अथ श्रीरामवर्णनम्
सहस्रसूर्यमण्डल ज्वलत्किरीटमूर्द्धजः ।
सुनीलकुन्तलावृता मितेन्दुकान्तिसन्मुखः ॥ १ ॥
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः ।
सुहासविद्रुमाधरः समस्तवेदवाग्रसः ॥ २ ॥
दिवाकरौघकौस्तुभ प्रभासकोरुकन्धरः ।
सुपीवरोन्नतोरुस ज्जगद्भरांसयुग्मकः ॥ ३ ॥
सुवृत्तदीर्घपीवरो ल्लसद्भुजद्वयाङ्कितः ।
जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे ॥ ४ ॥
स्वयं स तेन निर्मितो हतो मधुश्च कैटभः ।
शरेण येन विष्णुना ददौ च लक्ष्मणानुजे ॥ ५ ॥
स शत्रुसूदनोऽवधी न्मधोः सुतं रसाह्वयम् ।
शरेण येन चाकरोत् पुरीं च माधुराभिधाम् ॥ ६ ॥
समस्तसारसम्भवं शरं दधार तं करे ।
स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम् ॥ ७ ॥
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः ।
महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः ॥ ८ ॥
अनर्घ्यरत्नमालया वनाख्यया च मालया ।
विलासिविस्तृतोरसा बभार च श्रियं प्रभुः ॥ ९ ॥
सभूतिवत्सभूषण स्तनूदरे वलित्रयी ।
उदारमध्यभूषणो ल्लसत्तडित्प्रभाम्बरः ॥ १० ॥
करीन्द्रसत्करोरुयु क् सुवृत्तजानुमण्डलः ।
क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः ॥ ११ ॥
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् ।
असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः ॥ १२ ॥
ज्ञानं नेत्राब्जयुग्मान्मु खवरकमलात् सर्व ।
वेदार्थसारान् तन्वा ब्र ह्माण्डबाह्यान्तरमधिकरुचा ॥ १३ ॥
भासयन् भासुरास्यः । स र्वाभीष्टाभये च स्वक ।
रवरयुगेनार्थिना मादधानः प्रायाद् ॥ १४ ॥
देवाधिदेवः स्वपदमभिमुखश्चोत्त
राशां विशोकाम् दध्रे छत्रं हनूमान् स्रव ।
दमृतमयं पूर्णचन्द्रायुताभं सीता
सैवाखिलाक्ष्णां विषयमुपगता ॥ १५ ॥
श्रीरिति हीरथैका । द्वे धा भूत्वा दुधाव व्यज ।
नमुभयतः पूर्णच न्द्रांशुगौरं ॥ १६ ॥
प्रोद्यद्भास्वत्प्रभाभा स कलगुणतनुर्भूषि ।
ता भूषणैः स्वैः साक्षाच्च क्रतनुस्तथैव ॥ १७ ॥
भरतश्चक्रं दधद् द क्षिणे- नायात् सव्यत ए ।
व शङ्खवरभृच्छङ्खा त्मकः शत्रुहा । अग्रे ब्रह्मपुरोगमाः ॥ १८ ॥
सुरगणा वेदाश्च सो ङ्कारकाः पश्चात् सर्वज ।
गज्जगाम रघुपं या न्तं निजं धाम ॥ १९ ॥
तम् तस्य सूर्यसुतपू र्ववानरा दक्षिणेन ।
मनुजास्तु सव्यतः । रा मजन्मचरितानि तस्य ॥ २० ॥
ते कीर्तयन्त उचथै द्द्रुतं ययुः गन्धर्वैर्गी ।
यमानो विबुधमुनि गणैरब्जसम्भूतिपूर्वैः ॥ २१ ॥
वेदोदारार्थवाग्भिः प्र णिहितसुमनाः सर्व ।
दा स्तूयमानः । सर्वैर्भू तैश्च भक्त्या स्वनिमिषनयनैः ॥ २२ ॥
कौतुकाद् वीक्ष्यमाणः प्रा याच्छेषगरुत्मदादि ।
कनिजैः संसेवितं स्वं पदम् ॥ २३ ॥
ब्रह्मरुद्रगरुडैः सशेषकैः
प्रोच्यमानसुगुणोरुविस्तरः ।
आरुरोह विभुरम्बरं शनै
स्ते च दिव्यवपुषोऽभवंस्तदा ॥ २४ ॥
॥ इति श्रीमन्महाभारततात्पर्यनिर्णये नवमाध्याये श्रीरामवर्णनम् ॥