अथ श्रीविद्यानिधितीर्थाष्टकम्
रामचन्द्रकराब्जोत्थं रघुनाथमहागुरुम् ।
वैराग्यभूषणं शान्तं विद्यानिधिमहं श्रये ॥ १ ॥
मूलरामपदपङ्क जभृङ्गं व्यासपंचक ।
शुभाञ्चनसक्तम् । श्रीधरादिभगवत्पदचित्तं ॥ २ ॥
शास्त्रपूर्णसुमहानि धिमीडे यद्भक्तिपूर्णा ।
मृतवाग्विलासैः श्रीमू लरामः प्रकटोऽभवद्भुवः ॥ ३ ॥
। तं ज्ञानपूर्णं कुहका तिदूरं विद्यानिधिं भा ।
ग्यनिधिं श्रयेऽहम् श्रीमद्भागवतस्थपञ्चमगता ॥ ४ ॥
गद्याभिधा नर्तकी य ज्जिह्वाशुभरङ्गमञ्च ।
विषये स्वैरं नरीनृ त्यति ॥ ५ ॥
यद्बुद्धौ विविधाः कला विलसिता वेदादिवि ।
द्यायुताः सोऽयं सिद्धम हामुनीशविनुतो विद्यानिधी ॥ ६ ॥
राजते मणिपुरव रभूमौ सद्विमाने वि ।
शाले ध्रुवकरवर पूजाभाजनं ॥ ७ ॥
केशवेशम् । स्वकरव रसरोजप्राप्तदिव्य ।
प्रतिष्ठं ह्यकुरुत व रभक्त्या नौमि विद्यानिधिं ॥ ८ ॥
तम् यरगोळकृतावा सं गुरुसन्निधिशोभि ।
तम् । विद्यानिधिमहं वन्दे विद्यानिधिगुरुप्रियम् ॥ ९ ॥
जयतीर्थतटाकस्य तटे तपसि संस्थितम् ।
जयतीर्थग्रन्थमग्नं विद्यानिधिमहं ॥ १० ॥
भजे विद्यासन्तानसौ भाग्यभक्तिवैराग्यभा ।
ग्यदम् । आरोग्यभाग्यदं शुद्धं सेवे विद्यानिधिं मुदा ॥ ११ ॥
सत्यात्मभिक्षुणा बद्धं विद्यानिध्यष्टकं शुभम् ।
यः पठेच्छृणुयाद्वापि स विद्याया निधिर्भवेत् ॥ १२ ॥
॥ इति श्रीविद्यानिधितीर्थाष्टकम् ॥