अथ श्रीसत्यप्रमोदतीर्थस्तुतिः
सत्याभिज्ञकराब्जोत्था न् पञ्चाशद्वर्षपूजकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १ ॥
सुधापण्डितनिर्मातॄ न् सुधापण्डितपोषकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २ ॥
पञ्चाशद्वर्षपर्यन्तं मूलरामपदार्चकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ३ ॥
व्यासाशाजेतृरामादि महापचितिभूषितान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ४ ॥
भारतादिमहाशास्त्र पारायणपरायणान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ५ ॥
सुवर्णरजतागार महादानादितत्परान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ६ ॥
आसेतोरातुषाराद्रे स्तीर्थयात्राविधायकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ७ ॥
विशीर्णजीर्णबहुल भवनोद्धारकारकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ८ ॥
नूतनानेकभवन स्थापकान् भुवि सादरम् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ९ ॥
दुर्मिळप्राच्यसद्ग्रन्थ सङ्ग्राहकधुरन्धरान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १० ॥
अर्चारहितसारार्चा सारार्चनसुदीक्षितान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ ११ ॥
विष्णुपञ्चकसत्काष्ठ मौनादिव्रतपावनान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १२ ॥
तन्त्रसारोक्तनिश्शेष मन्त्रावर्तनवर्तनान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १३ ॥
दुर्वादिमत्तकुम्भीन्द्र कुम्भभेदविशारदान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १४ ॥
महाभारतनिर्णीति शतावृत्तिसमुद्भवान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १५ ॥
आयुरारोग्यसद्विद्या सम्पत्सन्ततिभाग्यदान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १६ ॥
हीरहाटकतारादि भूषणादिसमर्पकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १७ ॥
वैराग्यभाग्यान् वैराग्य भाग्यान् वैराग्यतर्पितान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १८ ॥
तपसा निर्जिताशेष बाह्याभ्यन्तरशात्रवान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ १९ ॥
गुणाचारैकसद्धाम करुणावरुणालयान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २० ॥
प्रत्येकपदपद्यादि प्रभूतार्थप्रकाशकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २१ ॥
वाचा प्रसन्नगाम्भीर्य युतया जनबोधकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २२ ॥
तपःपुण्यनिधीन् शान्ति दमादिगुणवारिधीन् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २३ ॥
श्रीनिवास श्रीनिवास तीर्थदर्शनतीर्थितान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २४ ॥
स्थापकान् जयतीर्थीय विद्यापीठस्य तापसान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २५ ॥
सत्यप्रमोदनिधिना सत्यामोदप्रदान् निधीन् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २६ ॥
स्वरूपोद्धारकृद्वर्या न् सत्स्वरूपोपदेशकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २७ ॥
तीर्थभक्तिसुसम्पूर्णा न् तीर्थभक्तिप्रदान् प्रदान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २८ ॥
मन्त्रमुद्रादिदानेन विष्णुदीक्षाप्रदायकान् ।
सत्यप्रमोदतीर्थार्या न् नौमि न्यायसुधारतान् ॥ २९ ॥
सत्यात्मभिक्षुरचिता स्तुतिर्ज्ञानादिवृद्धिदा ।
पठतां शृण्वतां चैव श्रद्धया गुर्वनुग्रहात् ॥ ३० ॥
॥ इति श्रीसत्यप्रमोदतीर्थस्तुतिः ॥