अथ श्रीरघूत्तमगुरुस्तोत्रम्
गम्भीराशयगुम्भस म्भृतवचःसन्दर्भग ।
र्भोल्लसट्टीकाभावविबोधनाय जगतां ॥ १ ॥
यस्यावतारोऽजनि तत्तादृक्षदुरन्तसन्त-
ततपःसन्तानसन्तो षितश्रीकान्तं सुगुणं ॥ २ ॥
रघूत्तमगुरुं वन्दे परं देशिकम् सच्छास्त्रा ।
मलभावबोधकिर णैः संवर्धयन् मध्वसत्- ॥ ३ ॥
सिद्धान्ताब्धिमनन्तशि ष्यकुमुदव्रातं विका ।
सं नयन् । उद्भूतो रघु वर्यतीर्थजलधेस्तापत्रयं ॥ ४ ॥
त्रासयन् यस्तं नौमि र घूत्तमाख्यशशिनं श्री ।
विष्णुपादाश्रयमुद्यन्मार्तण्डसङ्काशं ॥ ५ ॥
दण्डमालाकमण्डलून् । धरं कौपीनसूत्रं च ।
सीताराघवमानस म् श्रीनिवासेन वन्द्याङ्घ्रि ॥ ६ ॥
तुलसीदामभूषणम् । ध्यायेद्रघूत्तमगुरुं ।
सर्वसौख्यप्रदं नृणा म् रघूत्तमगुरुं नौमि ॥ ७ ॥
शान्त्यादिगुणमण्डितम् । रघूत्तमपदद्वन्द्व ।
कञ्जभृङ्गायितान्तर म् रघूत्तमगुरुं वन्दे ॥ ८ ॥
रघूत्तमपदार्चकम् । गाम्भीर्येणार्थबाहुल्य ।
टीकातात्पर्यबोधक म् भावबोधकृतं नौमि ॥ ९ ॥
भावभावितभावुकम् । भावभा
जं भावजादिपरीभावपरा ।
यणम् सन्यायविवृतेष्टीकाशे
षसम्पूर्णकारिणम् ॥ १० ॥
। टीकां दृष्ट्वा पेटिकानां ।
निचयं च चकार यः प्रमेयमणिमालानां ॥ ११ ॥
स्थापनाय महामतिः यच्छिष्यशिष्यशिष्याद्या ।
टिप्पण्याचार्यसंज्ञिताः । तमलं भावबोधार्यं ॥ १२ ॥
भूयो भूयो नमाम्यह म् शुकेन शान्त्यादिषु वा ।
ङ्मयेषु व्यासेन धैर्येऽ म्बुधिनोपमेयम् ॥ १३ ॥
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्व
गुरुं नमामि राम राम तव पादपङ्कजं चि ।
न्तयामि भवबन्धमुक्तये । वन्दितं सुरनरे
न्द्रमौलिभिर्ध्यायते मनसि योगिभिः सदा ॥ १४ ॥
पिनाकिनीरसञ्जुष्ट देशे वासमनोरमम् ।
पिनाकिपूज्यश्रीमध्व शास्त्रवार्धिनिशाकरम् ॥ १५ ॥
पञ्चकैर्भावबोधाख्यै र्ग्रन्थैः पञ्च लसन्मुखैः ।
तत्त्वविज्ञापकैः स्वाना मुपमेयं पिनाकिना ॥ १६ ॥
गाम्भीर्ये सर्वदुर्वादि गिरिपक्षविदारणे ।
विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥ १७ ॥
धरणे भगवन्मूर्ते र्भरणे भक्तसन्ततेः ।
विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥ १८ ॥
गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसन्ततेः ।
शिष्येभ्यस्तत्त्वविज्ञान प्रदाने परमं गुरुम् ॥ १९ ॥
सदाररामपादाब्ज सदारतिसुधाकरम् ।
सदाऽरिभेदने विष्णु गदारिसदृशं सदा ॥ २० ॥
रघुनाथार्यपाण्युत्थ रघुवर्यकरोदित ।
म् रघुनाथाङ्घ्रिसद्भक्तौ रघुनाथानुजायितम् ॥ २१ ॥
वेदेशार्चितपादाब्जं वेदेशाङ्ख्यब्जपूजकम् ।
रघूत्तमगुरुं वन्दे रघूत्तमपदार्चकम् ॥ २२ ॥
रघूत्तमगुरुस्तोत्र स्याष्टकं यः पठेन्नरः ।
रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥ २३ ॥
यद्वृन्दावनपूर्वतः फलवती धात्री जग ।
त्पावनी याम्यायां तु पि नाकिनी चलदलो ॥ २४ ॥
मूर्तित्रयाधिष्ठितः । वा रुण्यां दिशि वामतः प्र ।
तिकृतौ छायाकृता ति न्त्रिणी तद्वृन्दावनमध्यगो ॥ २५ ॥
गुरुवरो भूयात् स नः श्रेयसे
प्रणमत्कामधेनुं च भजत्सु ।
रतरूपमम् । श्रीभावबोधकृ
त्पादचिन्तामणिमुपास्महे ॥ २६ ॥
॥ इति श्रीरघूत्तमगुरुस्तोत्रम् ।