अथ शिवस्तुतिः
स्फुटं स्फटिकसप्रभं स्फुटितहाटक श्रीजटं
शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम
त् कदा तु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥
त्रिलोचन विलोचने लसति ते ललामायिते
स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।
स्वभक्तिलतया वशीकृतवती सतीयं सती
स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ॥ २ ॥
महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवा
न् अघोर रिपुघोर तेऽनवम वामदेवाञ्जलिः ।
नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः
प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ॥ ३ ॥
रसाघनरसानलानिलवियद्विवस्वद्विधु-
प्रष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्र ।
शान्तमुत भीषणं भुवनमोहनं चेत्यहो व
पूंषि गुणपुंषि तेऽहमहमात्मनोऽहं भिदे ॥ ४ ॥
विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं
पदं निगमवेदिनो जगति वामदेवादयः ।
कथञ्चिदुपशिक्षिता भगवतैव संविद्रते
वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥
कठोरितकुठारया ललितशूलया बाहया
रणमरया स्फुरद्धरिणया सखट्वाङ्गया । च ।
लाभिरचलाभिरप्यगणिताभिरुन्नृत्यतः च
तुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥
पुरत्रिपुररन्धनं विविधदैत्यविध्वंसनं
पराक्रमपरम्परा अपि परा न ते विस्मयः ।
अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयो-
ज्ज्वलज्वलन हेलया शलभितं हि लोकत्रयम् ॥ ७ ॥
सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुः
बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमामगुः प्रार्थिनां
भवान् सुरतरुर्दृशं दिश शिवां शिवावल्लभ तव ॥ ८ ॥
प्रियतमादतिप्रियतमं सदैवान्तरं पय
स्युपहितं घृतं स्वयमिव श्रियो वल्लभम् । विभि ।
द्य लघुबुद्धयः स्वपरपक्षलक्षायितं पठ
न्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९ ॥
विलासनिलयश्चिता तव शिरस्ततिर्मालिका
कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् ।
तथाऽपि भवतः पदं शिव शिवेत्यदो जल्पता-
मकिञ्चन न किञ्चन वृजिनमस्त्यभस्मीभवत् त्वमेव ॥ १० ॥
किल कामधुक् सकलकाममापूरयन् अपि त्रि
नयनः सदा वहसि चात्रिनेत्रोद्भवम् विषं वि ।
षधरान् दधत् पिबसि तेन चानन्दवान् विरुद्ध
चरितोचिता जगदधीश ते भिक्षुता नमः ॥ ११ ॥
शिव शिवाशिवाशिव शिवार्ध कृन्ताशिवं नमो
हर हराहराहरहरान्तरी मे दृशम् । नमो ।
भव भवाभव प्रभव भूतयो सम्पदां नमो
मृड नमो नमो नम उमेश तुभ्यं नमः सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात् प्रतिकृतात् सदा सोदिता ॥ १२ ॥
। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचसूरिसूनुः सुधीः
॥ इति श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः ॥