अथ भगवद्ध्यानम्
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।
उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ १ ॥
यच्छौचनिस्सृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्यधिघृतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनश्शमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २ ॥
ऊरू सुपर्णभुजयोरधिशोभमाना-
वोजोनिधी स्वतसिकाकुसुमावभासौ ।
व्यालम्बिपीतवरवाससि वर्तमानकाञ्चीकलापपरिरम्भि नितम्बमम्ब ॥ ३ ॥
नाभिहदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम् ।
व्यूढं हरिन्मणिमुषस्तनयोरमुष्य
ध्यायेद् द्वयं विततहारमयूखगौरम् ॥ ४ ॥
वक्षोऽधिवासमृषभस्य महाविभूतेः
पुंसां मनोनयननिर्वृतिमादधानम् ।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ ५ ॥
बाहूंश्च मन्दरगिरेः परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान् ।
सञ्चिन्तयेद्दशशतारमसह्यतेजः
शङ्खं च तत्करसरोरुहराजहंसम् ॥ ६ ॥
कौमोदकीं भगवतो दयितां स्मरेत
दिग्धामरातिभटशोणितकर्दमेन ।
मालां मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ ७ ॥
भृत्यानुकम्पितधियेह गृहीतमूर्तेः
सञ्चिन्तयेद् भगवतो वदनारविन्दम् ।
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारहासम् ॥ ८ ॥
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।
मीनद्वयश्रियमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भु ॥ ९ ॥
तस्यावलोकमधिकं कृपयाऽतिघोरतापत्रयोपशमनाय निसृष्टमक्ष्णोः ।
स्निग्धस्मितानुगुणितं विपुलप्रसादं
ध्यायेच्चिरं विततभावनया गुहायाम् ॥ १० ॥
हासं हरेरवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमत्युदारम् ।
संमोहनाय रचितं निजमाययाऽस्य
भ्रूमण्डलं मनुसुते मकरध्वजस्य ॥ ११ ॥
ध्यानायनं रहसि तद्बहुलाधरोष्ठभासाऽरुणायिततनुद्विजकुन्दपङ्क्ति ।
ध्यायेत्स्वहृत्कुहरकेऽवसितस्य विष्णोः
भक्त्याऽर्द्रयाऽर्पितमना न पृथग् दिदृक्षेत् ॥ १२ ॥
॥ इति भगवद्ध्यानम् ॥