अथ श्रीबालरक्षास्तोत्रम्
अव्यादजोऽङ्घ्रिमणिमां स्तव जान्वथोरू यज्ञोऽ ।
च्युतः कटितटं जठ रं हयास्यः । हृत्केशवस्त्वदुर ॥ १ ॥
ईश इनस्तु कण्ठं वि ष्णुर्भुजं मुखमुरुक्र ।
ममीश्वरः कम् चक्र्यग्रतः सहगदः ॥ २ ॥
हरिरस्तु पश्चात् त्वत्पा र्श्वयोर्धनुरसी मधु ।
हा जनश्च । कोणेषु श ङ्ख उरुगाय ॥ ३ ॥
उपर्युपेन्द्रः तार्क्ष्यः क्षि तौ हलधरः पुरुषः ।
समन्तात् इन्द्रियाणि हृ षीकेशः प्राणान्नारायणोऽवतु ॥ ४ ॥
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ।
पृश्निगर्भस्तु ते बुद्धि मात्मानं भगवान्परः ॥ ५ ॥
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ।
व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ॥ ६ ॥
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ।
डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः ॥ ७ ॥
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ।
कोटरा रेवती ज्येष्ठा पूतनामातृकादयः ॥ ८ ॥
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ।
स्वमदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ॥ ९ ॥
सर्वे नश्यन्तु ते विष्णो ।
नामग्रहणभीरवः ॥ १० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षास्तोत्रम् ॥