📚 प्रार्थनादशकस्तोत्रम्
📚 प्रार्थनादशकस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ प्रार्थनादशकस्तोत्रम् रमारमण मध्वादि देशिक श्रीहृदब्जग । हयग्रीव कृपालो मे प्रार्थनां शृणु सादरम् ॥ १ ॥ अयोग्यविषये स्वामि न् सर्वथा न मनो भवेत् । चांचल्यं मूलतश्छिन्धि दुराशां हर दूरतः ॥ २ ॥ दुर्बुद्धिं च न मे देहि दुःशास्त्रावर्तने रतिम् । हापयस्व च दुर्मानं दुर्गुणं मोचय प्रभो ॥ ३ ॥ दुःसंगं दुष्क्रियां छिंधि हर लोकाटनात् पदौ । न नियोजय चक्षूंषि परदारादिदर्शने ॥ ४ ॥ दुष्प्रतिग्रहदुस्पर्शे करौ मा चोदय ध्रुवम् । अगम्यागमने गुह्यं घ्राणमाघ्राणनेऽसताम् ॥ ५ ॥ अपकर्षतु जिह्वां मे लोकवार्तादुरन्नतः । दुर्वार्तादुष्टशब्देभ्यो निवर्तय हरे श्रुती ॥ ६ ॥ भवदिच्छानुगं चेतो योग्यसद्विषयं भवेत् । यदृच्छालाभसंतृप्तं निश्वांचल्यं भवेत्त्वयि ॥ ७ ॥ सुज्ञानं सर्वदा देहि सच्छास्त्रावर्तने रतिम् । सत्संगं सत्क्रियां चैव पादौ त्वत्क्षेत्रसर्पणे ॥ ८ ॥ श्रीमध्वशास्त्रश्रवणे नियुंक्ष्व श्रवणे सदा । हयास्य चक्षूंषि च मे दर्शने सन्नियोजय ॥ ९ ॥ करौ त्वदर्चने नित्यं सुखतीर्थस्य लेखने । त्वदालापे त्वदुच्छिष्ट भोजने कुरुजिह्विकाम् ॥ १० ॥ घ्राणं भवतु निर्माल्या घ्राणने नमने शिरः । देहि मे तु ज्ञानभक्ति पशुपुत्रधनादिकम् ॥ ११ ॥ प्रार्थनादशकं चैत त् त्रिकाले यः पठेन्नरः । तस्याभीष्टं हयास्योऽसौ दत्वा रक्षति सर्वदा ॥ १२ ॥ ॥ इति श्री वादिराजयतिकृतं प्रार्थनादशकस्तोत्रम् ॥