📚 सत्यज्ञानतीर्थस्तुतिः
📚 सत्यज्ञानतीर्थस्तुतिः
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्यज्ञानतीर्थस्तुति: ज्ञानसम्पूर्णवाराशिं भक्तिपूरितमानसम् । वैराग्यपूतमनसं सत्यज्ञानमहं भजे ॥ १ ॥ शलाकारीतिमाश्रित्य सुधां पद्मावतीस्थले । प्रोक्तवन्तं विद्वदग्रे सत्यज्ञानमहं भजे ॥ २ ॥ सदा मारुतसच्छास्त्र पाठप्रवचने रतम् । विद्वन्निर्माणकर्तारं सत्यज्ञानमहं भजे ॥ ३ ॥ मूलरामं महाभक्त्या पूजयन्तं सविस्तरम् । नित्यं सहस्रनामाद्यैः सत्यज्ञानमहं भजे ॥ ४ ॥ वेङ्कटेशो यस्य कृते तिलकं न व्यदीधरत् । कर्णो न रथ आचाली त् सत्यज्ञानमहं भजे ॥ ५ ॥ बह्वाशित्वसमर्थोऽपि लघ्वाशी नियतं च यः । गोमयागतभोक्तारं सत्यज्ञानमहं भजे ॥ ६ ॥ देहापत्यकलत्रादि ष्वसक्तं ब्रह्मनिष्ठया । नित्यानित्यविवेकेन सत्यज्ञानमहं भजे ॥ ७ ॥ प्राणसंस्थापकं पद्मनाभादिगुरुसन्निधौ । रामहेन्द्रपुरावासं सत्यज्ञानमहं भजे ॥ ८ ॥ सत्यधीरकराब्जोत्थं सत्यध्यानोपदेशकम् । सत्यध्यानरतं नित्यं सत्यज्ञानमहं भजे ॥ ९ ॥ यलगूरे कोरवारे प्राणानुग्रहभाजनम् । रङ्गानृसिंहसद्भक्तं सत्यज्ञानमहं भजे ॥ १० ॥ सत्यात्मभिक्षुरचितं सत्यज्ञानप्रकाशकम् । भक्त्या पठन् ज्ञानभक्ति विरक्तीः प्राप्नुयाद् धृवम् ॥ ११ ॥ ॥ इति श्रीसत्यज्ञानतीर्थस्तुतिः ॥