📚 रघूत्तममङ्गलाष्टकम्
📚 रघूत्तममङ्गलाष्टकम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीरघूत्तममङ्गलाष्टकम् श्रीमद्व्याससुतीर्थपूज्यचरणश्रीपादराट्संस्तुत श्रीमच्छ्रीरघुनाथतीर्थयमिसद्धस्तोदयात् सद्गुरोः । धीरश्रीरघुवर्यतीर्थमुनितः सम्प्राप्ततुर्याश्रमः योगीशत्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ १ ॥ श्रीमद्रामपदाब्जभक्तिभरितः श्रीव्याससेवारतः सन्मान्योरुसमीरवंशविलसत्सत्कीर्तिविस्फारकः । प्रीत्यर्थं पुरुषोत्तमस्य सततं शास्त्रार्थचर्चाचणः योगीशन्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ २ ॥ वाचं वाचमनन्तबुद्धिसुकृतं शास्त्रं सदा शुद्धिमा न् जापं जापममोघमन्त्रनिवहं संप्राप्तसिध्यष्टकः । ध्यायं ध्यायममेयमूर्तिममलां जातापरोक्षः सुधीः योगीशव्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ३ ॥ यद्वृन्दावनसेवया सुविपुला विद्यानवद्या भवे त् यन्नामग्रहणेन पापनिचयो दह्येत निश्चप्रचम् । यन्नामस्मरणेन खेदनिवहात् सङ्कष्यते सज्जनः योगीशन्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ४ ॥ तारेशाच्छपिनाकिनीसुतटिनीतीरे पिनाकिस्तुते द्वारे मोक्षनिकेतनस्य वसुधासारे सुखासारकृत् । योगीड्यो महिमा हि यस्य परमः पारे गिरां मादृशां योगीशत्रतिराट् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ५ ॥ बाल्येऽध्यापकतोऽवमानसुमहाशल्यानुविद्धान्तरः कल्ये स्वमगुरूदितेन हि सुधातुल्येन सूर्यग्रणीः । कुल्येन द्विजमण्डलेन महितः स्वल्पेतरेषां सुधा- कुल्यानन्दकरो रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ६ ॥ सूर्याश्चर्यकरोपलब्धविभवः सूर्यातुलोरुप्रभः भूर्याचारसुसेवकेष्टफलदस्तुर्याश्रितानुग्रहः । स्वर्याताच्छयशास्तपोऽधिमहिमैश्वर्यालयोंऽहोलयः वर्याचार्यगुरू रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ७ ॥ वैराग्यादिगुणाकरोऽवनकरो दाने सदोद्यत्करो भास्वद्भक्तिविदुत्करो जयकरः श्रीशाङ्घ्रिसत्किङ्करः । दोषाङ्करमरुः श्रितामरतरुर्दुर्वादवृक्षत्सरुः मर्त्यातीतगुरू रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ८ ॥ सर्वज्ञप्रियसज्जयार्यविवृतेः भावावबोधामृती भावाढ्याः सुकृतीर्विधाय विशयाभावाय सुज्ञानिनाम् । सेवानम्रजनेष्टदानमहसा देवावनीक्ष्मारुहो व्रीडापादयिता रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ ९ ॥ रामारामयमीन्द्रवन्द्यचरणः सामादिमानोरुमः आम्नायादिसुगेयमेयमहिम श्रीमूलरामार्चकः । सीता सत्करुणारसस्य चरमा सोमायमानो मुनि- स्तोमानां व्रतिराड् रघूत्तमगुरुः कुर्यात् सदा मङ्गलम् ॥ १० ॥ वेदव्यासोरुयोगी यदुपतिसुगुरुर्वन्द्यवेदेश भिक्षुः विद्यावद्वर्यधुर्यप्रथितविवरणग्रन्थनि । र्माणवित्तः । विद्याधीशोऽपि तद्वद् बुधजनमणयो य स्य शिष्याप्रशिष्याः सोऽयं श्रीयोगिराजो रघुवरतनयो ॥ ११ ॥ मङ्गलान्यातनोतु काशीकाञ्चीसुमायाहिमगिरिम धुराद्वारकावेङ्कटाद्रि- श्रीरङ्गक्षेत्रपूर्वत्रिभुव । नविलसत्पुण्यवृन्दावनस्थः । गुल्मादिव्याधिर्ता ग्रह जनितमहाभीतिविध्वंसकर्ता भूतप्रेतादिभेदी ॥ १२ ॥ रघुवरतनयो मङ्गलान्यातनोतु मूढाग्रणीः वेङ्कटभट्टसूदः सूर्यग्र । गण्योऽभवदात्मवेदी । यस्य प्रसादात् स गुरुप्रबर्हो विद्यामबाधां विपुलां प्रदद्यात् ॥ १३ ॥ न्यायामृतं न्यायवचोविशेषैः सुसारभूतं सुघनत्वमाप्तम् । प्रवाहयामास तरङ्गिणीमि षात् स व्यासरामोऽपि तदीयशिष्यः ॥ १४ ॥ ॥ इति श्रीरघूत्तममङ्गलाष्टकम् ॥