अथ श्रीशगुणदर्पणम्
या सुगंधास्यनासादि नवद्वाराऽखिलेन या ।
दुराधर्षा सर्वसस्यो दयार्थं या करीषिणी ॥ १ ॥
या नित्यपुष्टा सर्वाङ्गैः सौन्दर्यादिगुणैरपि ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ २ ॥
मातर्लक्ष्मि नमस्तुभ्यं माधवप्रियभामिनि ।
युवां विश्वस्य पितरा वितरेतरयोगिनौ ॥ ३ ॥
समना किल मातस्त्वममुना ततयोगिनी ।
मम नाथेन नैव स्या विमनाश्चन स त्वयि ॥ ४ ॥
त्वं वेदमानिनी वेद वेद्यः किल स ते प्रियः ।
त्वं मूलप्रकृतिर्देवी स दिव्यपुरुषः किल ॥ ५ ॥
यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते ।
स त्वां नैवाच्युतः सर्व स्यात्यये सत्यपि त्यजेत् ॥ ६ ॥
देवि त्वं ललनारत्नं देवोऽसौ पुरुषोत्तमः ।
युवां युवानौ सततं युवयोर्न वयोऽधिकः ॥ ७ ॥
त्वं पद्मिनी पद्मवत्रा पद्माक्षी पद्मविष्टरा ।
पद्मद्वयकरा पद्म कोशाभस्तनशोभना ॥ ८ ॥
पद्महस्ता पद्मपादा पद्मनाभमनः प्रिया ।
पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥ ९ ॥
अम्बां पीताम्बर श्रोणीं लम्बालकलसन्मुखीम् ।
बिम्बाधरोष्ठीं कस्तूरी जम्बालतिलकां भजे ॥ १० ॥
रत्नोद्दीप्तसुमाङ्गल्य सूत्रावृतशिरोधराम् ।
कुण्डलप्रभयोद्दण्ड गण्डमण्डलमण्डिताम् ॥ ११ ॥
कुचकञ्चुकसञ्चारि हारानीकमनोहराम् ।
काञ्चीकिङ्किणिमञ्जीर कङ्कणाद्यैरलङ्कृताम् ॥ १२ ॥
सुवर्णमण्डपे रत्न चित्रसिंहासनोत्तमे ।
नमामि हरिणा साक मिन्दिरां कृतमन्दिराम् ॥ १३ ॥
ब्रह्माद्या विबुधश्रेष्ठा ब्रह्माण्याद्याः सुराङ्गनाः ।
यां पूजयन्ति सेवन्ते सा मां पातु रमा सदा ॥ १४ ॥
सर्वालङ्कारभरितौ सर्वसद्गुणमण्डितौ ।
शर्वादिसर्वभक्तौघ सर्वसम्पद्विधायकौ ॥ १५ ॥
सुमुखौ सुन्दरतरौ सुनासौ सुखचित्तनू ।
सुराराधितपादाब्जौ रमानारायणौ स्तुमः ॥ १६ ॥
चतुष्कपर्दा या देवी चतुरास्यादिभिः स्तुता ।
चतुर्वेदोदितगुणा चतुमूर्तेर्हरेः प्रिया ॥ १७ ॥
घृतप्रतीकां तां नित्यं घृतपूर्णा
न्नदायिनीम् । यथेष्टवित्तदात्री च ।
नतोऽस्म्यभयदा श्रियम् इमं स्तवं
पठन् मर्त्यः श्रीमान् स्यान्नात्र संशयः ॥ १८ ॥
॥ इति वादिराजतीर्थ विरचितं श्री श्रीशगुणदर्पणम् ॥