अथ श्रीरघुवर्यतीर्थस्तुतिः
रघुनाथकराब्जोत्थं मूलरामपदार्चकम् ।
रघुवर्यमहं वंदे देवार्चाभाग्यसिद्धये ॥ १ ॥
पेन्गोंडनामके ग्रामे हनूमत्स्थापकं मुनिम् ।
रघुवर्यमहं वंदे प्राणार्चाभाग्यसिद्धये ॥ २ ॥
भीमानदी ददौ मार्गं यस्मै रामयुताय तम् ।
रघुवर्यमहं वंदे भवोत्तारणसिद्धये ॥ ३ ॥
रघूत्तमगुरोस्तारस्योपदेशविधायकम् ।
रघुवर्यमहं वंदे सन्मंत्रजपसिद्धये ॥ ४ ॥
सच्छास्त्रं पाठयंतं श्री रघूत्तममुनिं प्रति ।
रघुवर्यमहं वंदे सच्छास्त्रज्ञानसिद्धये ॥ ५ ॥
मंत्राक्षतप्रदानेन सत्पुत्रप्रापकं गुरुम् ।
रघुवर्यमहं वंदे सत्पुत्रप्राप्तिसिद्धये ॥ ६ ॥
रघूत्तममुनेः स्वम उपदेशप्रदायकम् ।
रघुवर्यमहं वंदे ह्यश्रुतज्ञानसिद्धये ॥ ७ ॥
रघूत्तममुनिद्वारा मठवैभववर्धकम् ।
रघुवर्यमहं वंदे सद्वैभवसुसिद्धये ॥ ८ ॥
रघुवर्यमहं वंदे नदीस्नानसुसिद्धये ।
गजगह्वरगं तुंग भद्रातीरनिवासिनम् ॥ ९ ॥
पद्मनाभकवींद्रादि पूर्वे संस्थितमादरात् ।
रघुवर्यमहं वंदे गुर्वनुग्रहसिद्धये ॥ १० ॥
सत्यात्मरचितं पद्य दशकं यः पठेत् सुधीः ।
तस्यैताः सिद्धयः सर्वा हस्तगा नात्र संशयः ॥ ११ ॥
॥ इति श्रीरघुवर्यतीर्थस्तुतिः ॥