अथ व्यासगद्यम्
शुद्धानन्दोरुसंविद्द्युतिबलबहुलौदार्यवीर्यसौन्दर्यप्रागल्भ्यस्वा- तन्त्र्याद्यनन्तपूर्णगुणात्मकविग्रहाय । तादृशानन्तरूपाय । पारतन्त्र्याद्यशेषदोषदूराय । अनन्तानन्तरूपेषु स्वगतानन्तगुणक्रिया- रूपभेदविवर्जिताय । स्वनिर्वाहकस्वाभिन्नविशेषबलात् तद्वत्ता- व्यवहारभागिने । अचिन्त्यशक्तिसम्पन्नाय । रमाब्रह्मरुद्रेन्द्रादि- सकलजीवजडात्मकप्रपञ्चादत्यन्तभिन्नस्वरूपाय । पञ्चभेदभिन्नश्रीब्रह्मरुद्रप्रभृतिसकलसुरासुरनरात्मकस्य प्रपञ्चस्य, यथायोग्यं सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षप्रदात्रे । ऋगादिचतु- र्वेदमूलरामायणब्रह्मसूत्रमहाभारतभागवतपञ्चरात्राद्यशेषसदागमप्रतिपादितस्वरूपाय । अनाद्यनन्तकालेऽपि स्वरूपदेहान्तर्बाह्यदेहान्तश्च स्थित्वा, सत्ताप्रतीतिप्रवृत्यादिप्रदात्रे । सर्वस्वामिने । गुरुषु स्थित्वा तद्द्वारा ज्ञानोपदेष्ट्रे । निरवधिकानन्तानवद्यकल्याणगुणगणत्वज्ञानपूर्वकस्वात्मात्मीयसमस्तवस्तुभ्यो अनेकगुणाधि- कान्तरायसहस्रेणाप्यप्रतिबद्धनिरन्तरप्रेमप्रवाहरूपभक्तिविषयाय ।
अनन्तवेदोक्ततदनुक्तभारतोक्तप्रकारेण, ब्रह्मोपासितानन्तगुणानन्तक्रियानन्तरूपाय । क्रियासामान्येन सरस्वत्युपासितानन्तरूपाय । गुणक्रियासामान्येन रुद्रोपासितानन्तरूपाय । गुणक्रियारूपसामान्येन इन्द्राद्युपासितबहुगुणाय । कर्मक्षयोत्क्रान्तिमार्गभोगरूपचतुर्विधमुक्तियोग्यमनुष्योत्तमोपासितसच्चिदानन्दात्माख्यचतुर्गुणाय। उत्क्रान्तिमार्गरूपमुक्तिद्वयशून्यावशिष्टद्विविधमुक्ति-
योग्याधिकारिविशेषोपासितआत्मत्वरूपैकगुणाय । ब्रह्मादिमानुषो- त्तमान्तानाम्, उपासनानुसारेण, यथायोग्यं सञ्जातविचित्रापरोक्षज्ञानविषयाय। अत्यर्थप्रसादकर्त्रे । अपरोक्षज्ञानमहिम्ना, अग्निना तूलराशिवद्भस्मीभूताप्रारब्धपुण्यपापानिष्टकाम्यकर्मणां ब्रह्मोपदेशानां, वातपुत्रीयत्वप्रसङ्गपरिहाराय, भगवतावशेषितभोगेन, निःशेषीकृतप्रारब्धकर्मणां सत्यलोके चतुर्मुखाख्यकार्यब्रह्मप्राप्तानां, प्रतीकालम्बनानां, वैकुण्ठलोकस्थितभगवदाख्याकार्यब्रह्मप्राप्तानां, अप्रतीकालम्बनानां, महाप्रलये चतुर्मुखं प्राप्तानां, स्वोत्तमप्रवेशद्वारा शेषमार्गगरुडमार्गाभ्यां गतानां देवानां च, ब्रह्मणा सह विरजानदीस्नानेन, लिङ्गभङ्गं प्रापयित्वा, आविर्भूतविचित्रस्वरूपानन्दानुभवदात्रे । ब्रह्माद्येकान्तभक्तानां निरुपाधि- केष्टाय। तदितरभक्तानां मोक्षोद्देशेन भजनीयाय । साकल्येन रमाब्रह्माद्यचिन्त्यस्वरूपाय । व्याख्याश्रीसर्वविज्ञानकविता- विजयादिसद्गुणप्रदात्रे । ब्रह्मसूत्रमहाभारतश्रीमद्भागवताद्यशेषसच्छास्त्रकर्त्रे। विष्णुनाम्नि संहितादेवतात्वेन ह्रस्वमाण्डूकेयो - पासिताय । वासुदेवादिचतूरूपाय । अन्नमयादिपञ्चरूपाय । मत्स्यकूर्मवराहनारसिंहवामनभार्गवराघवकृष्णबुद्धकल्किस्वरू- श्रीमद्धनुमत्सेव्यदाशरथिरामात्मकाय । द्रौपदीप्रियभीमसेनाराध्य श्रीयादवकृष्णस्वरूपिणे । क्रन्ददश्वात्मक श्रीहयग्रीवस्वरूपाय । जाग्रदाद्यवस्थाप्रवर्तकविश्वादित्रितयरूपाय । षट्- शतैकविंशत्सहस्रश्वासरूपहंसमन्त्रजपप्रेरकाय । द्वासप्ततिसहस्रनाडीषु मध्ये, दक्षिणभागस्थितषट्त्रिंशत्सहस्रपुरुषरूपात्मकाय ।
पाय ।
वामभागस्थितषत्रिंशत्सहस्रस्त्रीरूपात्मकाय । परमहंसोपास्यतुरीयरूपिणे। आत्मादिचतूरूपिणे । कृद्धोल्कादिपञ्चरूपिणे । कपिलदत्तात्रेयऋषभनारायणहरिकृष्णतापसमनुमहिदासयज्ञधन्वन्तरि- नारायणीसनत्कुमारधवलपक्षविराजितहंसस्वरूपाय । केशवादि- चतुर्विंशतिव्यूहाय । नारायणनरशौर्यादिशतरूपिणे । विश्वविष्णु- वषट्कारादिसहस्ररूपिणे । परादिबहुरूपिणे । अजिताद्यनन्तरूपिणे । कलिकालप्रवृत्तये, ऋषिभिः सहान्तर्धाय गन्धमादनपर्वतस्थितमहाबदरिकाश्रमनिवासिने । बादरायणाय । बादरिजैमिनिसुमन्तु- पैलवैशंपायनकाशकृत्स्नलोमशकार्ष्णाजिन्यौडुलोम्यात्रेयपूर्वकशिष्यसङ्घपरिवृताय । कीरपदमुनिनुताय । स्वाज्ञानुसारेण, अवतीर्ण, कृतसमस्तकार्यपरित्यक्तभूमण्डलप्राप्तबदरिकाश्रममरुदवतारानन्दतीर्थपूर्णप्रज्ञापरपर्याय श्रीमन्मध्वाचार्यसंसेवितश्रीमच्चरणनलिनयुगलाय । सात्यवतेयाय । पाराशर्याय । कृष्णद्वैपायनाय। जीवान्तःस्थित्वा सर्वकर्मकारयित्रे । अशेषसत्कर्मफलदात्रे। तत्त्वदेवताप्रेरकाय । अस्मत्कुलदेवतात्मक श्रीवेङ्कटे- शात्मने । अनन्ताय । इन्दिरापतये । अस्मद्गुरुवराचार्यकरवरपूजितचरणनलिनयुगलाय । अस्मद्गुरुवर्यान्तर्गतश्रीमदानन्दतीर्थार्यहृत्कमलमध्यनिवासिने । विज्ञानरोचिःपरिपूरितान्तर्बाह्याण्डकोशाय । अकाराद्येकपञ्चाशद्वर्णदेवताजादिभिः, स्वर्णघटपरिपूर्णपीयूषसिक्ताय । शुभमरकतवर्णाय । रक्तपादाब्जनेत्रा - धरकरनखरसनाग्राय । शङ्खचक्रगदापद्मधराय । परमसुन्दराय । रुचिरवरैणचर्मणा भासमानाय । तटिदमलजटासन्दीप्तचूडं
दधानाय । नीलालकसहस्रशोभितमूर्ध्न । सुव्यक्तश्मश्रुमण्डलाय । ललाटशोभिततिलकाय । अम्भोजभवभवादिभुवनानां
विभ्रमादेव
दभ्रविभवाभिभवोद्भवादिपारमेष्ठ्यादिपदविमुक्तिदातृभ्रू-
विलासाय । कमलायतलोचनाय । निखिलाघौघविनाशकपरसौख्यप्रददृष्टये । तुलसीभासितकर्णाय । समस्तवेदोद्गिरणहेतुभूतश्रीमुखाय । अवनताखिललोकशोकसागरविशोषकात्युदारमन्दहासाय । अरुणोष्ठरोचिषाऽरुणीकृतसितदन्तपङ्कये। कम्बु- वद्रेखात्रयोपेतब्रह्माधिष्ठितकौस्तुभरत्नोद्भासितकण्ठाय । श्रीवत्सा- ङ्कितश्रीदेव्यास्पदविस्तीर्णवक्षसे । तनुत्वेऽप्यन्तर्गतजगदण्डमण्डलवलित्रयाङ्कितोदराय । हरिन्मणिकान्तिमुड्विशदहारमयूखगौरस्तनद्वयोपेताय। आत्मयोनिधिषणचतुर्दशभुवनकारणदलोपेतपद्मजनकतनुनिम्नावर्तनाभिसरसे । त्रयीमययज्ञोपवीतधारिणे । दिव्यमौञ्जधारिणे । अचलपरमाजिनयोगपीठोपविष्टाय । परितः- स्थितवरपट्टिकारूपकक्षायुताय । स्वभक्ताज्ञाननाशकतर्कापरपर्यायप्रबोधमुद्रायुतपृथुपीवरवृत्तदक्षिणहस्ताय । स्वभक्तभयभञ्जकसमस्तमङ्गलप्रदाभयमुद्रायुत पृथुपीवरवृत्तसव्यहस्ताय । अतसिका- कुसुमावभासोरुद्वयाय । क्रमाल्पवृत्तजङ्घायुगलाय । निगूढगुल्फाय । बाह्यान्तस्तमोविनाशकपदनखमणये । वज्राङ्कुशध्वज. पद्मरेखाचिह्नितपादपद्माय । समस्तपीठावरणदेवतासेव्याय । अनन्तचन्द्राधिककान्तिमते । समस्तदुरितनिवारणाय । समस्तकामितफलदात्रे । मदुपास्याय । श्रीवेदव्यासाय नमो नमः ॥ ॥ इति श्रीमद्वेदेशतीर्थपूज्यपादाराधकयदुपत्याचार्यकृत श्रीवेदव्यासगद्यम् ।