अथ श्रीवादिराजस्तोत्रम्
चन्द्रार्ककोटिलावण्य लक्ष्मीशकरुणालयम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ १ ॥
इन्द्रादिदेवताराध्य मध्वसद्वंशमादरात् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ २ ॥
श्रीहयास्यार्चनरतं साधुवेदार्थबोधकम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ३ ॥
दुर्वादिमत्तद्विरदकण्ठीरवमहर्निशम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ४ ॥
सर्वकामप्रदं श्रीमद्विजेन्द्रकुलशेखरम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ५ ॥
मन्त्रक्रमविचारज्ञं तन्त्रशास्त्रप्रवर्तकम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ६ ॥
ज्ञानादिगुणसम्पन्नमशेषाघहरं शुभम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ७ ॥
प्रदक्षिणीकृतभुवं त्वक्षमालाधरं विभुम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ८ ॥
विचित्रमुकुटोपेत मचिन्त्याद्भुतदर्शनम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ ९ ॥
पुरतो व्यासदेवस्य निवसन्तं महाद्युतिम् ।
वन्दिताङ्घ्रियुगं सद्भिः वादिराजं नतोऽस्म्यहम् ॥ १० ॥
॥ इति वादिराजस्तोत्रम् ॥