैः ॥ ४ ॥
तथाऽनिरुद्धादिचतुस्स्वरूपै
र्गोब्राह्मणश्रीतुलसीनिवासैः ।
मन्त्रेशरूपैः परमाणुपूर्व
संवत्सरान्तामलकालरूपैः ॥ ५ ॥
ज्ञानादिदैः स्थावरजङ्गमस्थैः
अव्याकृताकाशविहाररूपैः ।
नारायणाख्येन तथाऽनिरुद्ध
रूपेण सक्ष्मोदगतेन तुष्ट्यै ॥ ६ ॥
प्रद्युम्नसङ्कर्षणनामकाभ्यां
भोक्तृस्थिताभ्यां भुजिशक्तिदाभ्याम् ।
श्रीवासुदेवेन नभःस्थितेन
ह्यभीष्टदेनाखिलसद्गुणेन ॥ ७ ॥
अश्वादिसद्यानगतेन नित्य
मारूढरूपेण सुसौख्यदेन ।
विश्वेन जाग्रद्विनियामकेन
स्वमस्थपालेन च तैजसेन ॥ ८ ॥
प्राज्ञेन सौषुप्तिकपालकेन
तुर्येण मूर्ध्नि स्थितियुक्परेण ।
आत्मान्तरात्मेत्यभिधेन हृत्स्थ
रूपद्वयेनाखिलसारभोक्रा ॥ ९ ॥
हृत्पद्ममूलाग्रगसर्वगैश्च
रूपत्रयेणाखिलशक्तिभाजा ।
कृद्धोल्करूपैर्हृदयादिसंस्थैः
प्राणादिगैरन्नमयादिगैश्च ॥ १० ॥
इलावृताद्यामलखण्डसंस्थैः
लक्षादिसद्वीपसमुद्रधिष्ण्यैः ।
मेरुस्थकिंस्तुघ्नगकालचक्र
ग्रहग्रहानुग्रहिभिश्च लोकैः ॥ ११ ॥
नारायणीपूर्ववधूरुरूपै
स्त्रिधामभिर्भासुरधामभिश्च ।
श्रीमूलरामप्रतिमादिसंस्थ
श्रीरामचन्द्राखिलसद्गुणाब्धे ॥ १२ ॥
सीतापते श्रीपरमावतार
मायादिभिर्ब्रह्ममुखैश्च देवैः ।
दिक्पालकैस्साकमनन्तसौख्य
सम्पूर्णसद्भक्तदयाम्बुराशे ॥ १३ ॥
सत्याधिराजार्यहृदब्जवास श्रीमध्वहृत्पङ्क
जकोशवास । श्रीसत्प्रमोदार्यहृदब्जवास श्री ।
मध्वहृत्पङ्कजकोशवास । मद्विम्बरूपेण भ
वैक्यशाली चामन्त्रितस्त्वद्य नमो नमस्ते ॥ १४ ॥
वराक्षतान् काञ्चनमुद्रिकाश्च
मन्त्रेण हेम्नश्चषके निधाय ।
सीतापते ते पुरतश्श्रुतेस्तु
प्रदध्युरेवं भगवत्स्वरूपम् ॥ १५ ॥
हिरण्यरूपस्स हिरण्यसंदृ
गपां नपात् सेदु हिरण्यवर्णः ।
हिरण्ययात् परि योनेर्निषद्या
हिरण्यदा ददत्यन्नमस्मै ॥ १६ ॥
वसिष्वोत्तमवस्त्राणि भूषणै
रप्यलङ्कुरु । कुर्वन्नुत्सवम ।
त्यन्तमस्मदीयं मखं यज व
स॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूज पते ॥ १७ ॥
सेमं नो अध्व॒रं य॑ज । ऋ... आमन्त्रि
तोऽसि देवेश पुराणपुरुषोत्त ।
म । मन्त्रेशैर्लोकपालैश्च सार्धं दे
वगणैः श्रिया त्रिकालपूजासु ॥ १८ ॥
दयार्द्रदृष्ट्या मयार्पि तं चार्हणमाशु सत्वम् ।
गृहाण लोकाधिपते रमेश ममापराधान् सकलान् क्षमस्व ॥ १९ ॥
श्रीमत्सत्यप्रमोदार्य हृन्निवास्यनिलेशिता ।
सत्यज्ञानानन्तगुणः प्रीयतां बादरायणः ॥ २० ॥
॥ इति आमन्त्रणोत्सवस्तोत्रम् ॥