Reading & Download Font
📖
✓
Noto Serif Devanagari
Classical Book Style
🔤
✓
Noto Sans Devanagari
Clean Modern Sans
📜
✓
Siddhanta
Traditional Vedic
🖋️
✓
Noto Serif Bold
Heavy Classical
📱
✓
Noto Sans UI
Compact Interface
📖 न्यायसुधा - मङ्गलाचरणम्
▼
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद-
प्रभाजालोल्लासोपहतसकलावद्यतमसे ।
जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे
नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः
प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् ।
ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गग
स्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ २ ॥
व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिः
व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्नवै बाधिते ।
नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे
भूयात् तत्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥
भवति यदनुभावादेडमूकोऽपि वाग्मी
जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः ।
सकलवचनचेतोदेवता भारती सा
मम वचसि निधत्तां सन्निधिं मानसे च ॥ ४ ॥
रमानिवासोचितवासभूमिः सन्न्यायरत्नावलिजन्मभूमिः ।
वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद् विभूत्यै ॥ ५ ॥
पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः ।
श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून् मम ॥ ६ ॥
श्रीमदानन्दतीर्थार्यसन्मनः सरसीभुवि ।
अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥
न शब्दाब्धौ गाढा नच निगमचर्चासु चतुराः
नच न्याये प्रौढा नच विदितवेद्या अपि वयम् ।
परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं
प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥
📖 न्यायसुधा - अनुव्याख्यानस्य मङ्गलश्लोकस्य च अवतरणिका
▼
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावगुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाचार्याभिप्रायमस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति – नारायणमिति ।
📖 अनुव्याख्यानम्
▼
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
📖 न्यायसुधा - श्लोकान्वयोपपादनम्
▼
अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । समिति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया सम्बन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्राऽर्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।
📖 न्यायसुधा - नारायणस्य नम्यत्वोपपादनम्
▼
अथवा कुतो नारायणस्य नम्यत्वम् ? तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तम् अशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वेभिरिति विशेषा असाधारणधर्माः, अशेषाश्च ते विशेषाश्च । अपिरभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः, तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथाऽशेषाद् वन्द्यत्वेन समाशङ्कितात् पद्मापद्मभवादेर्जगतो विशेषोऽतिशयोऽशेषविशेषः सर्वोत्तमत्वम्, ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ।
एतदुभयं कथं नारायणस्येत्यतोऽभिहितम्निखिलेत्यादि । त्रिविधा हि देवता वन्द्या भवतिविशिष्टा, अधिकृता, इष्टा चेति । नहि देवतावन्दनं व्यसनितया क्रियते, किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति ।
तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहम्, निर्दोषम्, अस्योद्भवादिदमिति विशेषणत्रयम् । निखिला निःशेषाः, पूर्णाः प्रत्येकमप्यनवधिकाः, गुणा आनन्दादयः, एकशब्दः केवलार्थः, त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः । निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकम्, तद् यथासम्भवं ददातीत्युद्भवादिदः, तम् । अस्येति सम्बन्धमात्रे षष्ठी। अशेषविशेषतोऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्ध्यते, वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति । अधिकृतत्वप्रदर्शनाय – आप्यतममप्यखिलैः सुवाक्यैरिति । अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वाऽनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैरखिलैराप्याप्यतमम्, अतिशयेन प्रतिपाद्यम् ।
यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः, हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यवात् । अस्य पुनरनन्यार्थतयाऽखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतमुच्यत इत्याशयवता “आप्यतमम्” इति “अखिलैः” इति चोक्तम् । इष्टत्वप्रदर्शनम्सदा प्रियतमं ममेति । अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।
📖 न्यायसुधा - नारायणस्य लक्षणानि
▼
यद्वा नानिर्धारितस्वरूपस्य प्रणामो युक्तः । नचान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिलेत्यनेन निखिलगुणत्वम्, पूर्णगुणत्वम्, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोषमित्यनेनैकम् । आप्यतममित्यनेन वेदादिमुख्यार्थत्वम्, अखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाष्टौ। अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम्, अशेषाद् विशेषेण वन्द्यमिति । सदेत्यनेन परमप्रेमयोग्यत्वम् । तस्यानानुभाविकत्वादसम्भवमाशङ्क्य सदा ममेत्युक्तम्। अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।
📖 न्यायसुधा - नारायणस्य शास्त्रैकसमधिगम्यत्वम्
▼
अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम् । ननु वेदाद्येकदेशेऽन्यथाऽप्युच्यते । न । तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैः इत्युदितम् । तर्हि धर्माद्यसिद्धिः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽऽप्यतममित्यभिहितम् । अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् - अस्येति ।
📖 न्यायसुधा - नारायणस्य जगज्जन्मादिकारणत्वानुपपत्तिपरिहारः
▼
यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः । तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् – निखिलपूर्णगुणैकदेहम्, निर्दोषमिति । देहवत्त्वाज्ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।
📖 न्यायसुधा - नारायणशब्दार्थकथनम्
▼
अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिकः, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः, किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयन् तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् । तथाहि - अरा दोषाः, तद्विरुद्धत्वाद् गुणा नाराः, तदयनत्वान्नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादय, प्रतिपाद्यतया तदयनत्वाद् वा । नराणामिदं नारमुद्भवादि, दातृतया तस्यायनत्वाद् वा । नरसमूहो नारम्, वन्द्यतया तदयनत्वाद् वा । नराणामधिपतिर्नारो मुख्यवायुः, परमप्रेमास्पदतया तस्यायनत्वाद् वेति यथाक्रममवगन्तव्यम् ।
📖 न्यायसुधा - सङ्क्षेपतः अध्यायचतुष्टयार्थकथनम्
▼
अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतोऽनेनाऽचष्टे । विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थःनिखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह – अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता । तत्कथनम्आप्यतममिति ।
प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितः । तमाह – निर्दोषमिति ।
एवं ब्रह्मस्वरूपे सिद्धेऽधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः – अशेषविशेषतोऽपि प्रियतमम्, आप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । “इयदामननात्" इत्याद्यर्थसूचनम् — ममेति । प्रसन्नं च तत्, यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् आप्यतममिति । आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टिीति ।
📖 न्यायसुधा - गुरुप्रणामः, ग्रन्थारम्भप्रतिज्ञा च
▼
नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्ध्यङ्गतया कार्यारम्भेऽवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते - तमेवेति ।
📖 अनुव्याख्यानम्
▼
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥२॥
📖 न्यायसुधा - श्लोकार्थः उपपादनं च
▼
तं = पूर्वप्रणतं नारायणमेव, अन्वपि = पुनरपि, प्रणम्य = भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वाऽहं परमाख्यविद्याया ब्रह्ममीमांसारूपाया व्याख्यां करोमीति सम्बन्धः । वर्तमानसामीप्याद् वर्तमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद् वा ।
ननु प्रणतस्य पुनः प्रणामः किमर्थः ? नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्व श्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् ।
। कथं नारायणस्य गुरुत्वमित्यत आह - शास्त्रप्रभवमिति । शास्त्रशब्देन प्रकृतत्वाद् ब्रह्ममीमांसाशास्त्रम्, वेदादिकं चोच्यते । प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात् स प्रभवः । यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव ।
प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह – जगद्गुरूणामिति । जगत एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनामञ्जसा मुख्यतया, नतु वयोधिकत्वादिमात्रेण गुरुम् । अस्य शास्त्रस्य प्रवक्तारमिति यावत् । प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते – विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, नतु जगत इव परम्परया ।
अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत, तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेवेत्युक्तम् । नचैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् । शिष्यशिक्षायै चैतद् ग्रन्थे निवानम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्रुरूणामित्युक्तम् । अन्यथा “विशेषतो मे” इत्युक्तमयुक्तं स्यात् ।