स्तोत्ररत्नम्
←

Stotraratnam Sanskrit PDF & Online Reader (स्तोत्ररत्नम्)

Stotraratnam (स्तोत्ररत्नम्) by Yamunacharya (यामुनाचार्यः) — Sanskrit Text & PDF Download

📜 Last Proofread: 05 Aug 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 05 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
स्तोत्ररत्नं अथवा आलवन्दारस्तोत्रम् स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥ नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः ॥ नमो यामुनपादाब्जरेणुभिः पावितात्मने । विदिताखिल वेद्याय गुरवे विदितात्मने ॥ नमोऽचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ १॥ तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥ २॥ भूयो नमोऽपरिमिताच्युतभक्तितत्त्व- ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः । लोकेऽवतीर्णपरमार्थसमग्रभक्ति- योगाय नाथमुनये यमिनां वराय ॥ ३॥ तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः । सन्दर्शयन्निरममीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ ४॥ माता पिता युवतयस्तनया विभूतिस्सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ५॥ यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मि- न्नस्मन्मनोरथपथस्सकलस्समेति । स्तोष्यामि नः कुलधनं कुलदैवतं त- त्पादारविन्दमरविन्दविलोचनस्य ॥ ६॥ तत्त्वेन यस्य महिमार्णवशीकराणु- श्शक्यो न मातुमपि शर्वपितामहाद्यैः । कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ ७॥ यद्वा श्रमावधि यथामति वाप्यशक्त- स्स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः । वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ॥ ८॥ किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्य- स्स्तोतापि तु स्तुतिकृतेन परिश्रमेण । तत्र श्रुमस्तु सुलभो मम मन्दबुद्धे- रित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥ ९॥ नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः । एवं निसर्गसुहृदि त्वयि सर्वजन्तो- स्स्वामिन्विचित्रमिदमाश्रितवत्सलत्वम् ॥ १०॥ स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडि- त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥ ११॥ कश्श्रीश्श्रियः परमसत्त्वसमाश्रयः कः कः पुण्डरीकनयनः पुरुषोत्तमः कः । कस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥ १२॥ वेदापहारगुरुपातकदैत्यपीडा- द्यापद्विमोचनमहिष्ठफलप्रदानैः । कोऽन्यः प्रजापशुपती परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधृतेन ॥ १३॥ कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः । क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति शक्यशङ्कः ॥ १४॥ त्वां शीलरूपचरितैः परमप्रकृष्ट- सत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः । प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥ १५॥ उल्लङ्घितत्रिविधसीमसमातिशायि- सम्भावनं तव परिव्रढिमस्वभावम् । मायाबलेन भवताऽपि निगूह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥ १६॥ यदण्डमण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च । गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥ १७॥ वशी वदान्यो गुणवानृजुश्शुचिर्मृदुर्दयालुर्मधुरस्स्थिरस्समः । कृती कृतज्ञस्त्वमसि स्वभावतस्समस्तकल्याणगुणामृतोदधिः ॥ १८॥ उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतमित्यनुक्रमात् । गिरस्त्वदेकैकगुणावधीप्सया सदास्थिता नोद्यमतोऽतिशेरते ॥ १९॥ त्वदाश्रितानां जगदुद्भवस्थितिप्रणाशसंसारविमोचनादयः । भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ॥ २०॥ नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये । नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ २१॥ न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे । अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ २२॥ न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि । सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३॥ निमज्जतोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः । त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥ २४॥ अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् । किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥ २५॥ निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम् । रूषा निरस्तोऽपि शिशुस्स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ २६॥ तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ २७॥ त्वदङ्घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वाऽपि सकृत्कृतोऽञ्चलिः । तदैव मुष्णात्यशुभान्यशेषतश्शुभानि पुष्णाति न जातु हीयते ॥ २८॥ उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्व्याप्य परां च निर्वृतिम् । प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥ २९॥ विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् । धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ॥ ३०॥ कदा पुनश्शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् । त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ ३१॥ विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् । निमग्ननाभिं तनुभध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२॥ चकासतं ज्याकिणकर्कशैश्शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः । प्रियावतंसोत्पलकर्णभूषणश्लधालकाबन्धविमर्दशंसिभिः ॥ ३३॥ उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् । मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ ३४॥ प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् । शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ ३५॥ स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्जीगुणनूपुरादिभिः । रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्यावनमालयोज्ज्वलम् ॥ ३६॥ चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः । जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ ३७॥ स्ववैश्वरूप्येण सदाऽनुभूतयाप्यपूर्ववद्विस्मयमादधानया । गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया ॥ ३८॥ तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि । फणामणित्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ ३९॥ निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्यते जनैः ॥ ४०॥ दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना ॥ ४१॥ var त्वदङ्घ्रिसंस्पर्शसुखैककामिना त्वदीयभुक्तोज्झितशेषभोजिना त्वया निवृष्टात्मभरेण यद्यथा । प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥ ४२॥ हताखिलक्लेशमलैस्स्वभावतस्सदानुकूल्यैकरसैस्तवोचितैः । गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितम् ॥ ४३॥ अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया । क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ ४४॥ अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् । श्रियश्श्रियं भक्तजनैकजीवितं समर्थमापत्सस्खमर्थिकल्पकम् ॥ ४५॥ भवन्तमेवानुचरन्निरन्तरप्रशान्तनिश्शेषमनोरथान्तरः । कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६॥ धिगशुचिमविनीतं निर्दयं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः । विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ ४७॥ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ ४८॥ अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि । भगवन्भवदुर्दिने पथस्खलितं मामवलोकयाच्युत ॥ ४९॥ न मृषा परमार्थमेव मे श‍ृणु विज्ञापनमेकमग्रतः । यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥ ५०॥ तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च । विधिनिर्मितमेतदन्यं भगवन्पालय मा स्म जैह्म्यया ॥ ५१॥ वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः । तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥ ५२॥ मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव । नियतस्वमिति प्रबुद्धधीरथवा किन्नु समर्पयामि ते ॥ ५३॥ अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् । कृपयैवमनन्यभोग्यतां भगवन्भक्तिमपि प्रयच्छ मे ॥ ५४॥ तवदास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे । इतरावसथेषु मास्म भूदपि मे जन्म चतुर्मुखात्मना ॥ ५५॥ सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः । महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६॥ न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् । बहिर्भूतं नाथ क्षणमपि सहे यातु शतथा विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥ ५७॥ दुरन्तस्यानादेरपरिहरणीयस्य महतो विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि । दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे । तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥ ५८॥ अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज- स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् । तथापीत्थं रूपं वचनमवलम्ब्यापि कृपया त्वमेवैवं भूतं धरणिधर मे शिक्षय मनः ॥ ५९॥ पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृ- त्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् । त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥ ६०॥ जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् । निसर्गादेव त्वच्चरणकमलैकान्तमनसा- मधोधः पापात्मा शरणद निमज्जामि तमसि ॥ ६१॥ अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः । नृशंसः पापिष्टः कथमहमितो दुःखजलधे- रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२॥ रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः । प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभू- र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ६३॥ ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः । तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥ ६४॥ अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् । पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥ ६५॥ यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयां नमामितम् ॥ ६६॥ ॥ इति श्रीमद्यामुनमुनिविरचितं श्रीआलवन्दारस्तोत्ररत्नं सम्पूर्णम् ॥ Encoded by Rajnarayanan C K krajnara at gmail.com
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 05 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine