Reading & Download Font
📖
✓
Noto Serif Devanagari
Classical Book Style
🔤
✓
Noto Sans Devanagari
Clean Modern Sans
📜
✓
Siddhanta
Traditional Vedic
🖋️
✓
Noto Serif Bold
Heavy Classical
📱
✓
Noto Sans UI
Compact Interface
📖 अध्याय - 1.1.अथ प्रथमाध्यायस्य प्रथमपादः
▼
📖 तत्वप्रकाशिका
▼
शुद्धानन्दोरुसंविद्द्युतिबलबहुलौदार्यवीर्यादिदेहं
चिन्तासन्तापलेपोद्भवमृतिमुखराशेषदोषातिदूरम् ।
सद्भिर्वैराग्यभक्तिश्रुतिमतिनियतध्यानजज्ञानयोगाद्गम्यं
वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यम् ॥ १ ॥
याञ्चामन्दरलोलिताद्यत उदैद्विद्येन्दिरा निर्जरैर्जातो
भारतपारिजातसुतरुः सद्द्ब्रह्मसूत्रामृतम् ।
आसीत् तन्त्रपुराणसन्मणिगणो जातश्शुकेन्दुस्सदा
सोऽयं व्याससुधानिधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २ ॥
स्वान्तध्वान्तनिकृन्तने जितमहावैकर्तनांशुव्रजं
निर्दोषं जितचन्द्रचन्द्रिकमलं तापत्रयोन्मूलने ।
गाम्भीर्ये जितसिन्धुराजममितं भाष्यं यदास्याम्बुजाद्
आविर्भूतममन्दबोधभगवत्पादान्प्रपद्येऽथ तान् ॥ ३ ॥
श्रीमद्वमध्वसंसेवनलब्धशुद्धविद्यासुधाम्भोनिधयोऽमला ये
कृपालवः पङ्कजनाभतीर्थाः कृपालवस्स्यान्मयि नित्यमेषाम् ॥ ४ ॥
श्रीमद्रमारमणसद्गिरिपादसङ्गिव्याख्यानिनाददलिताखिलदुष्टदर्पम् ।
दुर्वादिवारणविदारणदक्षदीक्षमक्षोभ्यतीर्थमृगराजमहं नमामि ॥ ५ ॥
अथ तत्कृपया ब्रह्मसूत्रभाष्यं यथामति ।
व्याकुर्वे श्रीमदानन्दतीर्थार्यमुखनिस्सृतम् ॥ ६ ॥
गङ्गासङ्गेन नैर्मल्यं रथ्याद्भिर्लभ्यते यथा ।
वाचोविशुद्धिसिद्ध्यर्थं सङ्गम्यन्ते गुरोर्गिरः ॥ ७ ॥
अथाविद्यापटलपिहितनयनैरन्यैरन्यथाव्याख्यातानि ब्रह्मसूत्राणि यथावद्याचिख्यासुः भगवानाचार्यवर्यः प्रारिप्सितभाष्यस्य कैवल्याद्यखिलफलसाधनतादिसिद्ध्यर्थं निरन्तरायपरिसमाप्त्याद्यर्थं च नारायणनमस्कारं ग्रथयति ग्रन्थारम्भं च प्रतिजानीते- नारायणमिति ॥
📖 ब्रह्मसूत्रभाष्यम्
▼
नारायणं गुणैस्सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
📖 तत्वप्रकाशिका
▼
अत्र निरुपपदसूत्रशब्देन ब्रह्मसूत्रमुच्यते । तस्य मुख्यार्थाभिधायकत्वात् । तेषां च तादृशत्वात् । वक्ष्यमाणमेव सूत्रार्थं श्रोतृशेमुषीमनुकूलयिष्यन्नादौ प्रस्तावयितुं विशेषणचतुष्टयेनेष्टदेवतां विशिनष्टि । तथा हि । आदिसूत्रे भगवतः प्रसत्त्या पुरुषार्थो भवतीति सूचितेऽधिकारिणः शङ्कोन्मिषति पुरुषान्तरेऽनुपलभ्यमानं पुरुषार्थप्रदत्वं तस्य तत्कीदृशोऽसाविति । तां निवारयदाद्याध्यायस्यार्थः- गुणैः सर्वैरुदीर्णमिति । तत्र ह्यपर्यायानामनन्तशब्दानां महायोगवृत्त्या हरौ समन्वयसमर्थनद्वारा सर्वगुणोदीर्णतैव वर्ण्यते । स च युक्तयादिभिरुक्तसमन्वये निरोधिते दोषवानपि स्यादित्याशङ्कां परिहरतो द्वितीयाध्यायस्यार्थः- दोषवर्जितमिति । तत्र युक्तयादीनामाभासत्ववर्णनेन निर्दोषत्वस्यैव भाषितत्वात् । एवंविधस्य च प्रसादः कया विधया भविष्यतीत्याकाङ्क्षां पूरयतस्तृतीयस्यार्थः - ज्ञेयमिति । तत्र विरक्तयादिभिस्तत्प्रसत्त्यर्थं तस्य ज्ञेयतायाः कथितत्वात् । प्रसन्नश्च कीदृशं पुमर्थं प्रयच्छतीत्याकाङ्क्षां पूरयतस्तुरीयस्यार्थः - गम्यमिति । तत्र ज्ञानिनो भगवत्प्राप्तिलक्षणमोक्षस्योदितत्वात् ।
अथवा नैतन्नारायणपदं देवदत्तादिपदवत् साङ्केतिकं भवति किन्तु विशिष्टगुणानप्याचष्ट इत्याशयवान् पदचतुष्टयेन तन्निर्वक्ति । तथा हि । दोषारशब्दयोरभिन्नार्थत्वान्नञश्च विरुद्धार्थवाचित्वाद्दोषविरुद्धा गणा नारास्तदाश्रयो नारायणः । नञोऽभावार्थत्वादराश्रयो न भवतीति वा नारायणः । नरसंबन्धित्वान्नरीयतेऽनेनेति वा नारमणं येनेति वा निर्दोषवेदोत्पन्नत्वाद्वा नारं ज्ञानं विषयतया तदाश्रयत्वाच्च नारायणः । अरविधुरत्वादरतिरहितत्वात् क्षयरहितत्वाद्वा नारा मुक्ता तदाश्रयो नारायणः । नगनाकादिशब्दवदयं शब्दो ज्ञातव्यः ।
अथ वा नारायणस्यैव नम्यत्वोपपादकमेतत् ।
यो हि बहुगुणो निर्दोषः शास्त्रज्ञेयोऽधीतशास्त्रगम्यः स हि वन्यो भवति ॥
देवतानतिसमनन्तरं गुरूनपि नमति - गुरूंश्चेति ॥
'गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि' इत्यतो न तन्नाम जग्राह ।
स्वस्य गुरुदेवताभेदेऽरुचिं सूचयत्यपिपदेन ।
यद्यपि गुरुर्न देवताभिन्नस्तथापि विशेषानुग्रहार्थं पृथङ्नतिरिति ॥
अनेनैव शास्त्रस्याधिकारिविषयप्रयोजनसम्बन्धाश्च श्रोतृप्रवृत्त्यङ्गभूताः सूचिता ज्ञातव्याः ।
तत्स्मरणस्य महाफलहेतुत्वाच्च ।
तदुक्तम् ।
अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् ।
स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम् ॥
इति ।
नमस्काराधिकार्यादिग्रथनसूचने शिष्यशिक्षार्थम् ।
तथा हि ।
ज्ञेयत्वगम्यत्वयोः ज्ञातृगन्तृसापेक्षत्वात् तद्योग्यस्तदिच्छुरेवाधिकारी सूचितः ।
नारायण एव विषयः ।
तज्ज्ञानगमने प्रयोजने ।
यथायोग्यं सम्बन्ध इति ॥
ननु यदुपादेयं तदेवानन्यार्थतया व्याख्येयम् । यच्च प्रमाणत्वे सतीष्टसाधनतावबोधकं प्रायस्तदेवोपादेयमतः कथं ब्रह्मसूत्राणां व्याख्येयत्वोपयोग्युपादेयतायै प्रामाण्यादीत्याशङ्कां परिहर्तुं सूत्रागतिक्रममाह -- द्वापर इति ॥
📖 ब्रह्मसूत्रभाष्यम्
▼
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान्नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत् । चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
📖 तत्वप्रकाशिका
▼
सर्वत्रेति सार्वत्रिकपुरुषोक्तिः ।
ज्ञाने सम्यग्ज्ञाने ।
आकुलीभूते किमिदमदो वेति सन्दिग्धे अन्यदेवेति मिथ्यादृष्टिदुष्टे च ।
आकुलीभावसमर्थनाय द्वापरग्रहणम् ।
तद्योगमिष्टप्राप्त्यनिष्टपरिहारोपायम् ॥
वेदमुत्सन्नमित्यादेरपपाठादिना तिरोहितम् ।
प्रागेव चतुर्धा विभक्तं वेदं ऋङ्निगदादिरूपं व्यक्तीकृत्यैकैकस्मादेकैको भाग इति चतुर्धा व्यभजदेकैकं चावान्तरमृगादिवेदं चतुर्विंशत्यादिशाखाभेदेन व्यभजदित्यर्थः ।
तदुक्तम् ।
ऋचस्स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि निगदाच्चैव तथा सामानि सामतः ॥
इति ॥
अवान्तरवेदादिविभागकथनं च ज्ञानाकुलीभावसमर्थनार्थम् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ।
इत्यादेः ।
अयं भावः ।
वाक्यप्रामाण्यं तावन्निर्दोषतया सम्भवति ।
निर्दोषता चापौरुषेयतया आप्तिमूलतया च ॥
आप्तिश्च वक्तृनिर्दोषतैव ।
आप्तिमूलत्वाद् ब्रह्मसूत्राणां प्रामाण्यसिद्धिः ।
प्रमादाज्ञानसंशयविपर्ययाणां नारायणावतारे व्यासेऽसम्भवात् भगवत्त्वादेव ।
विप्रलम्भकत्वस्य च श्रोतृदोषनिबन्धनस्य तदभावेनाभावनिर्णयात् ज्ञानयोग्यताया ब्रह्मादिश्रोतृष्वभावात् ।
अपहासस्य च प्रसङ्गदोषनिबन्धनस्य तदभावेनाभावनिर्णयात् ।
अज्ञाननिर्हरणस्य च प्रसक्तत्वेन प्रसङ्गदोषाभावात् ।
आप्तिमूलत्वेनैव प्रामाण्यसिद्धौ सुतरां श्रुतिनिर्णायकत्वेन श्रुतियुक्तिमूलत्वात् ।
इष्टानिष्टप्राप्तिपरिहारसाधनवेदन हेतुवेदनिर्णायकत्वनेष्टसाधनावबोधकत्वं च सिद्ध्यति ।
अतो ब्रह्मसूत्राणामत्युपादेयत्वाद्व्याख्येयतेति
📖 ब्रह्मसूत्रभाष्यम्
▼
तच्चोक्तं स्कान्दे-
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेश्शापाज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिस्स्वयम् ॥
📖 तत्वप्रकाशिका
▼
उक्तमेवार्थं प्रमाणेन स्थापयति - तच्चेति ॥
स्थितं यथोत्पन्नं तथैव ।
अन्यथाजातमिदमदो वेति सन्दिग्धमन्यदेवेति मिथ्याष्टिदुष्टं च ।
अखिलमन्यथाजातम् ।
कालतो भागद्वयस्यान्यथात्वं युक्तं न सर्वस्येत्यतो विशेषकारणं चाह - गौतमस्येति ॥
अज्ञानताम् अज्ञानमिति प्रतीतिविषयतां सन्देहगोचरतां च ।
ब्रह्मादिबुद्धिसङ्कीर्णता नाम सज्जनानुक्रोशयुक्ततैव नाज्ञानादिमिश्रत्वम् ।
गौतमशापस्य स्वहतगोनिर्मातृमात्रविषयत्वात् ।
कालाभिभवशून्यत्वाच्च तेषाम् ।
लोकस्य च संप्रदायप्रवर्तकाभावेन कालतश्चाज्ञानप्राप्तिः ।
तदुक्तमन्यत्र - 'नष्टधर्मज्ञानलोककृपालुभिः ब्रह्मरुद्रेन्द्रादिभिः' इत्यादि ।
📖 ब्रह्मसूत्रभाष्यम्
▼
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ।
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ॥
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ।
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ॥
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ॥
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥
सविशेषणसूत्राणि ह्यपराणि विदो विदुः मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥
📖 तत्वप्रकाशिका
▼
तस्य = वेदस्य । बहुवचनप्रयोगेऽपि नार्थभेद शङ्कनीय इति भावेनैकवचनम् ।
वेदनिर्णयाय सूत्रान्तरैरलं किमेभिरित्यत आह- येषामिति ॥
किं तत्सूत्रत्वं यदाञ्जस्यं ब्रह्मसूत्राणामित्यत आह- अल्पेति ।
यावदक्षरतां विना विवक्षितार्थासिद्धिस्तदल्पाक्षरत्वम् ।
एवं च भवितुमर्हतीत्यवचनमसन्दिग्धत्वम् ।
विशिष्टार्थता सारवत्त्वम् ।
बहुशाखानिर्णायकत्वं विश्वतोमुखत्वम् ।
व्यर्थाक्षरादिराहित्यमस्तोभवत्वम् ॥
अपशब्दादिवैधुर्यमनवद्यत्वम् ।
एतच्च सूत्रत्वं कुतो ब्रह्मसूत्राणामाञ्जस्येनेत्यत आह— निर्विशेषितेति ॥
यतो ब्रह्मसूत्राणां मुख्यसूत्रत्वमत एव हि निर्विशेषितसूत्रत्वमप्यस्ति पुराणादावन्यथा तन्न स्यादित्यर्थः ।
यद्यत्र निर्विशेषितं तत्तत्र मुख्यं यदमुख्यं तद्विशेषितमित्येतत्कुत्र दृष्टमित्यत आह- यथेति ।
यथा कृष्णस्य निर्विशेषितव्यासत्वमत एव तन्मुख्यमन्ये द्रौण्यादयोऽमुख्यास्ततश्च विशेषणाव्यासस्तथा निर्विशेषितत्वान्मुख्यसूत्रत्वं ब्रह्मसूत्राणामित्यर्थः ।
अन्यसूत्राणामपि मुख्यसूत्रत्वात् किं विशिष्याभिधीयते ब्रह्मसूत्राणामेवेत्यत आह- सविशेषेणेति ॥
अन्यसूत्राणां सविशेषणत्वान्न मुख्यत्वमिति भावः ।
एतदुपपादनायैवान्ये विशेषणादिति प्रागेव दृष्टान्त उक्तः ।
निर्विशेषणसविशेषत्वाभ्यां कुतो मुख्यामुख्यत्वे दृष्टान्ते कारणान्तरसम्भवादित्यत आह- मुख्यस्येति ।
सूत्रेषु येषु सर्वेऽपि निर्णयास्समुदीरिताः ।
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ॥
एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः ।
ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ॥
ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।
मुख्यस्य मुख्यस्यैव ।
अस्त्वेतत्सूत्रत्वमञ्जसा ब्रह्मसूत्राणां तथापि वेदार्थनिर्णयाय सूत्रान्तरैरलं किमेभिरित्यस्य कथमनेन परिहार इत्यत आह- सूत्रेष्विति ॥
यत्सूत्रधर्मतयोक्तं विश्वतोमुखत्वं तद्यदा ब्रह्मसूत्राणामेवा असा भवति तदा तेषामेव सर्वशास्त्रनिर्णायकत्वं भवेदतोऽन्यसूत्रभ्योऽतिशयेन निर्णायकत्वात्तद्वचनं युक्तमिति भावः ।
अन्येषामपि द्वित्रशाखानिर्णायकत्वात् कथमेषां सर्वनिर्णायकत्वमन्यथा तद्वैयर्थ्यमित्यत आह- शब्देति ॥
सर्वस्य शब्दजातस्य ॥
निर्णय इति ।
सर्वैः शब्दसमूहैः क्रियमाणो निर्णयो यत्प्रमाणो यन्मूलकः ।
अन्येषां निर्णायकत्वेऽपि ब्रह्मसूत्राणामस्त्येव सर्वशाखानिर्णायकत्वम् ।
तन्निर्णयस्य ब्रह्मसूत्रमूलकत्वेन व्याख्यानरूपत्वात् ।
श्रुतिमूलकस्मृतिवदवैयर्थ्योपपत्तेरिति भावः ।
एवंविधानीत्युपसंहारः ।
सूत्रेष्वित्यादेरेवंविधानीत्येनेनान्वयः ।
ब्रह्मरुद्रादिदेवेषु ज्ञानं संस्थाप्येत्यनेन पूर्वस्थितस्यैव विशेषयुक्तत्यादिभिः दृढीकरणं किञ्चिदप्राप्तलाभश्चोच्यते ।
'जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति साधवः' इत्यादेः ।
एवं ज्ञानं पुनः प्रापुः' इत्यादेश्चायमेवार्थः ।
विरिश्चेतरेषां तिरोहितलाभो वा ॥
यत आहुः 'ब्रह्मणस्तु प्रायो नाप्रतिभासितम्' इत्यादि ।
तदेवमत्युपादेयत्वात् व्याख्येयानि ब्रह्मसूत्राणीति स्थितम् ॥
तत्रादिसूत्रस्येदं सङ्गत्यादि । अत्र ब्रह्मजिज्ञासायाः कर्तव्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः । अन्यथा शास्त्रस्यानारम्भणीयत्वप्रसङ्गादेतत्समर्थनीयम् । अध्यायपादसङ्गतिस्त्वानन्दमयाधिकरणमारभ्यैव गवेषणीया । ततोऽर्वाक्तनानामधिकरणानामध्यायपादपीठत्वात् । प्रथमाधिकरणत्वात् श्रुतिविचारस्याद्याप्यनारब्धत्वान्नाधिकरणश्रुतिसङ्गती च । प्रारिप्सिततया चित्तसङ्गतशास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । उभयविधव्यापारदर्शनं सन्देहबीजम् । न कर्तव्येति पूर्वः पक्षः । अधिकारिविषयप्रयोजनसम्बन्धशून्यत्वात् । न तावद् ब्रह्म विषयः । असन्दिग्धत्वात् प्रमाणाभावेन जीवव्यतिरिक्तस्य ब्रह्मणोऽभावात् । जीवस्य च स्वप्रकाशत्वात् । न हि कश्चित्प्रकाशमानेऽर्थे सन्दिग्धे । न चात्मनः स्वप्रकाशत्वे विवदितव्यम् । अहमित्यनुभवात् । न चायं मानसोऽनुभवः । तस्यापि ज्ञानमानत्वेनानुभवान्तरान्वेषणेऽनवस्थानात् । कस्यचिदनुभवस्य स्वप्रकाशत्वेऽस्त्वात्मन एव तत् । जिज्ञासायामेवानुभवोऽनुभूयत इति न वाच्यम् । अनुभवविरोधात् । न ह्यज्ञायमानज्ञानसद्भावे किञ्चिन्मानम् । न च स्वप्रकाशसंविदाश्रयतयाऽऽत्माऽवभासत इति युक्तम् । औत्तरिकानुस्मृतिसिद्धसौषुप्तिकानुभवाभावप्रसङ्गात् । न हि सुषुप्तावात्मातिरिक्ता संविदस्तीति सम्भवति । संविदात्मकत्वाच्चात्मनो न संविद इव संविदाश्रयतया प्रतीतिः । अतः स्वप्रकाशात्मानतिरिक्तस्य ब्रह्मणोऽसन्दिग्धत्वान्न विषयत्वं सम्भवति । न च जिज्ञासायाः प्रयोजनमस्ति । ज्ञायमानेऽपि ब्रह्मणि तदनुपलम्भात् । विषयप्रयोजनाभावान्न ब्रह्मजिज्ञासायामधिकारी विद्यते । अत एव न सम्बन्धः । अतो न ब्रह्मजिज्ञासा कर्तव्येति नैतच्छास्त्रमारम्भणीयमिति । एवं प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति - अथेति ।