📚 वेङ्कटेशस्तोत्रम्
📚 वेङ्कटेशस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ वेङ्कटेशस्तोत्रम् वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥ रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥ श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥ भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥ इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥ राजद्वारे पठेद् घोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादि भयं नास्ति कदाचन ॥ १० ॥ अपुत्रो लभते पुत्रा न् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगा द्वद्धो मुच्येत बन्धनात् ॥ ११ ॥ यद्यदिष्टतमं लोके तत्तत् प्राप्नोत्यसंशयः । ऐश्वर्यं राजसन्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥ विष्णोर्लोकैकसोपानं सर्वदुखैःकनाशनम् । सर्वैश्वर्यप्रदं नृणां सर्वमङ्गलकारकम् ॥ १३ ॥ मायावी परमानन्दं त्यक्त्वा वैकु ण्ठमुत्तमम् । स्वामिपुष्करणीतीरे । रमया सह मोदते कल्याणाद्भु तगात्राय कामितार्थप्रदायिने ॥ १४ ॥ श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १५ ॥ एतेन सत्यवाक्येन । सर्वार्थान् साधयाम्यहम् ॥ १६ ॥ ॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीवेङ्कटेशस्तोत्रम् ॥ । ब्रह्मोवाच- ॥ १७ ॥