📚 सत्यसंतुष्टतीर्थस्तुतिः
📚 सत्यसंतुष्टतीर्थस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्यसंतुष्टतीर्थस्तुतिः सत्ये नारायणे तुष्टो भक्तिभारे ण यः सदा सत्यसंतुष्टनामानं । यतिराजं तमाश्रये असंतुष्टो हि सत्यां यो वैराग्याधिक्यतः सदा ॥ १ ॥ सत्यसंतुष्टनामानं यतिराजं तमाश्रये सत्यं यः स्थापयन् वादे । संतुष्टो वृषवद्बली सत्यसंतु ष्टनामानं यतिराजं तमाश्रये ॥ २ ॥ सत्ये सात्यवतेयोक्ते संतुष्टो यः सदा सुधीः सत्यसंतुष्टनामानं । यतिराजं तमाश्रये सत्यपूर्वे तु संकल्पे संतुष्टः स्वगुरौ च यः ॥ ३ ॥ सत्यसंतुष्टनामानं यतिराजं तमाश्रये श्रीसत्यात्मकृतेयं श्री । पंचपद्यी सुखप्रदा पठतां शृ ण्वतां चैव भक्तानां नात्र संशयः ॥ ४ ॥ ॥ इति श्रीसत्यसंतुष्टतीर्थस्तुतिः ॥