अथ पापविमोचनस्तोत्रम्
सुकृतं तिलमात्र तुल्यमीश
क्रियते नैव मयैकवत्सरेऽ ।
पि । अपि तु क्रियते सदाघपू
गः प्रतियामं सकलेन्द्रियैर्मुकुंद ॥ १ ॥
न शिरश्चलतीश मे कदाऽपि
श्रुतिजानंदभरेण सद्गुणा ।
नाम् । अपि तु प्रभुबंधुदुर्गुणा
नां श्रवणार्थं चलितं ॥ २ ॥
भवत्यशंकम् पापविमोचनस्तो
त्रम् श्रवणे श्रवणाय सत्कथाया ।
न यतेते तव पुण्यकीर्तनस्य
अपि तु व्यभिचारलोकवार्ता ॥ ३ ॥
श्रवणायैव महाद रं प्रयातः न ममाक्षि ।
युगं प्रवर्तते श्रीभ गवच्छास्त्रकुलावलोकनाय । अपि तु ॥ ४ ॥
ध्रुवबालनर्तकीनां गणिकानां
परिनर्तनादिदृष्ट्यै न हि नासि ।
कया कदापि विष्णोः पदपद्मार्पि
तपुष्पगंधबुद्धिः । कमलेश ॥ ५ ॥
भवामि किंतु विष्णोश्चरणानर्पितपुष्पगंध
बुद्धिः नृहरेऽच्युतमाधवेशकृष्णहरिगोविं ।
दमुकुंदनामजातम् । न हि कीर्तयतीह मे कु
जिह्वाऽपि तु दुर्लिंगभगांकितान् कुशब्दान् ॥ ६ ॥
तव मंदिरमार्जनादिसेवां
न करौ मे कुरुतः कदापि भ ।
क्त्या । अपि तूरुगुणार्य दुष्टव
स्तुग्रहणायैव यतेत इंदिरेश ॥ ७ ॥
उदरं मम धिक् शठस्य विष्ण्व
र्पितपूतान्नविवर्जितं नितां ।
तम् । यदपूततरासमर्पणी
याधमवृन्ताकपलांडुपूर्वभाजः ॥ ८ ॥
खलजारवधूगृहाणि नित्यं
चरणाभ्यामनुयाम्यहं त्वरा ।
भ्याम् । न तु माधव तावकालयां
श्च प्रतियामीश महत्तमाग्रहोऽहम् ॥ ९ ॥
मन एव हरेऽखिलेंद्रियाणां
वरमित्थं प्रमितं श्रुतिस्मृति ।
भ्याम् । सुमनोजयिनोऽखिलेंद्रिया
णां जय एवेति जनानुभूतिरस्ति ॥ १० ॥
मनसाच्युत कृष्ण तादृशेना
प्यनुचिंत्यैव भवंतमात्मभ ।
क्तान् । भववारिनिधेः सुतारयं
तं भववार्धिं न हि तर्तुमस्ति यत्नः ॥ ११ ॥
मम पापचयस्य वासुदेवां
तकलोकस्थितिरेव चेत् फलं ।
तु । न सुखी सदृशोऽस्ति मे त्रिलो
क्यां फलभावेन महत्तमोऽस्ति ॥ १२ ॥
सिद्धम् न सुखानुभवाय पाप
कर्माण्यहमीशानुदितं तनो ।
मि किं तु । अघनाशयशः परी
क्षणार्थं तव नाम्ना मनुतापसिद्ध ॥ १३ ॥
एव निजवासरुषा प्रदातुमा
र्तिं ह्यधिकां पापनियामकासुरे ।
भ्यः । अशुभान्यपि कारयन्मया त्वं
रमसे सर्वनियामको विभासि ॥ १४ ॥
यदि कृष्ण कदाचनापि पुण्यं
घटते पापमयस्य मेऽपि त ।
त्तु । प्रबलाघचयैर्निहन्यते
वा दुरितध्वंसकृतार्थमीश वा स्यात् ॥ १५ ॥
तदिहोभयतश्च पुण्यमूर्ते
सुकृतं नो घटते मनागपी ।
श । वद मे पुरतस्त्वतीव भी
रोर्भगवन् कालभयापहर्क्युपायम् ॥ १६ ॥
अतुलं नृषुवैष्णवं सुजन्मा
च्युतदत्तं कृपया त्वयाऽप्यवा ।
प्य । क्षणजीव्यपि कल्पगत्वबु
द्ध्या पशुचंडालवदेव संचरामि ॥ १७ ॥
न तदस्ति शरीरिणां शताब्दा
युषि शास्त्रप्रथितेऽपि किंचिदे ।
व । भगवन् खलु सर्वरात्रिका
लो जलहोमोपमतामुपैति नालम् ॥ १८ ॥
द्विदशाब्दयुगं दिवाऽपि पूर्वो
त्तरमीशार्भकभाववार्धका ।
भ्याम् । समयं प्रणयामि सर्वरो
गैर्बहुलीलाभिरपि ॥ १९ ॥
प्रमूढबुद्ध्या परिशेषित ईश
मध्यकालः सुकृते भारतभूत ।
ले वरिष्ठः । यदिहापि सदैव पा
पचित्ते मयि पश्यंत्यजयोश्च कोऽपराधः ॥ २० ॥
इह भारतभूतलेऽतिपुण्ये
द्रविणस्त्रीसुतपूर्वकेषु मा ।
याम् । अलमेकदिनं विमुच्य वा
मे तव पादाब्जरतिं प्रदेहि देव ॥ २१ ॥
रमयाऽप्यगणय्यवस्तुजातं
द्विविधं प्राहुरमंदबुद्धिभा ।
जः । तव सद्गुणजातमेकम
न्यन्मम दुर्वारदुरंतपापजातम् ॥ २२ ॥
अतिसौख्यकराण्यलं परस्ता
त् न हि किंचित् श्रमसाध्यसाधना ।
नि । श्रमभीरुरहं त्यजन् पर
त्रामितशोकानुभवी कथं भवामि ॥ २३ ॥
भुवि यद्यपि पापिनो वसंति
श्रमभाजः पुरुषास्तथाऽपि कोऽ ।
पि । मम पापसमानपापक
र्ता पुरुषो नास्ति हि नास्ति नास्ति नास्ति ॥ २४ ॥
नतयो न कृताः प्रदक्षिणाश्च
स्तुतयोऽपि ध्रुवमंतरेव दं ।
भः । न गुरुः परिसेवितः सुभ
क्त्या शुभशास्त्रश्रवणं कथं ततः स्यात् ॥ २५ ॥
वचनैर्बहुभिर्मुकुंद किं ते
शृणु मे बीजवचो वदामि तु ।
भ्यम् । भुवनत्रयसंस्थितानि या
नीश्वर पापानि वसन्ति मय्ययोग्ये ॥ २६ ॥
प्रकृतैतदघव्रजात् प्रमुक्ति
र्न भवेत्कैरपि ते दयां विना ।
द्य । करुणां कुरु मय्यतो दया
लो नतयस्ते कमलेश संत्वनंताः ॥ २७ ॥
विजयींद्रयतीश्वरो व्यतानी
त् स्तुतिमेनां दुरितापहां मुरा ।
रेः । परमादरतः सदा पठे
द्यो निखिलैः पापचयैर्भवेत् स मुक्तः ॥ २८ ॥
॥ इति श्रीविजयद्रयतिकृतं पापविमोचनस्तोत्रम् सम्पूर्णम् ॥