अथ श्रीसत्याभिज्ञतीर्थस्तोत्रम्
सत्यध्यानाप्तसद्विद्यः सत्यप्रज्ञकराब्जजः ।
सत्यप्रमोदसुगुरुः सत्याभिज्ञोऽवतात्सदा ॥ १ ॥
जिग्ये पद्मावतीक्षेत्रे महामीमांसकं तु यः ।
गुर्वनुग्रहसामर्थ्या त् सत्याभिज्ञोऽवतात्सदा ॥ २ ॥
सिन्धौ निमज्जमाना नौः रामपेटिकया युता ।
रक्षिता यत्तपःशक्त्या सत्याभिज्ञोऽवतात्सदा ॥ ३ ॥
नवरात्रे कुम्भकोणे नारीं भूतादमूमुचत् ।
तीर्थाक्षतादिदानेन सत्याभिज्ञोऽवतात्सदा ॥ ४ ॥
ज्ञानभक्तिदयाक्षान्ति विनयादिविभूषितः ।
शान्तमूर्तिः परगुरुः सत्याभिज्ञोऽवतात्सदा ॥ ५ ॥
सत्यात्मभिक्षुरचितं गुरुस्तोत्रं पठेत्तु यः ।
सर्वाभीष्टमवाप्नोति गुर्वनुग्रहशक्तितः ॥ ६ ॥
॥ इति श्रीसत्याभिज्ञतीर्थस्तोत्रम् ॥