📚 सत्यबोधस्तोत्रम्
📚 सत्यबोधस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्यबोधस्तोत्रम् श्रीसत्यबोधो निजकामधेनु मायातमः खण्डनचण्डभानुः । दुरन्तपापप्रदहे कृशानु देयान्ममेष्टं गुरुराजसूनुः ॥ १ ॥ श्रीसत्यबोधेतिपदाभिधानः सदा विशुद्धात्मधिया समानः । समस्तविद्वन्निचयप्रधानो देयान्ममेष्टं विबुधान् दधानः ॥ २ ॥ रमाधिनाथार्हणवाणिजानिः स्वभक्तसम्प्रापितदुःखहानिः । लसत्सरोजारुणनेत्रपाणि देयान्ममेष्टं शुभदैकवाणिः ॥ ३ ॥ भक्तेषु विन्यस्तकृपाकटाक्षो दुर्वादिविद्रावणदक्षदीक्षः । समीहितार्थार्पणकल्पवृक्षो देयान्ममेष्टं कृतसर्वरक्षः ॥ ४ ॥ श्रीमध्वदुग्धाब्धिविवर्धचन्द्रः समस्तकल्याणगुणैकसान्द्रः । निरन्तराराधितरामचन्द्रो देयान्ममेष्टं सुधियां महेन्द्रः ॥ ५ ॥ निरन्तरं यस्तु पठेदिमां शु भां श्री श्रीनिवासार्पितपञ्चप । द्यीम् । तस्य प्रसीदेत् गुरुराजहृ द्गः सीतासमेतो नितरां रघूत्तमः ॥ ६ ॥ ॥ इति श्रीनिवासाचार्य जगन्नाथदास कृतं श्रीसत्यबोधस्तोत्रम् ॥